Adhyaya 9
Varaha PuranaAdhyaya 936 Shlokas

Adhyaya 9: The Sequence of Creation, the Emergence of the Praṇava, and the Fish Incarnation’s Retrieval of the Vedas

Sṛṣṭi-kramaḥ, Praṇava-udbhavaḥ, Matsyāvatāraś ca Veda-uddhāraḥ

Cosmogony & Theological-Philosophical Discourse

大地女神普利提维(Dharanī)请婆罗诃(Varāha)精确说明:在克利多瑜伽(Kṛta Yuga)之初,纳罗延那(Nārāyaṇa)作了什么,宇宙如何生起。婆罗诃遂述创世之理:最初唯有纳罗延那;由其意愿生出cinti(思),并分化展开,终于显现为作为生成根本的praṇava(唵 oṃ)。叙事继而描绘诸世界(lokas)与众生的展开、天体光明与诸元素力的出现,并以“由身而出”的方式说明社会秩序(varṇa的形成)。随后转入时间循环:劫(kalpa)终之时,诸界沉没于神圣之眠。维陀不可得时,纳罗延那化身为摩蹉(Matsya,鱼),入水取回维陀,回应赞颂之歌——表明宇宙秩序系于圣智的保存,以及大地在周期性溶解中的安住。

Primary Speakers

VarāhaPṛthivī (Dharanī)

Key Concepts

praṇava (oṃ) as cosmogonic seedcinti (thought) and manifestationbrahmāṇḍa formation and loka-structure (bhūr, bhuvar, svar, etc.)kalpa, cosmic sleep, and dissolution (pralaya)Matsyāvatāra and Veda-uddhāra (retrieval of Vedas)elements and forces (vāyu, agni, jala) as emanationsvarṇa-formation via bodily emanation (brāhma, kṣātra, vaiśya, śūdra)

Shlokas in Adhyaya 9

Verse 1

धरन्युवाच । आदौ कृतयुगे नाथ किं कृतं विश्वमूर्त्तिना । नारायणेन तत्सर्वं श्रोतुमिच्छामि तत्त्वतः ॥ ९.१ ॥

大地女神(Dharaṇī)说道:“主啊,在最初之时——于克利多瑜伽(Kṛtayuga)——具宇宙之形的那罗延(Nārāyaṇa)曾作何事?我愿依真实之理、依其本然原则,听闻这一切。”

Verse 2

श्रीवराह उवाच । पूर्वं नारायणस्त्वेको नासीत्किञ्चिद्धरेः परम् । सैक एव रतिं लेभे नैव स्वच्छन्दकर्मकृत् ॥ ९.२ ॥

圣瓦拉哈说道:在最初,唯有那罗延那独自存在;除哈利之外,别无一物。唯他安住于满足之乐,并非出于任性而行。

Verse 3

तस्य द्वितीयमिच्छन्तश्चिन्ता बुद्ध्यात्मिका बभौ । असावित्येव संज्ञाया क्षणं भास्करसन्निभा ॥ ९.३ ॥

当他欲现第二者时,一种由觉知(智性)所成的“思”(Chintā)显现出来;刹那间以“阿骚(Asau)”之名放光,宛如日轮之辉。

Verse 4

तस्याऽपि द्विधा भूता चिन्ता । अभूद् ब्रह्मवादिनी । उमेति संज्ञया यत्तत्सदा मर्त्ये व्यवस्थिताः ॥ ९.४ ॥

即便那“思”亦分为二;她成为宣说梵(brahman)者。被称为“乌玛(Umā)”者,恒常安立于人间。

Verse 5

ॐ इत्येकाक्षरीभूता ससर्जेमां महीं तदा । भूः ससर्ज भुवं सोऽपि स्वः ससर्ज ततो महः ॥ ९.५ ॥

随后,她化为单音节圣声“唵(Om)”,创造了此大地。她创造“布赫(Bhūḥ)”,亦创造“布瓦赫(Bhuvaḥ)”;继而创造“斯瓦赫(Svaḥ)”,再创造“摩赫(Mahaḥ)”。

Verse 6

ततश्च जन इत्येव तपश्चात्मा प्रलीयते । एतदोतम् तथा प्रोतं सूत्रे मणिगणा इव ॥ ९.६ ॥

随后,在名为“阇那(Jana)”的层次上,苦行(tapas)与我(ātman)被说为归于消融。此一切秩序皆被织就并串联——经与纬——如同珠宝成簇穿在一线之上。

Verse 7

जगत्प्रणवतो भूतं शून्यमेतत्स्थितं तदा । येयं मूर्तिर्भगवतः शंकरः स स्वयं हरिः ॥ ९.७ ॥

