
Dharmavyādha–Mātaṅga–Prasanna Saṃvādaḥ
Ethical-Discourse (Dharma, Non-violence, Household Economy, Ritual Ecology)
婆罗诃向大地女神毗利提毗讲述一位“法猎人”(dharmavyādha)的生平:他虽久以狩猎为业,却将伤害限制在维生所需的最小范围,并以真实语、事火、待客与在密提罗节日常行施祖(śrāddha)来守持居家之法。其女阿周那姬(Arjunakī)嫁与摩当伽(Mātaṅga)之子普拉散那(Prasanna)。因婆婆严厉指责儿媳与暴力相系,法猎人前往摩当伽家并拒食,申明谷物之食亦可能造成大量不可见的杀害——水中与微小生灵皆受其害——而其谋生反而夺命更少。他以此提出对饮食与消费的伦理批判,并要求依“五大祭”(pañca-mahāyajñas)建立恰当的仪轨与道德分际。随后他返家立子为嗣,朝圣普鲁索塔摩(Puruṣottama),诵赞毗湿奴之颂,歌咏其以宇宙之力护持大地。
Verse 1
श्रीवराह उवाच । योऽसौ वसोः शरीरे तुव्याधो भूत्वा नृपस्य ह । स स्ववृत्त्यां स्थितः कालं चतुर्वर्षसहस्रिकम् ॥ ८.१ ॥
圣妙野猪神(Śrī Varāha)曰:彼人曾在国王伐苏(Vasu)之身中化为猎者,依其本业而住,历时四千年。
Verse 2
एकैकं स्वकुटुम्बार्थे हत्वा वनचरं मृगम् । भृत्यातिथिहुताशानां प्रीणनं कुरुते सदा ॥ ८.२ ॥
为自家眷属之需,仅猎杀一头林栖野兽;而后常行供给,使眷属依附者、来宾与祭火皆得满足。
Verse 3
मिथिलायां वरारोहे सदा पर्वणि पर्वणि । पितॄणां कुरुते श्राद्धं स्वाचारेण विचक्षणः ॥ ८.३ ॥
噢,腰胯婀娜之女,在弥提罗(Mithilā),明达之人依正行,于每一帕尔梵日(parvan)恒常为祖先修行施食祭(śrāddha)。
Verse 4
अग्निं परिचरन् नित्यं वदन् सत्यं सुभाषितम् । प्राणयात्रानुसक्तस्तु योऽसौ जीवं न पातयेत् ॥ ८.४ ॥
恒常奉事圣火,言说真实与善语;凡专志于维系生命者,不应使任何有情众生倒下(即不应杀害)。
Verse 5
एवं तु वसतस्तस्य धर्मबुद्धिर्महातपाः । पुत्रस्त्वर्जुनको नाम बभूव मुनिवद्वशी ॥ ८.५ ॥
于是,当他住在那里时,那位以法(Dharma)为根基、具大苦行的圣者生下一子,名为阿周那迦(Arjunaka),其自制如同牟尼圣贤。
Verse 6
तस्य कालेन महता चारित्रेण च धीमतः । बभूवार्ज्जुनकी नाम कन्या च वरवर्णिनी ॥ ८.६ ॥
时日既久,由于那位智者卓越的品行,便有一位少女诞生,名为阿尔阇那姬(Ārjjanakī),容色殊胜、肤色莹美。
Verse 7
तस्याः यौवनकाले तु चिन्तयामास धर्मवित् । कस्येयं दीयते कन्या को वा योग्यश्च वै पुमान् ॥ ८.७ ॥
然而当她到了青春之时,通晓法者思量道:“这位少女应当许配给谁?究竟哪一位男子才真正相称?”
