Varaha Purana - Adhyaya 70
Varaha PuranaAdhyaya 7047 Shlokas

Adhyaya 70: Nārāyaṇa as the Sacrificial Principle, Analysis of the Three Guṇas, and the Account of Delusion-Doctrines

Nārāyaṇa-yajñatva, Guṇa-traya-vivekaḥ, Mohāśāstra-nirūpaṇam

Philosophical-Theological Discourse (Guṇa theory, Vedic authority, sectarian integration)

在《婆罗诃—大地》师徒式的讲述框架中,本章叙述一段嵌入的对话:婆陀罗阿湿婆回忆自己长期礼敬毗湿奴,并描述一场祭祀大会,诸天、仙圣(ṛṣi)与鲁陀罗现身,继而善达库摩罗到来。核心问题随之提出:在毗湿奴、梵天与鲁陀罗之间,谁才是应受礼拜的正当对象?鲁陀罗作教义阐释:那罗延(Nārāyaṇa)为至上本源,万有由彼而生、复归于彼;梵天与鲁陀罗则在三德(guṇa)体系中分别依“激性”(rajas)与“暗性”(tamas)而运作。论述强调吠陀的一体性,告诫不可分裂三神之位,并以宇宙论说明迦梨时代衰败之因:那罗延命鲁陀罗宣说“迷妄论典”(moha-śāstra),以迷惑背离吠陀戒律者;而解脱仍系于洞见那罗延为统摄与融贯之原则。

Primary Speakers

VarāhaPṛthivīBhadrāśvaRudra (Śiva)Janārdana (Viṣṇu/Nārāyaṇa)

Key Concepts

Nārāyaṇa as yajñarūpa (sacrificial embodiment)Guṇa-traya (sattva–rajas–tamas) and liberation via sattvaTriadic identification: Viṣṇu–Brahmā–Rudra without sectarian bhedaKali-yuga and the emergence of moha (delusion) doctrinesVeda as primary epistemic authority (veda-vedyatva)Pāśupata as a response to fallen ‘paśu-bhāva’ (bondage condition)

Shlokas in Adhyaya 70

Verse 1

भद्राश्व उवाच । भगवन् किं कृतं लोकं त्वया तमनुपश्यता । व्रतं तपो वा धर्मो वा प्राप्त्यर्थं तस्य वै मुने ॥ ७०.१ ॥

跋陀罗湿婆说道:“噢,世尊!当您观照彼世界之时,您修行了什么?是誓戒(vrata)、苦行(tapas),还是某种法(dharma)——噢,牟尼圣者——为求得彼目标而行的吗?”

Verse 2

अनाराध्य हरिं भक्त्या को लोकान् कामयेद् बुधः । आराधिते हरौ लोकाः सर्वे करतलेऽभवन् ॥ ७०.२ ॥

若不以虔敬礼拜诃利(Hari),哪位智者会贪求他界?一旦礼拜诃利,诸世界皆如在掌中。

Verse 3

एवं सञ्चिन्त्य राजेन्द्र मया विष्णुः सनातनः । आराधितो वर्षशतं क्रतुभिर्भूरिदक्षिणैः ॥ ७०.३ ॥

如此思惟之后,噢,诸王之最胜者,我以丰厚的祭礼供施(dakṣiṇā)相随的诸祭(kratu),礼敬永恒的毗湿奴(Viṣṇu)达百年之久。

Verse 4

ततः कदाचिद् बहुना कालेन नृपनन्दन । यजतो मम देवेशं यज्ञमूर्तिं जनार्दनम् । आहूता आगता देवाः सममेव सवासवाः ॥ ७०.४ ॥

随后,经过漫长岁月,噢,王子:当我正祭奉阇那尔达那(Janārdana)——诸天之主、以祭祀为自身形相者——之时,被召请的诸神连同因陀罗(Indra)一齐到来。

Verse 5

स्वे स्वे स्थाने स्थिताः आसन् यावद् देवाः सवासवाः । तावत् तत्रैव भगवान् आगतो वृषभध्वजः ॥ ७०.५ ॥