当时,此宇宙由神圣音节“普罗那瓦”(praṇava,唵 Oṁ)而生,却安住为虚空。此即至福主之形相:他是商羯罗(Śaṅkara),亦即哈利(Hari)本身。

Verse 8

शून्यान् लोकानिमान् दृष्ट्वा सिसृक्षुर्मूर्तिमुत्तमाम् । क्षोभयित्वा मनोधाम तत्राकारः स्वमात्रतः ॥ ९.८ ॥

见诸世界皆为空寂,他欲创造殊胜之有形身,便震动自心之境域;于是形相唯从其自身本量(本质)而显现。

Verse 9

स्थितस्तस्मिन् यदा क्षुब्धे ब्रह्माण्डमभवत्तदा । तस्मिंस्तु शकलिभूते भूर्लोकं च व्यवस्थितम् ॥ ९.९ ॥

当那原初之境仍在而被搅动之时,梵卵(brahmāṇḍa,宇宙之卵)便出现。及其分裂为诸部分时,地界 Bhūrloka 亦被安置于其应有的秩序之中。

Verse 10

अपरं भुवनं प्रायान्मध्ये भास्करसन्निभम् । पुराणपुरुषो व्याप्य पद्मकोशे व्यवस्थितः ॥ ९.१० ॥

再向前行,可见另一世界区域,其中央光辉如日;彼处遍满一切的原初之人(Purāṇa-Puruṣa)安住于莲华之萼中。

Verse 11

स हि नारायणो देवः प्राजापत्येन तेजसा । अकाराद्यं स्वरं नाभ्यां हलं च विससर्ज ह ॥ ९.११ ॥

彼神那罗延(Nārāyaṇa)以具普罗阇波提(Prajāpati)之生化光辉,确从其脐中放出以“a”起首之元音(原初之声),并亦放出犁具。

Verse 12

अमूर्तसृष्टौ शास्त्राणि उदगायत् तदा दिशः । सुष्ट्वा पुनरमेयात्मा चिन्तयामास धारणम् ॥ ९.१२ ॥

在无相之创生之时,诸《圣典》(śāstra)回响;继而四方诸方位亦齐声歌咏。那不可测量之自性复又显化万有,遂观想“持摄”(dhāraṇā)之理,即维系与支撑之原则。

Verse 13

तस्य चिन्तयतो नेत्रात् तेजः समभवन् महत् । दक्षिणं वह्निसङ्काशं वामं तुहिनसन्निभम् ॥ ९.१३ ॥

当祂观想之时,自其眼中生起广大光辉:右侧如火焰炽然,左侧如霜雪清冷。

Verse 14

तं दृष्ट्वा चन्द्रसूर्यौ तु कल्पितौ परमेष्ठिना । ततः प्राणः समुत्तस्थौ वायुश्च परमेष्ठिनः ॥ ९.१४ ॥

见此情状,至上安立者帕拉梅什提因(Parameṣṭhin)造作了月与日。继而,从帕拉梅什提因生起 prāṇa(生命之息)以及 vāyu(风)。

Verse 15

स एव वायुः भगवान् योऽद्यापि हृदिगो विभुः । तस्माद् वह्निः समुत्तस्थौ तस्मादग्नेर् जलं महत् ॥ ९.१५ ॥

那同一位风(Vāyu)即是可敬之神、遍在之主,至今仍住于心中。由其生起火;由火又显现广大之水。

Verse 16

य एवाग्निः स वै तेजो ब्राह्मं परमकारणम् । बाहुभ्यामप्यसौ तेजः क्षात्रं तेजः ससर्ज ह ॥ ९.१६ ॥

彼阿耆尼(Agni)实即 tejas——光明之力、婆罗门之威能,为至上之因。又从其双臂,同一 tejas 生出 kṣātra-tejas,即王者与武士之威力。

Verse 17

ऊरुभ्यामपि वैश्यांश्च पद्भ्यां शूद्रांस्तथा विभुः । ततस्तु ससृजे यक्षान् राक्षसांश्च तथा विभुः ॥ ९.१७ ॥

主亦从大腿生出吠舍(Vaiśya),又从双足生出首陀罗(Śūdra)。其后,主又创造了夜叉(Yakṣa)与罗刹(Rākṣasa)。

Verse 18

चतुर्विधैस्तु भूरलोकं भुवर्लोकं वियच्छरैः । भूतैः स्वर्मार्गगैरन्यैः स्वर्लोकं समपूरयत् ॥ ९.१८ ॥

而后,主以四类众生充满了地界 Bhūrloka 与空界 Bhuvarloka;又以循着通往天界(Svarga)之道而行的其他众生,令天界 Svarloka 圆满充盈。

