
Daityamantrimaṇḍala-vimarśaḥ tathā devajayāya sainyasaṃniveśaḥ
Itihāsa-Narrative (Political Counsel, Diplomacy, and War-Mobilization)
婆罗诃(Varāha)叙述:那罗陀离去后,阿修罗(Daitya)之王摩醯沙(Mahiṣa)仍为所闻“吉祥少女”而心神萦绕。为求可行之策,他召集通晓尼提(nīti,治国谋略)与谋议的重臣,众臣劝其立刻行动。摩醯沙表明志向:夺得此女,并降伏诸天(deva)。普罗伽沙(Praghasa)指出此女乃护持诸世界的至上毗湿奴系神力——毗湿奴女神力(Vaiṣṇavī śakti),并警诫不可起非法欲念、以越法之途强取。毗伽沙(Vighasa)提出循序的政治手段:先以 sāman(和解)遣使并借亲族调停,其次以 dāna(馈赠利诱),再以 bheda(离间分化),最后以 daṇḍa(惩罚威压);若皆不成,则建议以武力夺取。群臣称善,遣出能干使者,并催促整军备战。摩醯沙命统帅毗卢帕叉(Virūpākṣa)集结庞大的四部军(四种兵种),阿修罗大军遂自信进发,誓胜诸天及其盟友。
Verse 1
श्रीवराह उवाच । गते तु नारदे दैत्यश्चिन्तयामास तां शुभाम् । कथितां नारदमुखाच्छ्रुत्वा विस्मितमानसः ॥
圣瓦拉哈说道:当那罗陀离去之后,阿修罗便思惟那位吉祥的(女神);从那罗陀口中听闻其所述之状,他心中充满惊异。
Verse 2
गुरुपत्नी राजपत्नी तथा सामन्तयोषितः । जिघृक्षन् नश्यते राजा तथागम्यागमेन च ॥
国王若欲染指师母、他王之妃,或诸侯属臣之妇女,必致败亡;同样,因非法私通——去接近不应接近者——亦将自取灭亡。
Verse 3
प्रघसेनैवमुक्तस्तु विघसो वाक्यमब्रवीत् । सम्यगुक्तं प्रघसेन तां देवीं प्रति पार्थिव ॥
普拉伽塞那如此说罢,毗伽娑答道:“说得好,普拉伽塞那!关于那位高贵的夫人,陛下。”
Verse 4
यदि नाम मतैक्यं तु बुद्धिः स्मरणमागता । वरणीया कुमारी तु सर्वदा विजिगीषुभिः । न स्वतन्त्रेण कन्यायाः कार्यं क्वापि प्रकर्षणम् ॥
若确已意见一致、心意已定,则当为此少女求婚——凡欲取胜者(即谨慎的君主)常应如此。然而,凡关乎少女之事,任何地方都不应由她自行推动,须在监护与许可之下。
Verse 5
यदि वो रोचते वाक्यं मदीयं मन्त्रिसत्तमाः । तदानीं तां शुभां देवीं गत्वा याचन्तु मन्त्रिणः ॥
若诸位上卿认可我的提议,那么就请诸臣立刻前往,依礼正式求请那位吉祥的夫人。
Verse 6
यो महात्मा भवेत् तस्या बन्धुस्तं याचयामहे । साम्नैवादौ ततः पश्चात् करिष्यामः प्रदानकम् । ततो भेदं करिष्यामस्ततो दण्डं क्रमेण च ॥
无论哪位贤德之士是她的亲族,我们都将向其请愿。先以和解之道行事;继而奉上礼物。随后施以离间分化之策,最后才按次第动用强制之力(惩罚)。
Verse 7
अनेन क्रमयोगेन यदि सा नैव लभ्यते । ततः सन्नह्य गच्छामो बलाद् गृह्णीम तां शुभाम् ॥
若依此循序之法仍不能得她,则当整备而往;以武力夺取那位吉祥的女子。
Verse 8
विघसेनैवमुक्ते तु शेषास्तु मन्त्रिणो वचः । शुभमूचुः प्रशंसन्तः सर्वे हर्षितया गिरा ॥
毗伽娑如此说罢,其余诸大臣皆称赞他,众人以欢喜之声表示赞同。
Verse 9
साधूक्तं विघसेनेदं यत् तां प्रति वराननाम् । तदेव क्रियतां शीघ्रं दूतस्तत्र विसर्ज्यताम् ॥
“毗伽娑就那位容颜姣好的女子所言甚善。就按此计速行;当遣使者前往彼处。”
Verse 10
यः सर्वशास्त्रनीतिज्ञः शुचिः शौर्यसमन्वितः । तस्माज् ज्ञात्वा तु तां देवीं वर्णतो रूपतो गुणैः ॥
当遣通晓诸论典与治国之道、品行清净且具勇武者;既已从其门第、形貌与德性诸方面了解那位女子,便当依之而行。
Verse 11
पराक्रमेण शौर्येण शौण्डीर्येण बलेन च । बन्धुवर्गेण सामग्र्य स्थानेन करणेन च । एवं ज्ञात्वा तु तां देवीं ततः कार्यं विधीयताम् ॥
当如是考量她——以其威势、勇武、果敢与力量;以其亲族之众、资具与备办、所处之位与施行之具。既如此了解那位女子,便当制定所需之举。
Verse 12
तामेव चिन्तयन् शर्म न लेभे दैत्यसत्तमः । अलंशर्मा महामन्त्री आनिनाय महाबलः ॥
达那婆中最杰出的舍尔玛一心只念着她,终不得安宁;随后大臣阿兰舍尔玛,力大无比,将此事呈上。
Verse 13
