Sukta 1.169
त्वं मानेभ्य इन्द्र विश्वजन्या रदा मरुद्भिः शुरुधो गोअग्राः । स्तवानेभिः स्तवसे देव देवैर्विद्यामेषं वृजनं जीरदानुम् ॥
त्वं माने॑भ्य इन्द्र वि॒श्वज॑न्या॒ रदा॑ म॒रुद्भि॑: शु॒रुधो॒ गोअ॑ग्राः । स्तवा॑नेभिः स्तवसे देव दे॒वैर्वि॒द्यामे॒षं वृ॒जनं॑ जी॒रदा॑नुम् ॥
tváṃ mānébhya indra viśvájanyā ráda marúdbhiḥ śurúdho gó-agrāḥ | stávānebhíḥ stavase deva deváir vidyā́meṣáṃ vṛjánaṃ jīrádānum ||
أنتَ، يا إندرا، تُعطي للمجتهدينَ المتشوّقينَ قُوى «المولودِ للكلّ»؛ ومع الماروتاتِ تَشُقُّ الحُصونَ الشديدةَ التي في مُقدَّمِها النورُ. بأناشيدِنا تُسبَّحُ، أيها الإلهُ، من قِبَلِ الآلهة؛ فَلْنَعْرِفْ هذا الجيشَ الظافرَ—ذا العطاءِ المُندفِعِ الذي يَسكُبُ الوفرةَ السريعةَ.
त्वम् । माने॑भ्यः । इ॒न्द्र॒ । वि॒श्वऽज॑न्या । रद॑ । म॒रुत्ऽभिः॑ । शु॒रुधः॑ । गोऽअ॑ग्राः । स्तवा॑नेभिः । स्त॒व॒से॒ । दे॒व॒ । दे॒वैः । वि॒द्याम॑ । इ॒षम् । वृ॒जन॑म् । जी॒रऽदा॑नुम् ॥त्वम् । मानेभ्यः । इन्द्र । विश्वजन्या । रद । मरुत्भिः । शुरुधः । गोअग्राः । स्तवानेभिः । स्तवसे । देव । देवैः । विद्याम । इषम् । वृजनम् । जीरदानुम् ॥tvam | mānebhyaḥ | indra | viśva-janyā | rada | marut-bhiḥ | śurudhaḥ | go--agrāḥ | stavānebhiḥ | stavase | deva | devaiḥ | vidyāma | iṣam | vṛjanam | jīra-dānum