
Mandarādri-sthitā Vaiṣṇavī-Devī: Kumārī-sṛṣṭiḥ, Devīpura-nirmāṇaṃ, Nārada-darśanaṃ ca
Mytho-Narrative (Devī-tapas, celestial mediation, and asura-oriented intrigue)
伐罗诃向大地女神毗提毗叙述:一位毗湿奴系的女神(Vaiṣṇavī Devī)住在曼陀罗山上,守持童贞誓(kaumāra-vrata),精勤修苦行(tapas)。因心中起一念扰动(kṣobha),无量“童女”(kumārī)由她而生,先以共同相貌特征描绘,继而择举其名,如Vidyutprabhā、Candrakānti、Sūryakānti等。女神又在山上营造华丽城邑,众多楼阁与金殿林立,侍从童女环绕,手持绳索(pāśa)与钩(aṅkuśa),而女神仍专注于苦行。那罗陀(Nārada)来访,受以座位(āsana)与仪式款待,惊叹其无比之美与离欲。随后他迅速前往被大海环绕的阿修罗摩希沙(Mahiṣa)之城,转述女神的非凡显现,由此以间接传闻引发阿修罗方面的谋动,而非当场对决。
Verse 1
श्रीवराह उवाच । या मन्दरगता देवी तपस्तप्तुं तु वैष्णवी । राजसी परमा शक्तिः कौमारव्रतधारिणी ॥
圣野猪(室利·婆罗诃)说道:那位前往曼陀罗的女神——毗湿奴之力(Vaiṣṇavī)——修行苦行;她是至上神力,具罗阇斯之性,并持守童女之誓(kaumāra-vrata)。
Verse 2
चन्द्रप्रभा गिरिसुता तथा सूर्यप्रभामृता । स्वयम्प्रभा चारुमुखी शिवदूती विभावरी ॥
她是月光辉(Candraprabhā),山岳所生之女;亦是日光辉(Sūryaprabhā),甘露般者;自光辉(Svayamprabhā),自体放光者;美面者(Cārumukhī);湿婆使者(Śivadūtī);以及光耀之夜(Vibhāvarī)。
Verse 3
जया च विजया चैव जयन्ती चापराजिता । एताश्चान्याश्च शतशः कन्यास्तस्मिन् पुरोत्तमे ॥
阇耶与毗阇耶、阇延蒂与阿波罗阇多——她们以及成百上千的其他少女,都在那座最为殊胜的城中。
Verse 4
देव्याः अनुचराः सर्वाः पाशाङ्कुशधराः शुभाः । ताभिः परिवृता देवी सिंहासनगता शुभा ॥
女神的一切侍从皆吉祥,手持绳索与钩棒;被她们环绕,吉祥的女神端坐于狮子宝座之上。
Verse 5
सुसितैश्चामरैः स्त्रीभिर्वीज्यमाना विलासिनी । कौमारं व्रतमास्थाय तपः कर्तुं समुद्यता ॥
她由持明亮雪白牦牛尾拂的女子为之扇拂;那位娴雅者既受持处女之誓,便立志修行苦行。
Verse 6
यौवनस्था महाभागा पीनवृत्तपयोधरा । चम्पकाशोकपुन्नागनागकेसरदामभिः ॥
她立于青春盛时,福德殊胜,双乳丰圆;以旃波迦、阿输迦、奔那伽与那伽计娑罗等花鬘为饰。
Verse 7
सर्वाङ्गेष्वर्चिता देवी ऋषिदेवनमस्कृता । पूज्यमाना वरस्त्रीभिः कुमारिभिः समन्ततः ॥
女神周身皆受供奉,诸仙与诸天向她致敬;四方又有上善之女与诸少女环绕礼拜。
Verse 8
सर्वाङ्गभोगिनी देवी यावदास्ते तपोऽन्विता । तावदागतवांस्तत्र नारदो ब्रह्मणः सुतः ॥
当女神萨尔万伽博吉尼仍在修持苦行(tapas)之时,梵天之子那罗陀来到那里。
Verse 9
तं दृष्ट्वा सहसा देवी ब्रह्मपुत्रं तपोधनम् । विद्युत्प्रभामुवाचेदमासनं दीयतामिति । पाद्यमाचमनीयं च क्षिप्रमस्मै प्रदीयताम् ॥
女神一见到他,见梵天之子、具足苦行功德者,便对电光辉(Vidyutprabhā)说道:“赐座;并速速奉上洗足之水与净饮之水(ācamana)。”
Verse 10
एवमुक्ता तदा देव्याः कन्या विद्युत्प्रभा शुभा । आसनं पाद्यमर्घ्यं च नारदाय न्यवेदयत् ॥
奉女神之命,吉祥的少女电光辉(Vidyutprabhā)向那罗陀奉上座位、洗足之水与阿尔吉亚(arghya)供献。
Verse 11
ततः कृतासनं दृष्ट्वा प्रणतं नारदं मुनिम् । उवाच वचनं देवी हर्षेण महताऽन्विता ॥
随后,女神见座位已备,圣者那罗陀亦恭敬顶礼,便怀着极大的欢喜开口说道。
Verse 12
सैकाकिनी तपस्तेपे विशालायां तु शोभने । तस्यास्तपन्त्याः कालेन महता क्षुभितं मनः ॥
她独自一人,在一处广大而庄严的胜地修持苦行;经年累月的修行之后,她的心意大为震动。
Verse 13
स्वागतं भो मुनिश्रेष्ठ कस्माल्लोकादिहागतः । किं कार्यं वद ते कृत्यं मा ते कालात्ययो भवेत् ॥