Verse 8
इति चिन्तयतस्तस्य मतङ्गस्य सुतं प्रति । धर्मव्याधस्य सुव्यक्तं प्रसन्नाख्यं प्रति ब्रुवन् ॥ ८.८ ॥
他如此思索之时,便清楚地对摩当伽(Mataṅga)之子说道——那位怀持法心的猎人,名为普拉萨那(Prasanna)。
Verse 9
एवं सञ्चिन्त्य मातङ्गः प्रसन्नं प्रति सोद्यतः । उवाच तस्य पितरं प्रसन्नायार्ज्जुनीं भवान् । गृहाण तपतां श्रेष्ठ स्वयं दत्तां महात्मने ॥ ८.९ ॥
摩当伽如此思定,便立刻走向普拉萨那,并对其父说道:“噢,诸苦行者中最胜者,请你为那位大心者接受阿周尼(Arjunī)——此女由我亲自甘愿奉赠。”
Verse 10
मतङ्ग उवाच । प्रसन्नोऽयं मम सुतः सर्वशास्त्रविशारदः । गृह्णाम्यर्जुनकीं कन्यां त्वत्सुतां व्याधसत्तम ॥ ८.१० ॥
马唐伽说道:“我这儿子心怀欢悦,通达一切《沙斯特拉》(śāstra)之义。故而,噢,猎人中最殊胜者,我接受阿周那姬——你的女儿——为(他)的新妇。”
Verse 11
एवमुक्ते तदा कन्यां धर्मव्याधो महातपाः । मतङ्गपुत्राय ददौ प्रसन्नाय च धीमते ॥ ८.११ ॥
话既如此,彼时持法之猎人达摩·毗耶陀——苦行深重者——便将那少女许配给马唐伽之子;其人心怀慈悦,且具智慧。
Verse 12
धर्मव्याधस्तदा कन्यां दत्वा स्वगृहमीयिवान् । सा अपि श्वशुरयोर्भर्तुः शुश्रूषणपरा अभवत् ॥ ८.१२ ॥
其后,达摩·毗耶陀将女儿出嫁,便回到自家。她亦专心致志,以恭敬之心侍奉公婆与夫君。
Verse 13
अथ कालेन महता सा कन्या अर्जुनकी शुभा । उक्ता श्वश्रुवा सुता पुत्रि जीवहन्तुस्त्वमीदृशी । न जानासि तपश्चर्तुं भर्त्तुराराधनं तथा ॥ ८.१३ ॥
后来经年累月,那位吉祥的阿周那姬被婆母责言:“女儿啊,你竟是这般——如同伤害众生之人。你不知如何修行苦行,也同样不知如何敬奉并侍奉你的夫君。”
Verse 14
सा अपि स्वल्पापराधेन भर्त्सिता तनुमध्यमा । पितुर्वेश्मगता बाला रोदमानाऽ मुहुर्मुहुः ॥ ८.१४ ॥
她亦然——腰肢纤细——只因微小过失便遭斥责,遂回到父家;那少女一次又一次地啼哭不止。
Verse 15
पित्रा पृष्टा किमेतत्ते पुत्रि रोदनकारणम् । एवमुक्ता तदा सा तु कथयामास भामिनी ॥ ८.१५ ॥
父亲问她:“女儿,这是怎么回事?你为何哭泣?”她被如此询问,便开始将缘由娓娓道来。
Verse 16
श्वश्र्वा अहम् उक्ता तीव्रेण कोपेन महता पितः । जीवहन्तुः सुतेत्युच्चैरसकृद् व्याधजेति च ॥ ८.१६ ॥
她说:“父亲啊,婆母以极其猛烈的大怒责骂我,高声反复喊道:‘你这杀生者之女——胜者啊,猎人啊!’”