当诸神连同因陀罗各安其位之时,就在那一刻、就在那一处,世尊——执持牛徽之旗者(Vṛṣabhadhvaja)——降临了。

Verse 6

महादेवो विरूपाक्षस्त्र्यम्बको नीललोहितः । सोऽपि रौद्रे स्थितः स्थाने बभूव परमेश्वरः ॥ ७०.६ ॥

大天(Mahādeva)——毗卢帕克沙(Virūpākṣa)、三目者(Tryambaka)与尼罗罗希多(Nīlalohita)——确实安住于鲁陀罗之相,住于其位,显现为至上主宰(Parameśvara)。

Verse 7

तान् सर्वानागतान् दृष्ट्वा देवानृषिमहोरगान् । सनत्कुमारो भगवाञाजगामाब्जसम्भवः ॥ ७०.७ ॥

见到所有已至者——诸天、仙圣与大龙蛇——莲华所生的圣者萨那特库玛罗(Sanatkumāra)便前来显现。

Verse 8

त्रसरेणुप्रमाणेन विमानॆ सूर्यसन्निभे । अवस्थितो महायोगी भूतभव्यभविष्यवित् ॥ ७०.८ ॥

在一乘天车中,光辉如日,其微妙以“trasareṇu”为量;大瑜伽行者安住其上,了知过去、现在与未来。

Verse 9

आगम्य शिरसा रुद्रं स ववन्दे महामुनिः । मया प्रणमितस्तस्थौ समीपे शूलपाणिनः ॥ ७०.९ ॥

趋近鲁陀罗时,那位大牟尼俯首顶礼。受我礼敬之后,他站立在持三叉戟者(湿婆)近旁。

Verse 10

तानहं संस्थितान् देवान् नारदादीनृषींस्तथा । सनत्कुमाररुद्रौ च दृष्ट्वा मे मनसि स्थितम् ॥ ७०.१० ॥

见到那里的诸神,以及以那罗陀(Nārada)为首的诸仙,又见萨那特库玛罗与鲁陀罗,我心中所存之念遂得澄明而安定。

Verse 11

क एषां भवते याज्यो वरिष्ठश्च नृपोत्तम । केन तुष्टेन तुष्टाः स्युः सर्व एते सरुद्रकाः ॥ ७०.११ ॥

噢,诸王之最胜者,在这些之中,谁最为卓越,最应由你礼敬供奉?又当取悦哪一位时,所有这些——连同诸鲁陀罗——都会一并满足?

Verse 12

एवं कृत्वा स्थिते राजन् रुद्रः पृष्टो मया । अनघ । एवमर्थं क इज्योऽत्र युष्माकं सुरसत्तमाः ॥ ७०.१२ ॥

噢,大王,如此行事之后,事态既定,我便询问鲁陀罗,噢无垢者:“在此情形下,你们之中——噢诸神之最胜者——此处应礼敬供奉谁?”

Verse 13

एवमुक्ते तदोवाच रुद्रो मां सुरसन्निधौ ॥ ७०.१३ ॥

此言既出,鲁陀罗便在诸神面前对我说道。

Verse 14

रुद्र उवाच । शृण्वन्तु बिबुधाः सर्वे तथा देवर्षयोऽमलाः । ब्रह्मर्षयश्च विख्याताः सर्वे शृण्वन्तु मे वचः । त्वं चागस्त्य महाबुद्धे शृणु मे गदतो वचः ॥ ७०.१४ ॥

鲁陀罗曰:“愿一切觉悟者聆听,亦愿无垢的天仙圣者聆听;愿著名的梵仙亦皆聆听——诚然,愿众皆听我之言。你亦然,阿迦斯底耶,大慧者,当听我所说之语。”