欢迎你,最胜牟尼!你从哪一界来到此处?请告知你的所行之事,愿你不致因时日而有所耽搁。
Verse 14
एवमुक्तस्तदा देव्याः नारदः प्राह लोकवित् । ब्रह्मलोकादिन्द्रलोकं तस्माद्रौद्रमथाचलम् ॥
女神如此发问时,通晓诸界的那罗陀说道:“我从梵天界至因陀罗界;由彼至鲁陀罗界,继而来到此山。”
Verse 15
ततस्त्वामिह देवेशि द्रष्टुमभ्यागतोऽस्मि शुभे । एवमुक्त्वा मुनिः श्रीमांस्तां देवीमन्ववेक्षत ॥
“因此,诸神之主母、吉祥者啊,我来到此处只为瞻见你。”说罢,这位光辉的牟尼凝视着女神。
Verse 16
दृष्ट्वा मुहूर्तं देवेशि विस्मितो नारदोऽभवत् । अहो रूपमहो कान्तिरहो धैर्यमहो वयः ॥
凝望片刻后,那罗陀惊叹道:“啊,何等容色!啊,何等光辉!啊,何等安定!啊,何等青春之力!”
Verse 17
अहो निष्कामता देव्याः इति खेदमुपाययौ । देवगन्धर्वसिद्धानां यक्षकिन्नररक्षसाम् ॥
“啊,女神竟无欲无求!”——他带着一丝感伤如此思惟,并念及诸天、乾闼婆、悉地者、夜叉、紧那罗与罗刹等众。
Verse 18
न रूपमीदृशं क्वापि स्त्रीष्वन्यासु प्रदृश्यते । एवं संचिन्त्य मनसा नारदो विस्मयान्वितः ॥
“在其他女子之中,世间任何处都见不到如此形貌。”他心中如此思惟,圣者那罗陀充满惊异。
Verse 19
प्रणम्य देवीं वरदामुत्पपात नभस्तलम् । गतश्च त्वरया युक्तः पुरीं दैत्येन्द्रपालिताम् ॥
他向赐福的女神顶礼后,跃入广阔天际;又因急切驱使,前往那由达那婆之主守护的城邑。
Verse 20
महीषाख्येन भूतेषि समुद्रान्तःस्थितां पुरीम् । तत्राससाद भगवानसुरं महीषाकृतिम् ॥
他来到那座临海之城,与名为摩希沙(Mahīṣa)的存在相系;在那里,他遇见了形如水牛的阿修罗。
Verse 21
दृष्ट्वा लब्धवरं वीरं देवसैन्यान्तकं महत् । स तेन पूजितो भक्त्या तदा लोकचरो मुनिः ॥
见到那位已得恩赐的伟大勇士——强盛无比、能灭诸天军阵者——这位行游诸世的牟尼当时便被他以虔敬礼敬。
Verse 22
प्रीतात्मा नारदस्तस्मै देव्याः रूपमनुत्तमम् । आचचक्षे यथान्यायं यद्दृष्टं देवतापुरे ॥
那罗陀心怀欢喜,便依次如法地向他叙述:他在天神之城所见女神那无与伦比的圣相。
Verse 23
तस्मात्क्षोभात्समुत्तस्थुः कुमार्यः सौम्यलोचनाः । नीलकुञ्चितकेशान्ता बिम्बोष्ठायतलोचनाः । नितम्बशनोड्डामा नूपुराढ्याः सुवर्चसः ॥
由那一阵震荡之中,诸位少女起身而现——目光柔和,发梢乌黑微卷;唇如频婆果(bimba)般红润,双眸修长;腰胯匀称,足踝佩戴丰美的脚铃(nūpura),光彩照人。
Verse 24
नारद उवाच । असुरेन्द्र शृणुष्वेकं कन्यारत्नं समाहितः । येन लब्धं तु त्रैलोक्यं वरदानाच्चराचरम् ॥
那罗陀说道:“阿修罗之主啊,请专心聆听一位少女中的至宝;凭她赐福施愿之力,三界——动者与不动者——皆得以获得。”
Verse 25
ब्रह्मलोकादहं दैत्य मन्दराद्रिमुपागतः । तत्र देवीपुरं दृष्टं कुमारिशतसङ्कुलम् ॥
“我自梵天界(Brahmaloka)而来,哦,代提耶,抵达曼陀罗山(Mandarādri)。在那里我见到女神之城,挤满了成百的少女。”
Verse 26
तत्र प्रधानाया कन्या तापसी व्रतधारिणी । सा देवदैत्ययक्षाणां मध्ये काचिन्न दृश्यते ॥
“在那里,最为卓越的少女——一位修苦行者(tapasī)、持守誓戒者——即便置于诸天、代提耶与夜叉之中,也绝非寻常可比。”
Verse 27
यादृशी सा शुभा दैत्य तादृश्येकाण्डमध्यतः । भ्रमता तादृशी दृष्ट्वा न कदाचिन्मया सती ॥
“如此吉祥殊胜者,哦,代提耶——我游行于宇宙之球体中央,从未在任何时候见过一位圣善者能与她相同。”
Verse 28
तस्याश्च देवगन्धर्वा ऋषयः सिद्धचारणाः । उपासांचक्रिरे सर्वे येऽप्यन्ये दैत्यनायकाः ॥
天界乾闼婆、诸仙圣(ṛṣi)、成就者(siddha)与歌颂者(cāraṇa)——以及其他诸多阿修罗族(Daitya)的首领——都前来侍奉她,恭敬随侍。
Verse 29
तां दृष्ट्वा वरदां देवीमहं तूर्णमिहागतः । अजित्वा देवगन्धर्वान् न तां जयति कश्चन ॥
见到那位赐福施愿的女神,我便迅速来到此处。若不先战胜天界乾闼婆(Deva-Gandharva),无人能战胜她。