Verse 17
एतच्छ्रुत्वा स धर्मात्मा धर्मव्याधो रुषान्वितः । मतङ्गस्य गृहं सोऽथ गत्वा जनपदैर्वृतम् ॥ ८.१७ ॥
听到此事后,具德的达摩猎者(Dharmavyādha)怒火中烧,随即前往摩当伽(Mataṅga)之宅,那里被当地民众围绕。
Verse 18
तस्यागतस्य संबन्धी मतङ्गो जयतां वरः । आसनाद्यार्ध्यपाद्येन पूजयित्वेदमब्रवीत् । किमागमनकृत्यं ते किं करोम्यागतक्रियाम् ॥ ८.१८ ॥
随后,摩当伽(Mataṅga)——胜者中之最胜,且与他有亲缘关系——以座席并依迎宾礼奉上阿尔伽供与洗足之水,恭敬款待来客,并说道:“你此来所为何事?对已至之客,我当行何种待客之礼?”
Verse 19
व्याध उवाच । भोजनं किञ्चिदिच्छामि भोक्तुं चैतन्यवर्जितम् । कौतूहलेन येनाहमागतो भवतो गृहम् ॥ ८.१९ ॥
猎人说道:“我想吃一点食物——无有知觉之食——出于好奇,因此我来到你家。”
Verse 20
मतङ्ग उवाच । गोधूमा व्रीिमयश्चैव संस्कृता मम वेश्मनि । भुज्यतां धर्मविच्छ्रेष्ठ यथाकामं तपोधन ॥ ८.२० ॥
马唐伽说道:“在我家中,小麦与诸谷物都已备好。噢,通达正法者中最殊胜者,请随意享用;噢,具足苦行功德者。”
Verse 21
व्याध उवाच । पश्यामि कीदृशास्ते हि गोधूमा व्रीहयो यवाः । स्वरूपेण च सन्त्येते येन वो वेद्मि सत्तम ॥ ८.२१ ॥
猎人说道:“我观察这些究竟为何物——小麦、稻米与大麦。它们各自以本有之相而存在;正因其相,我才识得您,噢,至善者。”
Verse 22
श्रीवराह उवाच । एवमुक्ते मतङ्गेन शूर्पं गोधूमपूरितम् । अपरं तत्र व्रीहीणां धर्मव्याधाय दर्शितम् ॥ ८.२२ ॥
圣瓦拉哈说道:当马唐伽如此说罢,便呈上一只装满小麦的簸箕;在那里又另示一只盛着稻米之粒的簸箕,供达摩猎人(Dharma-vyādha)观看。
Verse 23
दृष्ट्वा व्रीहीन् सगोधूमान् धर्मव्याधो वरासनात् । उत्थाय गन्तुमारभे मतङ्गेन निवारितः ॥ ८.२३ ॥
见到稻米之粒与小麦同在,达摩猎人从其上座起身,欲行离去;却被马唐伽拦住。
Verse 24
किमर्थं गन्तुमारब्धं त्वया वद महामते । अभुक्तेनैव संसिद्धं मद्गृहे चान्नमुत्तमम् । पाचयित्वा स्वयं चैव कस्मात् त्वं नाद्य भुञ्जसे ॥ ८.२४ ॥
“你为何动身欲去?请告诉我,噢,大慧者。在我家中,上等饮食已然备妥,你却尚未享用。即便是你亲自烹煮,为何今日仍不进食?”
Verse 25
व्याध उवाच । सहस्रशः कोटिशश्च जीवान् हंसि दिने दिने । अथेदृशस्य पापस्य कोऽन्नं भुञ्जति सत्पुमान् ॥ ८.२५ ॥
猎人说道:“你日日以千计、以亿计杀害众生。如此重罪之人之食物,哪位善人还会食用呢?”