Verse 19

महर्लोकं तथा तैस्तैर्भूतैश्च सनकादिभिः । जनोलोकं ततश्चैव वैराजैः समपूरयत् ॥ ९.१९ ॥

同样,摩诃界 Maharloka 也由那些种种众生充满,并有萨那迦(Sanaka)等诸圣者同在;继而,阇那界 Janoloka 又由毗罗阇(Vairāja)众完全充满。

Verse 20

तपोलोकं ततो देवास्तपोनिṣ्ठैरपूरयत् । अपुनर्मारकैर्देवैः सत्यलोकमपूरयत् ॥ ९.२० ॥

其后,诸天以安住于苦行(tapas)者充满了 Tapoloka;而 Satyaloka 则由不再受“回返”所制、即不复堕入凡生再生的诸天所充满。

Verse 21

सृष्टिं सृष्ट्वा तथा देवो भगवान् भूतभावनः । कल्पसंज्ञं स्वकं घस्त्रं जागर्ति परमेश्वरः ॥ ९.२१ ॥

如是造就诸有(sṛṣṭi)之后,神圣的主——薄伽梵,众生之护持者——以至上主之姿常住觉醒,守护其自身之器用(ghastra),此器用名为“劫”(kalpa)。

Verse 22

तस्मिन् जगति भूर्लोको भुवर्लोकश्च जायते । स्वर्लोकश्च त्रयोऽप्येते जायन्ते नात्र संशयः ॥ ९.२२ ॥

在那宇宙之中,Bhūrloka(地界)与 Bhuvarloka(空界)生起;Svarloka(天界)亦复如是——此三界确然成就,于此无有疑惑。

Verse 23

सुप्ते तु देवे कल्पान्ते तावती रात्रिरिष्यते । त्रैलोक्यमेतत् सुप्तं स्यात् तथोपप्लवतां गतम् ॥ ९.२३ ॥

当神祇于劫末入睡之时,据说随之而来的是同等时长的一夜。在此期间,整个三界如同沉睡,并趋入洪没与消融(坏灭)之境。

Verse 24

ततो रात्र्यां व्यतीतायामुत्थितः कमलेक्षणः । चिन्तयामास तान् वेदान् मातरं च चतुर्ष्वपि । चिन्तयानः स देवेशस्तान् वेदान् नाध्यगच्छत ॥ ९.२४ ॥

随后,当那一夜过去,莲华眼的主宰起身。他思惟那些吠陀,并亦思惟四母;然而纵然沉思,那天神之主仍未能领悟那些吠陀。

Verse 25

लोकमार्गस्थितिं कर्त्तुं निद्राज्ञानेन मोहितः । चिन्तयामास देवेशो नात्र वेदा व्यवस्थिताः ॥ ९.२५ ॥

因睡眠与无明而迷惑,天神之主思惟如何建立世间运行的秩序:“在此,吠陀尚未安置于其应有的次第。”

Verse 26

ततः स्वमूर्तौ तोयाख्ये लीनान् दृष्त्वा सुरेश्वरः । जिघृक्षुश्चिन्तयामास मत्स्यो भूत्वाविशज्जलम् ॥ ९.२६ ॥

于是,天神之主见那些吠陀融没于自身名为“水”的形相之中;欲将其摄取,便作意思惟,化为鱼身,入于诸水。

Verse 27

एवं ध्यात्वा महामत्स्यस्तत्क्षणात् समजायत । विवेश च जलं देवः समन्तात् क्षोभयन्निव ॥ ९.२७ ॥

如此观想之后,大鱼尊当下即刻显现。神祇入于水中,仿佛从四面八方搅动波涛。

Verse 28

तस्मिन् प्रविष्टे सहसा जलं तु महामहीधृग्वपुषि प्रकाशम् । मात्स्यं गते देववरे महोदधिं हरिं स्तवैस्तुष्टुवुरुद्धृतक्षितिम ॥ ९.२८ ॥

当祂入水之时,水即刻在那伟大“负持大地”之身周围显现光明。当天尊越过鱼身之相,他们在大海之中以赞歌颂扬哈利——那位举起大地者。

Verse 29

नमोऽस्तु वेदान्तरगाप्रतर्क्य नमोऽस्तु नारायण मत्स्यरूप । नमोऽस्तु ते सुस्वर विश्वमूर्त्ते नमोऽस्तु विद्याद्वयरूपधारिन् ॥ ९.२९ ॥

敬礼于汝:超越思辨之所及,而又安住于吠檀多之流。敬礼于汝,纳罗延那,示现鱼之形相。敬礼于汝:圣言吉祥、音调和雅,汝身即宇宙。敬礼于汝:执持二重智之形者。

Verse 30

नमोऽस्तु चन्द्रार्कमरुत्स्वरूप जलान्तविश्वस्थित चारुनेत्र । नमोऽस्तु विष्णोः शरणं व्रजामः प्रपाहि नो मत्स्यतनुं विहाय ॥ ९.३० ॥

