Sukta 1.135
इमे ये ते सु वायो बाह्वोजसोऽन्तर्नदी ते पतयन्त्युक्षणो महि व्राधन्त उक्षणः । धन्वञ्चिद्ये अनाशवो जीराश्चिदगिरौकसः । सूर्यस्येव रश्मयो दुर्नियन्तवो हस्तयोर्दुर्नियन्तवः ॥
इ॒मे ये ते॒ सु वा॑यो बा॒ह्वो॑जसो॒ऽन्तर्न॒दी ते॑ प॒तय॑न्त्यु॒क्षणो॒ महि॒ व्राध॑न्त उ॒क्षण॑: । धन्व॑ञ्चि॒द्ये अ॑ना॒शवो॑ जी॒राश्चि॒दगि॑रौकसः । सूर्य॑स्येव र॒श्मयो॑ दुर्नि॒यन्त॑वो॒ हस्त॑योर्दुर्नि॒यन्त॑वः ॥
imé yé te sú vāyo bā́hvojasaḥ ’ntár nadī́ té patáyanty ukṣáṇo máhi vrā́dhanta ukṣáṇaḥ | dhánvaṃ cid yé anā́śavo jīrā́ś cid ágirá-okasaḥ | sū́ryasyeva raśmáyo dūr-niyántavo hástayor dūr-niyántavaḥ ||
هؤلاء، يا فايُو، قواك ذاتُ الأذرعِ الشديدة؛ في جوفِ النهرِ يطيرون—طاقاتٌ كالثيرانِ تزدادُ عِظَمًا. حتى عبرَ القفرِ لا يفقدونَ سرعتَهم؛ وحتى على القِمَمِ لا يكلّون. كأشعّةِ سُورْيا (Sūrya) هم عسيرو الكبح، عسيرو الإمساك بالأيدي.
इ॒मे । ये । ते॒ । सु । वा॒यो॒ इति॑ । बा॒हुऽओ॑जसः । अ॒न्तः । न॒दी इति॑ । ते॒ । प॒तय॑न्ति । उ॒क्षणः॑ । महि॑ । व्राध॑न्तः । उ॒क्षणः॑ । धन्व॑न् । चि॒त् । ये । अ॒ना॒शवः॑ । जी॒राः । चि॒त् । अगि॑राऽओकसः । सूर्य॑स्यऽइव । र॒श्मयः॑ । दुः॒ऽनि॒यन्त॑वः । हस्त॑योः । दुः॒ऽनि॒यन्त॑वः ॥इमे । ये । ते । सु । वायो इति । बाहुओजसः । अन्तः । नदी इति । ते । पतयन्ति । उक्षणः । महि । व्राधन्तः । उक्षणः । धन्वन् । चित् । ये । अनाशवः । जीराः । चित् । अगिराओकसः । सूर्यस्यइव । रश्मयः । दुःनियन्तवः । हस्तयोः । दुःनियन्तवः ॥ime | ye | te | su | vāyo iti | bāhu-ojasaḥ | antaḥ | nadī iti | te | patayanti | ukṣaṇaḥ | mahi | vrādhantaḥ | ukṣaṇaḥ | dhanvan | cit | ye | anāśavaḥ | jīrāḥ | cit | agirāokasaḥ | sūryasya-iva | raśmayaḥ | duḥ-niyantavaḥ | hastayoḥ | duḥ-niyantavaḥ