Sukta 10.27
सा ते जीवातुरुत तस्य विद्धि मा स्मैतादृगप गूहः समर्ये । आविः स्वः कृणुते गूहते बुसं स पादुरस्य निर्णिजो न मुच्यते ॥
सा ते॑ जी॒वातु॑रु॒त तस्य॑ विद्धि॒ मा स्मै॑ता॒दृगप॑ गूहः सम॒र्ये । आ॒विः स्व॑: कृणु॒ते गूह॑ते बु॒सं स पा॒दुर॑स्य नि॒र्णिजो॒ न मु॑च्यते ॥
sā́ te jīvā́tur uta tásya viddhi mā́ smáitā́dṛ́g ápa gūhaḥ samaryé | āvíḥ svàḥ kṛṇuté gūhaté busáṃ sá pā́dur asya nirṇíjo ná mucyate ||
تلك هي قوّةُ حياتِكَ؛ فاعرفْ سرَّها أيضاً. لا تُخفِ مثلَ هذه الرؤيا في معركةِ الإيفاءِ بالحقّ. مَن يُظهِرُ عالَمَ الشمسِ ثم يُخفي القِشرَ—فهو الحارسُ على العتبة؛ لا يُعتَقُ من رداءِ سترِه.
सा । ते॒ । जी॒वातुः॑ । उ॒त । तस्य॑ । वि॒द्धि॒ । मा । स्म॒ । ए॒ता॒दृक् । अप॑ । गू॒हः॒ । स॒म॒र्ये । आ॒विः । स्वरिति॑ स्वः॑ । कृ॒णु॒ते । गूह॑ते । बु॒सम् । सः । पा॒दुः । अ॒स्य॒ । निः॒ऽनिजः॑ । न । मु॒च्य॒ते॒ ॥सा । ते । जीवातुः । उत । तस्य । विद्धि । मा । स्म । एतादृक् । अप । गूहः । समर्ये । आविः । स्वरिति स्वः । कृणुते । गूहते । बुसम् । सः । पादुः । अस्य । निःनिजः । न । मुच्यते ॥sā | te | jīvātuḥ | uta | tasya | viddhi | mā | sma | etādṛk | apa | gūhaḥ | samarye | āviḥ | svar itisvaḥ | kṛṇute | gūhate | busam | saḥ | pāduḥ | asya | niḥ-nijaḥ | na | mucyate