Verse 15

यो यज्ञैर् ईड्यते देवो यस्मात् सर्वमिदं जगत् । उत्पन्नं सर्वदा यस्मिँल्लीनं भवति सामरम् ॥ ७०.१५ ॥

那位以祭祀仪轨而受赞颂的神祇——由彼而生此一切世界;亦复恒常归于彼而融没,连同诸天众会。

Verse 16

नारायणः परो देवः सत्त्वरूपो जनार्दनः । त्रिधात्मानं स भगवाँन् ससर्ज परमेश्वरः ॥ ७०.१६ ॥

那罗延那(Nārāyaṇa)为至上神祇;阇那尔达那(Janārdana)以清净萨埵(sattva)为体。彼福德世尊、至上主宰,化生三重之我(即有身存在的三分构成)。

Verse 17

रजस्तमोभ्यां युक्तोऽभूद् रजः सत्त्वाधिकं विभुः । ससर्ज नाभिकमले ब्रह्माणं कमलासनम् ॥ ७०.१७ ॥

具足罗阇斯(rajas)与昏暗(tamas)时,大神力者以罗阇斯为主而萨埵更为丰盛;并于其脐中莲华上,化生莲座之梵天(Brahmā)。

Verse 18

रजसा तमसा युक्तः सोऽपि मां त्वसृजत् प्रभुः । यत्सत्त्वं स हरिर्देवो यो हरिस्तत्परं पदम् ॥ ७०.१८ ॥

同样具足罗阇斯与昏暗(tamas)的那位主,也创造了我。凡是萨埵者,即是天神哈利(Hari);而哈利即是至上之境(最高归趣)。

Verse 19

ये सत्त्वराजसी सोऽपि ब्रह्मा कमलसम्भवः । यो ब्रह्मा सैव देवस्तु यो देवः स चतुर्मुखः । यद्रजस्तमसोपेतं सोऽहं नास्त्यत्र संशयः ॥ ७०.१९ ॥

由萨埵与罗阇斯所成者,即是莲华所生之梵天(Brahmā)。凡为梵天者亦为神祇;而此神祇即四面者。至于具足罗阇斯与昏暗(tamas)者,即是我;于此无有疑惑。

Verse 20

सत्त्वं रजस्तमश्चैव त्रितयं चैददुच्यते । सत्त्वेन मुच्यते जन्तुः सत्त्वं नारायणात्मकम् ॥ ७०.२० ॥

萨埵、罗阇斯与昏暗(tamas)——此三者称为三性。众生由萨埵而得解脱;而萨埵之性即是那罗延那(Nārāyaṇa)。

Verse 21

रजसा सत्त्वयुक्तेन भवेत् सृष्टिः रजोऽधिका । तच्च पैतामहं वृत्तं सर्वशास्त्रेषु पठ्यते ॥ ७०.२१ ॥

当罗阇斯(rajas)与萨埵(sattva)相应时,创造便生起,而以罗阇斯为主。此一记述——归于毗多摩诃(Pitāmaha,梵天 Brahmā)之传承——在一切《沙斯特拉》(śāstra)中皆被诵读。

Verse 22

यद्वेदबाह्यं कर्म स्याच्छास्त्रमुद्दिश्य सेव्यते । तद्रौद्रमिति विख्यातं कनिष्ठं गदितं नृणाम् ॥ ७०.२२ ॥

凡是离于吠陀之外的行为,却又借口“经典(śāstra)”而行之者,称为“劳陀罗(raudra)”;此被宣说为人类行道之中最下劣者。

Verse 23

यद्धीनं रजसा कर्म केवलं तामसं तु यत् । तद् दुर्गतिपरं नॄणामिह लोके परत्र च ॥ ७०.२३ ॥

凡缺少罗阇斯的行为,以及纯属惰性之暗(tamas)的行为——此等行持使人趋向不幸之归趣,于此世与彼世皆然。

Verse 24

सत्त्वेन मुच्यते जन्तुः सत्त्वं नारायणात्मकम् । नारायणश्च भगवान् यज्ञरूपी विभाव्यते ॥ ७०.२४ ॥

