Sukta 5.30
चतुःसहस्रं गव्यस्य पश्वः प्रत्यग्रभीष्म रुशमेष्वग्ने । घर्मश्चित्तप्तः प्रवृजे य आसीदयस्मयस्तम्वादाम विप्राः ॥
चतु॑:सहस्रं॒ गव्य॑स्य प॒श्वः प्रत्य॑ग्रभीष्म रु॒शमे॑ष्वग्ने । घ॒र्मश्चि॑त्त॒प्तः प्र॒वृजे॒ य आसी॑दय॒स्मय॒स्तम्वादा॑म॒ विप्रा॑: ॥
catúḥsahasraṃ gávya̍sya paśváḥ práty agrabhīṣma ruśámeṣv agne | gharmáś cit taptáḥ pravṛ́je yá āsīd ayasmáyas tám vādāma víprāḥ ||
بينَ الرُّشَمَةِ، يا أَغْنِي، قد نِلْنا أربعةَ آلافٍ من البقر—قطعانًا مُضيئة. وحتى «غَرْمَا» المُحمّى، الذي كان في الفضاء المكشوف—مصنوعًا من الحديد—فإنّا نحنُ الرُّؤاةُ (الـṛṣi) نذكره وننطق به (آيةً على ما أُنجِز من عمل).
चतुः॑ऽसहस्रम् । गव्य॑स्य । प॒श्वः । प्रति॑ । अ॒ग्र॒भी॒ष्म॒ । रु॒शमे॑षु । अ॒ग्ने॒ । घ॒र्मः । चि॒त् । त॒प्तः । प्र॒ऽवृजे॑ । यः । आसी॑त् । अ॒य॒स्मयः॑ । तम् । ऊँ॒ इति॑ । आदा॑म । विप्राः॑ ॥चतुःसहस्रम् । गव्यस्य । पश्वः । प्रति । अग्रभीष्म । रुशमेषु । अग्ने । घर्मः । चित् । तप्तः । प्रवृजे । यः । आसीत् । अयस्मयः । तम् । ऊँ इति । आदाम । विप्राः ॥catuḥ-sahasram | gavyasya | paśvaḥ | prati | agrabhīṣma | ruśameṣu | agne | gharmaḥ | cit | taptaḥ | pra-vṛje | yaḥ | āsīt | ayasmayaḥ | tam | oṃ iti | ādāma | viprāḥ