Sukta 1.164
यस्ते स्तनः शशयो यो मयोभूर्येन विश्वा पुष्यसि वार्याणि । यो रत्नधा वसुविद्यः सुदत्रः सरस्वति तमिह धातवे कः ॥
यस्ते॒ स्तन॑: शश॒यो यो म॑यो॒भूर्येन॒ विश्वा॒ पुष्य॑सि॒ वार्या॑णि । यो र॑त्न॒धा व॑सु॒विद्यः सु॒दत्र॒: सर॑स्वति॒ तमि॒ह धात॑वे कः ॥
yás te stánaḥ śaśayó yó mayobhū́r yéna víśvā púṣyasi vā́ryāṇi | yó ratnadhā́ vasuvídyaḥ sudátraḥ sárasvati tám iha dhā́tave káḥ ||
يا سارَسْوَتِي، أيُّ ثَدْيِكِ ذاكَ الذي يفيضُ غذاءً، والذي يصيرُ بهجةً، وبِهِ تُنمّينَ كلَّ الخيراتِ المُشتهى؟ والذي يحملُ الكنوزَ المتلألئة، ويهتدي إلى الثروةِ الحقّة، ويهبُ هبةً حسنة—فمَن ههنا يستطيعُ أن يُثبّتَ ذاكَ فينا، ليُقامَ ويُمتلَكَ؟
यः । ते॒ । स्तनः॑ । श॒श॒यः । यः । म॒यः॒ऽभूः । येन॑ । विश्वा॑ । पुष्य॑सि । वार्या॑णि । यः । र॒त्न॒ऽधाः । व॒सु॒ऽवित् । यः । सु॒ऽदत्रः॑ । सर॑स्वति । तम् । इ॒ह । धात॑वे । क॒रिति॑ कः ॥यः । ते । स्तनः । शशयः । यः । मयःभूः । येन । विश्वा । पुष्यसि । वार्याणि । यः । रत्नधाः । वसुवित् । यः । सुदत्रः । सरस्वति । तम् । इह । धातवे । करिति कः ॥yaḥ | te | stanaḥ ḥ śaśayaḥ | yaḥ | mayaḥ-bhūḥ | yena | viśvā | puṣyasi | vāryāṇi | yaḥ | ratna-dhāḥ | vasu-vit | yaḥ | su-datraḥ | sarasvati | tam | iha | dhātave | karitikaḥ