Verse 26
अचैतन्यं यदि गृहे विद्यते । अन्नं सुसंस्कृतम् । इदानीमत्र संदृष्टा एते तु जलजन्तवः ॥ ८.२६ ॥
“若在家中有无知觉之物,而食物又烹制得精洁妥当,那么如今在此处,确实可见这些水生众生的存在。”
Verse 27
अहमेकं कुटुम्बार्थे हन्म्यरण्ये पशुं दिने । तं चेत्पितॄभ्यः संस्कृत्य दत्त्वा भुञ्जामि सानुगः ॥ ८.२७ ॥
“为养家之故,我每日在林中只猎杀一兽。若我依法烹治,先奉献于祖灵(pitṛs),然后与依我而生者同食——”
Verse 28
त्वं तु जीवान् बहून् हत्वा स्वकुटुम्बेन सानुगः । भुञ्जन्नेतेन सततमभो्ज्यं तन्मतं मम ॥ ८.२८ ॥
“而你——杀害众多众生——又与家人随从同享,并且常常食用由此手段得来的食物;依我之见,此食不宜入口。”
Verse 29
ब्रह्मणा तु पुरा सृष्टा ओषध्यः सर्ववीरुधः । यज्ञार्थं तत्तु भूतानां भक्ष्यमित्येव वै श्रुतिः ॥ ८.२९ ॥
诚然,往昔梵天(Brahmā)创造了药草与一切草木;而《闻传》(śruti)宣示:此等乃众生之食,设立以成就祭祀之法(yajña)。
Verse 30
दिव्यो भौटस्तथा पैत्रो मानुषो ब्राह्म एव च । एते पञ्च महायज्ञा ब्रह्मणा निर्मिताः पुरा ॥ ८.३० ॥
天界之祭、诸元素之祭、祖灵之祭、人间之祭,以及婆罗门之祭——此五种大祭(摩诃祭,mahāyajña)乃梵天(Brahmā)于远古所建立。
Verse 31
ब्राह्मणानां हितार्थाय इतरेषां च तन्मुखम् । इतरेषां तु वर्णानां ब्राह्मणैः कारिताः शुभाः ॥ ८.३१ ॥
为婆罗门之福祉,并使其余诸人亦面向此一宗旨,其余诸种姓(varṇa)之吉祥义务与行持,被宣说为由婆罗门所制定。
Verse 32
एवं यदि विभागः स्याद् वरान्नं तद् विशुध्यति । अन्यथा व्रीहयोऽप्येते एकैकॆ मृगपक्षिणः । मन्तव्या दातृभोक्तॄणां महामांसं तु तत् स्मृतम् ॥ ८.३२ ॥
若如是而有正当的分配(诸份额),则那上妙之食便得清净;否则,即便这些米粒也应被视为——每一粒——如同一只鹿或一只鸟;对施者与食者而言,此被称为“巨肉”,即等同于食肉之罪。
Verse 33
मया ते दुहिता दत्ता पुत्रार्थे देवरूपिणी । सा च त्वद्भार्यया प्रोक्ता दुहिता जन्तुघातिनः ॥ ८.३३ ॥
我将我的女儿——具天人之相者——嫁与你,为使你得子嗣;然而她却被你的妻子称作“杀生者之女”。
Verse 34
अतोऽर्थमागतॊऽहं ते गृहं प्रति समीक्षितुम् । आचारं देवपूजां च अतिथीनां च तर्पणम् ॥ ८.३४ ॥
因此我来到你家,为要察看你的行持——你对诸神的礼敬,以及对来客所行的供养与安慰礼(tarpaṇa)。
Verse 35
एतेषामेकमप्यत्र कुर्वन्नपि न दृश्यते । तद्गृहं गन्तुमिच्छामि पितॄणां श्राद्धकाम्यया ॥ ८.३५ ॥
即使在此处只做其中一项,也看不见获得所求之果。因此,我怀着为诸位Pitṛ(祖灵)举行śrāddha祭仪的愿望,想前往那户人家。
Verse 36
स्वगृहे नैव भुञ्जामि पितॄणां कार्यमित्युत । अहं व्याधो जीवघाती न तु त्वं लोकहिंसकः ॥ ८.३६ ॥
“我不在自己家中进食,因为我说:‘对Pitṛ(祖先)有应尽之事。’并且:‘我是猎人,是夺取生命者;而你并非伤害世人的人。’”
Verse 37
मत्सुता जीवघातस्य यदोढा त्वत्सुतेन च । तन्महत्त्वं च संजातं प्रायश्चित्तं तपोधन ॥ ८.३७ ॥
噢,苦行之财(tapodhana)啊,当杀害生命(jīvaghāta)与鱼(matsya)相连,又与汝之子相连时,其罪之重大便显现;因此,所示者乃当行赎罪之法——prāyaścitta。