ततः सपदि दैत्यस्य तद्वचः साधु साध्विति । प्रशशंसुर्वरारोहे विघसं मन्त्रिसत्तमम् ॥
随即众人称赞那位大底耶的言辞,齐声道“善哉,善哉”,噢腰胯婀娜者,并赞颂毗伽娑为群臣之最。
Verse 14
प्रशस्य सर्वे तं दूतं संदेश्टुमुपचक्रमुः । विद्युत्प्रभं महाभागं महामायाविदं शुभम् ॥
众人称赞那使者,遂着手委任他传达使命——其光辉如闪电,福德卓著,精通大幻术(摩耶),且为吉祥之人。
Verse 15
विसर्जयित्वा तं दूतं विघसो वाक्यमब्रवीत् । संनह्यन्तां दानवेन्द्राश्चतुरङ्गबलेन ह । क्रियतां विजयस्तावद् देवसैन्यं प्रति प्रभो ॥
遣退那使者后,毗伽娑说道:“愿诸达那婆之王以四部军(象、马、车、步)整装待发;且先求得对诸神军势之胜利,主上啊。”
Verse 16
असुरेन्द्र सुरैर्भग्नैस्तत्पराक्रमभीषिता । सा कन्या वशतामेति त्वयि शक्रसमागते ॥
阿修罗之主啊,诸神既败,又畏惧那般英勇;当你如敌对的因陀罗般降临时,那少女必将归于你的掌控。
Verse 17
लोकपालैर्जितैः सर्वैस्तथैव मरुतां गणैः । नागैर्विद्याधरैः सिद्धैर्गन्धर्वैः सर्वतो जितैः । रुद्रैर्वसुभिरादित्यैस्त्वमेवेन्द्रो भविष्यसि ॥
当你征服一切护世者,并同样降伏马鲁特诸众;又从四方制伏那伽、持明者、成就者与乾闼婆;并使鲁陀罗、婆苏与阿底提耶诸神归服——唯有你将成为因陀罗。
Verse 18
इन्द्रस्य ते शतं कन्या देवगन्धर्वयोषितः । वशमायान्ति सा अपि स्यात् सर्वथा वशमागता ॥
因陀罗的一百名少女——天界女子与乾闼婆之女——都将归于你的掌控;她也必将以一切方式完全屈从。
Verse 19
एवमुक्तस्तदा दैत्यः सेनापतिमुवाच ह । विरूपाक्षं महामेघवर्णं नीलाञ्जनप्रभम् ॥
如此被告知后,那位阿修罗便对其统帅说道:毗卢帕叉,色如大雨云般幽暗,带着蓝色安阇那的光泽。
Verse 20
आनीयतां द्रुतं सैन्यं हस्त्यश्वथरपत्तिनाम् । येन देवान् सगन्धर्वान् जयामि युधि दुर्ज्जयान् ॥
“速速调来象军、马军、战车与步兵之师,使我得以在战场上击败诸天与乾闼婆——那些难以征服者。”
Verse 21
एवमुक्ते विरूपाक्षस्तदा सेनापतिर्द्रुतम् । आनिनाय महत्सैन्यमनन्तमपराजितम् ॥
话音既落,统帅毗卢帕叉便立刻带来一支浩大军队——无尽而不可战胜。
Verse 22
एकैको दानवस्तत्र वज्रहस्तसमो युधि । एकैकं स्पर्धते देवं जेतुं स्वेन बलेन ह ॥
在那里,每一位檀那婆(Dānava)在战场上都堪比金刚手(Vajrahasta,即执雷霆的因陀罗)。他们各自与一位天神单独相争,欲凭自身之力取胜。
Verse 23
तस्याष्टौ मन्त्रिणः शूरा नीतिमन्तो बहुश्रुताः । प्रघसो विघसश्चैव शङ्कुकर्णो विभावसुः । विद्युन्माली सुमाली च पर्जन्यः क्रूर एव च ॥
他有八位大臣——勇武、通晓治道且博学多闻:普罗伽沙(Praghasa)、毗伽沙(Vighasa)、商库迦耳那(Śaṅkukarṇa)、毗婆婆苏(Vibhāvasu)、毗陀云摩利(Vidyunmālī)、苏摩利(Sumālī)、波阇尼耶(Parjanya),以及克鲁罗(Krūra)。
Verse 24
तेषां प्रधानभूतानामर्बुदं नवकोटयः । येषामेकस्यानुयाति तावद् बलमर्थोर्ज्जितम् ॥
在他们之中居于首位者,其军势多达一阿部陀(arbuda)与九俱胝(koṭi);而如此的威力——由资财所增益的强盛——即便随从其中一人亦足以相称。
Verse 25
तेषां नैकसहस्राणि दैत्यानां तु महात्मनाम् । समितिं चक्रुरव्यग्रास्तदा दैत्याः प्रहारिणः । प्रयाणं कारयामासुर्देवसैन्यजिघांसया ॥
于是,那些伟大的底提耶(Daitya)中有成千上万者——毫不迟疑、善于击杀——结成集会,并发动行军,只因欲歼灭天神(Deva)之军。
Verse 26
विचित्रयाना विविधध्वजाग्रा विचित्रशस्त्रा विविधोग्ररूपाः । दैत्या सुराञ् जेतुमिच्छन्त उच्चैर्ननर्तुरात्तायुधभीमहस्ताः ॥
他们乘坐华丽的车乘,旗幡之端各不相同;兵刃多样,形貌凶猛万状。诸底提耶(Daitya)欲胜天神(Deva),便高声呼啸而舞,怖畏之手紧握高举的武器。
Verse 27
