Sukta 1.163
उप प्रागात्परमं यत्सधस्थमर्वाँ अच्छा पितरं मातरं च । अद्या देवाञ्जुष्टतमो हि गम्या अथा शास्ते दाशुषे वार्याणि ॥
उप॒ प्रागा॑त्पर॒मं यत्स॒धस्थ॒मर्वाँ॒ अच्छा॑ पि॒तरं॑ मा॒तरं॑ च । अ॒द्या दे॒वाञ्जुष्ट॑तमो॒ हि ग॒म्या अथा शा॑स्ते दा॒शुषे॒ वार्या॑णि ॥
úpa prá ā́gāt paramáṃ yát sádhastham árvā̃n ácchā pitáraṃ mātáraṃ ca | adyā́ devā́n juṣṭátamo hí gamyā́ athā́ śā́ste dāśúṣe vā́ryāṇi ||
يتقدّم فيبلغ المقام الأعلى، موضعَ الاستقرار للإنجاز؛ ذلك الأَرفان (arvān، الجواد) يمضي نحو الأب والأم. اليوم هو الأشدّ قبولًا عند الآلهة، وهو حقًّا ممّا يُنال؛ ثمّ يوزّع للواهِبِ الخيراتِ المرغوبة—امتلاءاتِ الكينونة.
उप॑ । प्र । अ॒गा॒त् । प॒र॒मम् । यत् । स॒धऽस्थ॑म् । अर्वा॑न् । अच्छ॑ । पि॒तर॑म् । मा॒तर॑म् । च॒ । अ॒द्य । दे॒वान् । जुष्ट॑ऽतमः । हि । ग॒म्याः । अथ॑ । आ । शा॒स्ते॒ । दा॒शुषे॑ । वार्या॑णि ॥उप । प्र । अगात् । परमम् । यत् । सधस्थम् । अर्वान् । अच्छ । पितरम् । मातरम् । च । अद्य । देवान् । जुष्टतमः । हि । गम्याः । अथ । आ । शास्ते । दाशुषे । वार्याणि ॥upa | pra | agāt | paramam | yat | sadha-stham | arvān | accha | pitaram | mātaram | ca | adya | devān | juṣṭa-tamaḥ | hi | gamyāḥ | atha | ā | śāste | dāśuṣe | vāryāṇi