Sukta 1.61
अस्मा इदु प्र भरा तूतुजानो वृत्राय वज्रमीशानः कियेधाः । गोर्न पर्व वि रदा तिरश्चेष्यन्नर्णांस्यपां चरध्यै ॥
अ॒स्मा इदु॒ प्र भ॑रा॒ तूतु॑जानो वृ॒त्राय॒ वज्र॒मीशा॑नः किये॒धाः । गोर्न पर्व॒ वि र॑दा तिर॒श्चेष्य॒न्नर्णां॑स्य॒पां च॒रध्यै॑ ॥
asmā́ idu prá bharā tūtujā́no vṛtrā́ya vájram ī́śānaḥ kiyedhā́ḥ | gór na párva ví radā tiraścéṣyan árṇāṃsy apā́ṃ carádhyai ||
أبرِزْ له الفَجْرَةَ (الفَجْرَةَ/الفَجْرَةَ: الفَجْرَةَ) — ذاك الذي يندفع إلى المقدّمة، سيّدُ القوى — على فِرْترا (Vṛtra) لأجل الفعل الحاسم. شُقَّ المفاصلَ كما تُشقُّ مفاصلُ الثور؛ واخترقْ عابرًا، لكي تجدَ سيولُ المياهِ مجراها الحرّ.
अ॒स्मै । इत् । ऊँ॒ इति॑ । प्र । भ॒र॒ । तूतु॑जानः । वृ॒त्राय॑ । वज्र॑म् । ईशा॑नः । कि॒ये॒धाः । गोः । न । पर्व॑ । वि । र॒द॒ । तिर॑श्चा । इष्य॑न् । अर्णां॑सि । अ॒पाम् । च॒रध्यै॑ ॥अस्मै । इत् । ऊँ इति । प्र । भर । तूतुजानः । वृत्राय । वज्रम् । ईशानः । कियेधाः । गोः । न । पर्व । वि । रद । तिरश्चा । इष्यन् । अर्णांसि । अपाम् । चरध्यै ॥asmai | it | oṃ iti | pra | bhara | tūtujānaḥ | vṛtrāya | vajram | īśānaḥ | kiyedhāḥ | goḥ | na | parva | vi | rada | tiraścā | iṣyan | arṇāṃsi | apām | caradhyai