敬礼于汝:以月、日与风为形;美目者,宇宙安住于汝之水中。敬礼于毗湿奴——我等归投汝之庇护;愿汝舍却鱼身而护佑我等。

Verse 31

त्वया ततं विश्वमनन्तमूर्ते पृथग्गते किञ्चिदिहास्टि देव । भवान् न चास्य व्यतिरिक्तमूर्तिस्त्वत्तो वयं ते शरणं प्रपन्नाः ॥ ९.३१ ॥

噢,具无量形相之天神:此一宇宙皆为汝所遍满。纵似有差别分殊,此间实无一物离于汝而存。宇宙亦无任何形态能与汝相别;是故我等归依于汝。

Verse 32

खात्मेन्दुवह्निश्च मनश्च रूपं पुराणमूर्त्तेस्तव चाब्जनेत्र । क्षमस्व शम्भो यदि भक्तिहीनं त्वया जगद्भासति देवदेव ॥ ९.३२ ॥

噢,莲华眼者:虚空、内在之我、月、火,以及心识,皆是你原初圣身的诸相。若我赞颂缺乏虔敬,愿你宽恕,噢 Śambhu;由你,诸神之神,宇宙得以辉耀。

Verse 33

विरुद्धमेतत् तव देवरूपं सुभीषणं सुस्वनमद्रितुल्यम् । पुराण देवेश जगन्निवास शमं प्रयाह्यच्युत तीव्रभानो ॥ ९.३३ ॥

此似与汝之神圣形相相违——可怖而声震,广大如山。噢,太古者,诸神之主,世界之所依;噢,不堕者 Acyuta,烈光炽然者——愿汝息怒,归于寂静安和。

Verse 34

वयं हि सर्वे शरणं प्रपन्ना भयाच्च ते रूपमिदं प्रपश्य । लोके समस्तं भवता विना तु न विद्यते देहगतं पुराणम् ॥ ९.३४ ॥

我等皆已归依于汝;又因恐惧而见此汝之形相——离开汝,遍世间实无一物可存,亦无任何寄居于身的古老本原得以存在。

Verse 35

एवं स्तुतस्तदा देवो जलस्थान् जगृहे च सः । वेदान् सोपनिषच्छास्त्रानन्तःस्थं रूपमास्थितः ॥ ९.३५ ॥

当时如是受赞叹后,神便摄取那在水中的一切;安住于内在、遍住之形相中,统摄诸《吠陀》并《奥义书》及诸论典(śāstra)。

Verse 36

यावत्स्वमूर्तिर्भगवांस्तावदेव जगत् त्विदम् । कूटस्थे तल्लयं याति विकृतिस्थे विवर्द्धते ॥ ९.३६ ॥

只要至福之主安住于其显现之身,此世界便如是存在。若不变之本体(kūṭastha)现前,则趋向于消融;若变异之原理(vikṛti)现前,则扩展增长。

Frequently Asked Questions

The chapter frames cosmic order as grounded in intelligibility and preservation of knowledge: creation proceeds from a unifying principle (praṇava/oṃ) and is periodically threatened by dissolution; restoration occurs through the recovery of the Vedas. Within the Pṛthivī–Varāha pedagogical frame, Earth’s stability is implicitly linked to the maintenance of dhāraṇa (support/ordering) and to the continuity of authoritative knowledge that re-establishes structure after cosmic disruption.

No ritual calendars, tithis, months, or seasonal observances are specified. Time is presented in cosmological units and cycles—Kṛta Yuga, kalpa, the “night” at kalpa-end (rātri), and the re-awakening of the deity—used to explain periodic dissolution and renewal rather than human-timed ritual practice.

Environmental balance is articulated through a cosmological ecology: the lokas, elements (vāyu, agni, jala), and luminaries are generated to populate and stabilize the world-system. The narrative emphasizes that at kalpa-end the worlds become inundated and inert, and that re-stabilization depends on restoring the Vedas (knowledge-order). In an Earth-centered reading consistent with Pṛthivī’s inquiry, terrestrial continuity is treated as contingent on cyclical maintenance—order reasserted after submergence—rather than as a one-time creation event.

The chapter references primarily cosmological and archetypal figures rather than historical dynasties: Nārāyaṇa/Viṣṇu, Śaṅkara (as identified with Hari in this passage), Sanaka and related sages (sanakādibhiḥ), and groups such as yakṣas and rākṣasas. No royal genealogies, administrative lineages, or geographically anchored cultural figures are named in this adhyāya.