众生由萨埵(sattva)而得解脱;萨埵被理解为具那罗延那(Nārāyaṇa)之性。那罗延那——至福之主(Bhagavān)——当观为以祭祀(yajña)为其形相。

Verse 25

कृते नारायणः शुद्धः सूक्ष्ममूर्तिरुपास्यते । त्रेतायां यज्ञरूपेण पञ्चरात्रैस्तु द्वापरे ॥ ७०.२५ ॥

在克利多时代(Kṛta-yuga),那罗延那——清净而形相微妙——应当被观修礼敬;在特雷多时代(Tretā-yuga),(他被礼敬)为祭祀(yajña)之形;而在堕婆罗时代(Dvāpara-yuga),则依《般遮罗多》(Pañcarātra)之法而奉行。

Verse 26

कलौ मत्कृतमार्गेण बहुरूपेण तामसैः । इज्यते द्वेषबुद्ध्या स परमात्मा जनार्दनः ॥ ७०.२६ ॥

在迦梨时代,至上之我——阇那尔达那(Janārdana)——被具昏暗性(tāmasa)之人依我所设之道,以多种形相礼拜,然其心怀敌意(dveṣa)。

Verse 27

न तस्मात् परतो देवो भविता न भविष्यति । यो विष्णुः स स्वयं ब्रह्मा यो ब्रह्मा सोऽहमेव च ॥ ७०.२७ ॥

超越彼至上原理者,未曾有任何神祇生起,亦将不复生起。凡为毗湿奴者,即是梵天;凡为梵天者——亦即我自身。

Verse 28

वेदत्रयेऽपि यज्ञेऽस्मिन् याज्यं वेदेषु निश्चयः । यो भेदं कुरुतेऽस्माकं त्रयाणां द्विजसत्तम । स पापकाऽरी दुष्टात्मा दुर्गतिं गतिमाप्नुयात् ॥ ७०.२८ ॥

即便在此依三部吠陀而立之祭祀中,所当奉献之物亦已在吠陀经典中确定无疑。噢,二次生者中最胜者,凡于我等三者(吠陀三部)之间制造分裂者,乃作恶之人、心性败坏者,必趋向不祥之归趣。

Verse 29

इदं च शृणु मेऽगस्त्य गदतः प्राक्तनं तथा । यथा कलौ हरेर्भक्तिं न कुर्वन्तीह मानवाः ॥ ७०.२९ ॥

又当听我所说,噢,阿伽斯提耶:我将叙述一则古昔之事,以示在迦梨时代,此间之人不修对哈利(Hari)的虔敬(bhakti)。

Verse 30

भूर्लोकवासिनः सर्वे पुरा यष्ट्वा जनार्दनम् । भुवर्लोकं प्रपद्यन्ते तत्रस्था अपि केशवम् ॥ आराध्य स्वर्गतिं यान्ति क्रमान्मुक्तिं व्रजन्ति च ॥ ७०.३० ॥

一切住于布胡尔洛迦(Bhūrloka)者,昔日礼拜阇那尔达那(Janārdana)后,得至布胡瓦尔洛迦(Bhuvarloka);而居于彼处者亦复如是,既敬奉凯沙瓦(Keśava),便趋入天界之境,并依次第亦得解脱(mukti)。

Verse 31

एवं मुक्तिपदे व्याप्ते सर्वलोकैस्तथैव च । मुक्तिभाजस्ततो देवास्तं दध्युः प्रयता हरिम् ॥ ७०.३१ ॥

于是,当“解脱之位”亦为诸世界所遍满之时,诸天——得分于解脱者——以持戒摄心,专注观念于哈利(Hari)。

Verse 32

सोऽपि सर्वगतत्वाच्च प्रादुर्भूतः सनातनः । उवाच ब्रूत किं कार्यं सर्वयोगिवराः सुराः ॥ ७०.३२ ॥

彼亦——以其常住不变,且以遍一切之性——现身而曰:“诸天啊,汝等为一切瑜伽行者之最胜者;当告我:有何事当作?”