Verse 30
एवमुक्त्वा क्षणं स्थित्वा तमनुज्ञाप्य नारदः । यथागतं ययौ धीमानन्तर्धानेन तत्क्षणात् ॥
说罢此言,稍作停留,智者那罗陀(Nārada)向他辞别后,便如来时一般离去,于刹那间隐没不见。
Verse 31
एवंविधाः स्त्रियो देव्याः क्षोभिते मनसि द्रुतम् । उत्तस्थुः शतसाहस्राः कोटिशो विविधाननाः ॥
当女神的心意骤然激荡之时,如此种类的女子立刻涌现——数十万,乃至以亿计——面貌各各不同。
Verse 32
दृष्ट्वा कुमार्यः सा देवी तस्मिन्नेव गिरौ शुभा । तपसा निर्ममे देवी पुरं हर्म्यशताकुलम् ॥
见到诸位少女,那位吉祥的女神就在那座山上,以苦行之力(tapas)化现出一座城邑,城中遍布数百楼阁宫殿。
Verse 33
विशालरथ्यं सौवर्णप्रासादैरुपशोभितम् । अन्तरजालानि वेश्मानि मणिसोपानवन्ति च । रत्नजालगवाक्षाणि आसन्नोपवनानि च ॥
那里有宽阔的大道,金色宫殿辉映其间;宅邸内设玲珑格窗与宝石阶梯;窗牖如珠网交织,近旁亦有游乐的园林与林苑。
Verse 34
असंख्यातानि हर्म्याणि तथा कन्या धराधरे । प्राधान्येन प्रवक्ष्यामि कन्यानामानि शोभने ॥
那里有无数楼阁宫室,山上亦有众多少女。美丽者啊,我将依其尊显次第,宣说诸少女之名。
Verse 35
विद्युत्प्रभा चन्द्रकान्तिः सूर्यकान्तिस्तथाऽपरा । गम्भीरा चारुकेशी च सुजाता मुञ्जकेशिनी ॥
有名为Vidyutprabhā(电光辉)、Candrakānti(月光丽)以及另一位名为Sūryakānti(日光丽);又有Gambhīrā(深沉者)、Cārukeśī(美发者)、Sujātā(善生者)与Muñjakeśinī(茅发者)。
Verse 36
घृताची चोर्वशी चान्या शशिनी शीलमण्डिता । चारुकन्या विशालाक्षी धन्या पीनपयोधरा ॥
又有Ghṛtācī与Urvaśī,以及另一位名为Śaśinī者,以善行德性为饰;并有Cārukanyā(美少女)、Viśālākṣī(广目者)、Dhanyā(吉祥者)与Pīnapayodharā(丰乳者)。
The chapter foregrounds disciplined self-regulation through tapas and the kaumāra-vrata, presenting restraint and non-attachment (niṣkāmatā) as a source of power and order. It also models social ethics via formal hospitality (atithi-satkāra) even within ascetic settings.
No explicit tithi, nakṣatra, lunar phase, month, or seasonal marker is specified in the given text. The narrative uses qualitative time (kālena mahatā, “after a long time”) rather than calendrical scheduling.
While not explicitly framed as environmental doctrine, the narrative situates transformative practice within a mountain ecology (Mandarādri) and depicts a non-destructive mode of ‘world-making’—a city manifested through tapas rather than extraction. The episode can be read as emphasizing restraint and disciplined power as stabilizing forces that indirectly support terrestrial balance, aligning with Varāha–Pṛthivī’s broader Earth-centered frame.
The principal cultural figure is Nārada (identified as Brahmā’s son, brahmaṇaḥ sutaḥ), functioning as a trans-lokic mediator. The chapter also references Mahiṣa (an asura leader) and invokes broader classes (deva, gandharva, siddha, cāraṇa, yakṣa, kinnara, rakṣas) rather than specific royal lineages.