एते मन्त्रिवरास्तस्य प्राधान्येन प्रकीर्तिताः । ते दानवेन्द्रमासीनमूचुः कृत्यं विधीयताम् ॥
这些杰出的辅臣依其尊位先后被称述。随后他们对端坐的达那婆之王进言道:“愿即刻施行当行之策。”
Verse 28
तेषां तद्वचनं श्रुत्वा दानवेन्द्रो महाबलः । उवाच कन्यालाभार्थं नारदावाप्तनिश्चयः ॥
听罢他们的话,力大无比的达那婆之主开口说道——因从那罗陀所闻而决意已定——欲求得一位少女。
Verse 29
महिष उवाच । मह्यं तु कथिता बाला नारदेन महर्षिणा । सा चाजित्य सुराध्यक्षं न लभ्येत वराङ्गना ॥
摩醯沙说道:“大圣那罗陀确曾向我描述一位少女;而那位殊胜的女子,既已战胜天众之主,便非寻常手段所能得。”
Verse 30
एतदर्थं भवन्तो वै कथयन्तु विमृश्य वै । कथं सा लभ्यते बाला कथं देवाश्च निर्जिताः । भवेयुरिति तत्सर्वं कथयन्तु द्रुतं मम ॥
“因此,你们当深思熟虑后说明:那少女如何可得,诸天又如何可被降伏。速将一切告知于我,使之得以成就。”
Verse 31
एवमुक्तास्ततः सर्वे कथयामासुरञ्जसा । ऊचुः संमन्त्र्य ते सर्वे कथयामो वयं प्रभो ॥
他们既被如此问及,便都坦然开始陈述。众人共议之后说道:“主上,我们将为您说明。”
Verse 32
एवमुक्तस्तथोवाच प्रघसो दानवेश्वरम् । या सा ते कथिता दैत्य नारदेन महासती । सा शक्तिः परमा देवी वैष्णवी लोकधारिणी ॥
普拉伽沙受此言后,便对檀那婆之主说道:“噢,达伊提亚啊,圣贤那罗陀曾向你述说的那位伟大而贤德的圣女——她就是至上的神力(Śakti),神圣的毗湿奴女神之能(Vaiṣṇavī),承持诸世界者。”
The narrative frames political decision-making through nīti: counsel emphasizes a staged approach to goals (sāman, dāna, bheda, daṇḍa) while also warning that transgressive desire—especially toward protected women and through agamya-gamana—leads to royal ruin. The maiden is additionally characterized as a Vaiṣṇavī lokadhāriṇī, suggesting that coercion against world-sustaining power is inherently destabilizing.
No tithi, lunar month, vrata timing, or seasonal marker is specified in Adhyāya 92. The sequence is organized by narrative causality (Nārada’s departure → council → envoy → mobilization) rather than calendrical ritual scheduling.
Environmental balance is addressed indirectly through the description of the maiden as Vaiṣṇavī śakti and lokadhāriṇī (“world-sustaining”). In an ecological-ethical reading consistent with the Varāha–Pṛthivī framework, the text links social restraint and political prudence to the safeguarding of sustaining forces that uphold the world, implying that coercive disruption of such power threatens broader terrestrial stability.
The chapter references Nārada (as the informing sage) and a Daitya political structure headed by Mahiṣa with named ministers (Praghasa, Vighasa, Śaṅkukarṇa, Vibhāvasu, Vidyunmālī, Sumālī, Parjanya, Krūra) and the commander Virūpākṣa. It also lists cosmological-polity actors as opponents or benchmarks of power: Indra/Śakra, lokapālas, maruts, rudras, vasus, and ādityas.