Verse 38
एवमुक्त्वा स चोत्थाय शप्त्वा नारीं तदा धरे । मा स्नुषाभिः समं श्वश्र्वा विश्वासो भवतु क्वचित् ॥ ८.३८ ॥
说罢,他便起身;噢,Dhara(大地)啊,他诅咒那女子后宣告:“愿婆母与诸媳妇之间,永无任何时候的信任。”
Verse 39
मा च स्नुषा कदाचित् स्याद् या श्वश्रूं जीवतीमिषेत् । एवमुक्त्वा गतो व्याधः स्वगृहं प्रति भामिनि ॥ ८.३९ ॥
“并且,愿永无媳妇在婆母尚生之时,便盼其死。”说罢,噢,bhāminī(情烈者)啊,那猎人便往自家而去。
Verse 40
ततो देवान् पितॄन् भक्त्या पूजयित्वा विचक्षणः । पुत्रं चार्जुनकं स्थाप्य स्वसन्ताने महातपाः ॥ ८.४० ॥
其后,智者以虔敬礼拜诸天与祖灵;又立其子阿周那迦(Arjunaka)于自家宗系中为嗣,彼大苦行者遂继续其修行之途。
Verse 41
धर्मव्याधो जगामाशु तीर्थं त्रैलोक्यविश्रुतम् । पुरुषोत्तमाख्यं च परं तत्र गत्वा समाहितः । तपश्चचार नियतः पठन् स्तोत्रमिदं धरे ॥ ८.४१ ॥
达摩缚耶陀(Dharmavyādha)迅速前往三界闻名之圣渡处(tīrtha),即名为“普鲁索塔摩”(Puruṣottama)的至上圣地。到达彼处后,心神摄持安住,便依戒行苦修,并诵此赞颂之歌,噢,大地。
Verse 42
नमामि विष्णुं त्रिदशारिनाशनं विशालवक्षस्थलसंश्रितश्रियम् । सुषासनं नीतिमतां परां गतिं त्रिविक्रमं मन्दरधारिणं सदा ॥ ८.४२ ॥
我顶礼毗湿奴,灭除诸天之敌者;其广阔胸怀为室利(Śrī,吉祥与福德)之所依止。我恒常顶礼于彼——善治之主,持正道者之最高归趣;三步尊(Trivikrama),执持曼陀罗山者。
Verse 43
दामोदरं रञ्जितभूतलं धिया यशोऽंशुशुभ्रं भ्रमराङ्गसप्रभम् । धराधरं नरकरिपुं पुरुष्टुतं नमामि विष्णुं शरणं जनार्दनम् ॥ ८.४३ ॥
我顶礼毗湿奴——阇那尔达那(Janārdana),归依之所;达摩达罗(Dāmodara),以其圣意令大地欢悦者;其名声皎洁如光束;其身色泽幽黑如蜂;扶持大地者;那罗迦(Naraka)之敌;为世人所赞颂者。
Verse 44
त्रिधा स्थितं तिग्मरथाङ्गपाणिनं नयस्थितं तृप्तमनुत्तमैर्गुणैः । निःश्रेयसाख्यं क्षपितेतरं गुरुं नमामि विष्णुं पुरुषोत्तमं त्वहम् ॥ ८.४४ ॥
我顶礼毗湿奴、至上人格(Puruṣottama)——以三重方式安住者,手执锋利之轮(cakra)者;住于正法之中,以无上德性而自足。彼名为“尼赫施雷耶萨”(Niḥśreyasa,至善究竟),为摧破诸障之尊师、可敬之导师,我今礼敬。
Verse 45
महावराहो हविषाम्बुभोजनो जनार्दनो मे हितकृच्छितीमुखः । क्षितीधरो मामुदधिक्शयो महान् स पातु विष्णुः शरणार्थिनं तु माम् ॥ ८.४५ ॥
愿毗湿奴护佑我——他是大野猪尊(摩诃婆罗诃),享受祭供之供品(havis)与诸水;他是阇那尔达那(Janārdana),为我作利益者,其圣颜即大地;他是承载大地者,于大海之中为伟大归依处——愿我这求庇护者,蒙彼毗湿奴守护。
Verse 46
मायाततं येन जगत्त्रयं कृतं यथाग्निनैकेन ततं चराचरम् । चराचरस्य स्वयमेव सर्वतः स मेऽस्तु विष्णुः शरणं जगत्पतिः ॥ ८.४६ ॥
愿毗湿奴——世间之主——为我归依:由其摩耶而成三界,如同一火遍入一切动与不动;又由其自性,周遍于一切有动与无动之中。
Verse 47
भवे भवे यश्च ससर्ज कं ततो जगत् प्रसूतं सचराचरं त्विदम् । ततश्च रुद्रात्मवति प्रलीयतेऽन्वतो हरिर्विष्णुहरस्तथोच्यते ॥ ८.४७ ॥