Verse 33

ते तं प्रणम्य देवेशमूचुश्च परमेश्वरम् । देवदेव जनः सर्वो मुक्तिमार्गे व्यवस्थितः । कथं सृष्टिः प्रभविता नरकेषु च को वसेत् ॥ ७०.३३ ॥

彼等礼拜诸神之主,启白至上主曰:“噫,天中之天!若众生皆安住于解脱之道,则创造(sṛṣṭi)何由而起?又谁当居于诸地狱界?”

Verse 34

एवमुक्तस्ततो देवैस्तानुवाच जनार्दनः । युगानि त्रीणि बहवो मामुपेष्यन्ति मानवाः ॥ ७०.३४ ॥

诸天如是启请,阇那尔达那(Janārdana)遂告之曰:“历经三劫(yuga),将有许多人来归于我。”

Verse 35

अन्त्ये युगे प्रविरला भविष्यन्ति मदाश्रयाः । एष मोहं सृजाम्याशु यो जनं मोहयिष्यति ॥ ७०.३५ ॥

至于末世之时,依止于我者将极为稀少。我将迅速生起此迷惑(moha)——它将使众人迷乱。

Verse 36

त्वं च रुद्र महाबाहो मोहशास्त्राणि कारय । अल्पायासं दर्शयित्वा फलं दीर्घं प्रदर्शय ॥ ७०.३६ ॥

你也一样,噢臂力宏伟的鲁陀罗,应令撰作迷惑之论典;先示之以似乎不费力,继而向众人显出其长久而深远的结果。

Verse 37

कुहकं चेन्द्रजालानि विरुद्धाचरणानि च । दर्शयित्वा जनं सर्वं मोहयाशु महेश्वर ॥ ७०.३७ ॥

你展示欺诳与幻术师之幻象(因陀罗网),并示以相违失当之行;噢大自在天(摩诃伊湿伐罗),你迅速迷惑一切众人。

Verse 38

एवमुक्त्वा तदा तेन देवेन परमेष्ठिना । आत्मा तु गोपितः सद्यः प्रकाश्योऽहं कृतस्तदा ॥ ७०.३८ ॥

那时,那位天神帕拉梅什廷如此言毕,自我(我性)即刻被隐藏;而我则在彼时被令显现。

Verse 39

तस्मादारभ्य कालं तु मत्प्रणीतॆषु सत्तम । शास्त्रेष्वभिरतो लोको बाहुल्येन भवेदतः ॥ ७०.३९ ॥

“自那时起,噢善者之最上者,世人多半将倾心于我所宣说的论典与法度。”

Verse 40

वेदानुवर्त्तिनं मार्गं देवं नारायणं तथा । एकीभावेन पश्यन्तो मुक्तिभाजो भवन्ति ते ॥ ७०.४० ॥

凡以一味不二之观,见那契合吠陀之道,并同样见神祇那罗延者——彼等即成解脱(莫克沙)之分有者。

Verse 41

मां विष्णोर्व्यतिरिक्तं ये ब्रह्माणं च द्विजोत्तम । भजन्ते पापकर्माणस्ते यान्ति नरकं नराः ॥ ७०.४१ ॥

噢,最胜的再生者:凡人中造恶者,若将我视为与毗湿奴相别而礼拜,又复礼拜梵天,必堕地狱。

Verse 42

ये वेदमर्गनिर्मुक्तास्तेषां मोहार्थमेव च । नयसिद्धान्तसंज्ञाभिर्मया शास्त्रं तु दर्शितम् ॥ ७०.४२ ॥

