Sukta 1.109
युवामिन्द्राग्नी वसुनो विभागे तवस्तमा शुश्रव वृत्रहत्ये । तावासद्या बर्हिषि यज्ञे अस्मिन्प्र चर्षणी मादयेथां सुतस्य ॥
यु॒वामि॑न्द्राग्नी॒ वसु॑नो विभा॒गे त॒वस्त॑मा शुश्रव वृत्र॒हत्ये॑ । तावा॒सद्या॑ ब॒र्हिषि॑ य॒ज्ञे अ॒स्मिन्प्र च॑र्षणी मादयेथां सु॒तस्य॑ ॥
yuvā́m indrāgnī vásuno vibhāgé tavástamā śuśrava vṛtrahátye | tā́v āsádyā barhíṣi yajñé asmín prá carṣaṇī mādayethāṃ sutásya ||
يا إندرا وأغني، أنتما الأشدّ بأسًا في قِسمة الثروات؛ وقد سمعتُ خبركما في قتل فِرِترا. فاجلسا حالًا على العُشب المقدّس (بَرْهِس) في هذا اليَجْنَا، يا قائدي البشر، وابتهجا بسوما المعصور (سوتا).
यु॒वाम् । इ॒न्द्रा॒ग्नी॒ इति॑ । वसु॑नः । वि॒ऽभा॒गे । त॒वःऽत॑मा । शु॒श्र॒व॒ । वृ॒त्र॒ऽहत्ये॑ । तौ । आ॒ऽसद्य॑ । ब॒र्हिषि॑ । य॒ज्ञे । अ॒स्मिन् । प्र । च॒र्ष॒णी॒ इति॑ । मा॒द॒ये॒था॒म् । सु॒तस्य॑ ॥युवाम् । इन्द्राग्नी इति । वसुनः । विभागे । तवःतमा । शुश्रव । वृत्रहत्ये । तौ । आसद्य । बर्हिषि । यज्ञे । अस्मिन् । प्र । चर्षणी इति । मादयेथाम् । सुतस्य ॥yuvām | indrāgnī iti | vasunaḥ | vi-bhāge | tavaḥ-tamā | śuśrava | vṛtra-hatye | tau | āsadya | barhiṣi | yajñe | asmin | pra | carṣaṇī iti | mādayethām | sutasya