在每一轮生有之中,正是那一位生起此世间——此一切动与不动的造化;其后又融归于以鲁陀罗为本性的实相。故彼亦被称为:诃利(Hari)——毗湿奴(Viṣṇu)——诃罗(Hara)。
Verse 48
खात्मेन्दुपृथ्वीपवनाग्निभास्कराः जलं च यस्य प्रभवन्ति मूर्त्तयः । स सर्वदा मे भगवान् सनातनो ददातु शं विष्णुरचिन्त्यरूपधृक् ॥ ८.४८ ॥
愿永恒的世尊毗湿奴——执持不可思议之形相者——常赐我安泰:由其显现之身而生起虚空、我体(ātman)、月、地、风、火、日,以及水。
The text develops a comparative ethics of harm: it argues that moral evaluation should consider both visible and invisible forms of violence involved in sustaining a household. Through the dharmavyādha’s refusal to eat at Mātaṅga’s home, the chapter instructs that consumption and ritual practice require scrutiny of unintended killing (e.g., small creatures in water and grain processing) and emphasizes regulated conduct—truthfulness, hospitality, śrāddha, and the pañca-mahāyajñas—as a framework for minimizing harm while fulfilling social obligations.
The chapter specifies recurring ritual timing rather than a named season: śrāddha is performed “sadā parvaṇi parvaṇi” (on parvan days, i.e., festival/observance junctions in the lunar calendar). It also notes a long duration marker for the hunter’s life (“caturvarṣasahasrikam,” four thousand years) as narrative chronology, not a ritual schedule.
Environmental stewardship appears indirectly through the ethics of food and livelihood: the narrative foregrounds ‘hidden’ ecological harm (jalajantu and other small life forms affected by grain and water use) and frames ethical living as minimizing total injury across ecosystems. The concluding movement to Puruṣottama and the Viṣṇu-stotra further place Earth (kṣmā/kṣiti) under cosmic protection, aligning devotion with the safeguarding of terrestrial stability.
The narrative references the dharmavyādha and his son Arjunaka, his daughter Arjunakī, Mātaṅga and Mātaṅga’s son Prasanna, and invokes Brahmā as the originator of the pañca-mahāyajñas and the creation of plants for sacrificial and sustenance purposes. No explicit royal genealogy is developed here beyond the general mention of a “nṛpa” in the hunter’s earlier context.