为那些偏离吠陀之道者,亦为遣除其迷惑之故,我以“naya(理则)”与“siddhānta(定论)”之名示现此论典。

Verse 43

पाशोऽयं पशुभावस्तु स यदा पतितो भवेत् । तदा पाशुपतं शास्त्रं जायते वेदसंज्ञितम् ॥ ७०.४३ ॥

此即所谓“缚”(pāśa)——有情为系缚之状态;当此系缚之境消落时,便生起“帕修帕塔”之教法,并被称为“吠陀”。

Verse 44

वेदमूर्तिरहं विप्र नान्यशास्त्रार्थवादिभिः । ज्ञायते मत्स्वरूपं तु मुक्त्वा वेदमनादिमत् । वेदवेद्योऽस्मि विप्रर्षे ब्राह्मणैश्च विशेषतः ॥ ७०.४४ ॥

“噢,婆罗门,我即吠陀之身。若离开无始之吠陀,仅以他论之义而作辩说者,实不能知我自性。噢,最胜仙人,我为吠陀所证知——尤以婆罗门为然。”

Verse 45

युगानि त्रीण्यहं विप्र ब्रह्मा विष्णुस्तथैव च । त्रयोऽपि सत्त्वादिगुणास्त्रयो वेदास्त्रयोऽग्नयः ॥ ७०.४५ ॥

“噢,婆罗门,我即三劫(yuga);我亦为梵天,亦为毗湿奴。三德(guṇa),以萨埵为首,亦在我中;三部吠陀与三种圣火亦复如是。”

Verse 46

त्रयो लोकास्त्रयः सन्ध्यास्त्रयो वर्णास्तथैव च । सवनानि तु तावन्ति त्रिधा बद्धमिदं जगत् ॥ ७०.४६ ॥

三界为三,三次暮晓交会(sandhyā)亦为三,种姓(varṇa)亦复三。祭仪之三时(savana)亦如是;此宇宙以三分之序而建立。

Verse 47

य एवṃ वेत्ति विप्रर्षे परं नारायणं तथा । अपरं पद्मयोनिं तु ब्रह्माणं त्वपरं तु माम् । गुणतो मुख्यतस्त्वेक एवाहं मोह इत्युत ॥ ७०.४७ ॥

噢,至上圣贤,凡如是了知:那罗延(Nārāyaṇa)为至上;莲华所生之梵天(Brahmā)为其次;我亦为其次——并悟其本质之首要唯有“一”——则被称为远离迷妄(moha)者。

Frequently Asked Questions

The chapter’s central instruction is doctrinal and epistemic: it presents Nārāyaṇa as the supreme ground of creation and dissolution and frames Brahmā and Rudra as functional expressions within the guṇa economy. It also cautions against constructing divisive bheda among Viṣṇu–Brahmā–Rudra, asserting that liberation is associated with sattva aligned to Nārāyaṇa and with adherence to Vedic orientation.

The text does not specify tithis, nakṣatras, months, or seasonal observances. It references broad yuga chronology (kṛta, tretā, dvāpara, kali) and describes long-duration worship (varṣaśata, “a hundred years”) as a narrative marker rather than a calendrical prescription.

Environmental stewardship is implicit rather than explicit: the chapter links cosmic order to right knowledge and right ritual orientation (yajña and Vedic alignment). By depicting social and spiritual disorder in Kali-yuga as arising from moha and from deviation from integrative principles, it indirectly frames ‘balance’ as dependent on maintaining harmonized dharmic and epistemic systems—an ideological analogue to preserving equilibrium in the world (loka-saṃsthā).

The narrative references Bhadrāśva (as narrator), Agastya (addressed directly), Nārada and other ṛṣis in the assembly, Sanatkumāra, and the deva triad (Nārāyaṇa/Janārdana, Brahmā, Rudra). These function as exemplary cultural-theological authorities rather than as genealogical or dynastic lineages tied to a named kingdom in this passage.

Read Varaha Purana in the Vedapath app

Scan the QR code to open this directly in the app, with audio, word-by-word meanings, and more.

Continue reading in the Vedapath app

Open in App