
Śrāvaṇa-śukla-dvādaśīvrata-vidhiḥ (Dāmodara-pūjā) tathā Nṛga-rāja-upākhyānam
Ritual-Manual and Didactic Narrative (Vrata-Māhātmya)
在《婆罗诃—大地》师徒式的教诲框架中,本章以杜尔婆萨与婆摩提婆等权威之言,示范性地传授誓戒(vrata)仪轨。经文规定于室罗伐那月白半月第十二日(Śrāvaṇa śukla-dvādaśī)礼敬毗湿奴:以近似安伽尼亚萨(aṅga-nyāsa)的方式,将名号安置于诸肢体(如Dāmodara、Hṛṣīkeśa、Sanātana、Śrīvatsadhārin、Chakrapāṇi、Hari、Muñjakeśa、Bhadrā),并安置水罐(kumbha)、覆置布帛,且施与通晓吠陀的婆罗门。随后以功德故事(māhātmya)作证:尼伽王(Nṛga)在前生曾为首陀罗出身,却在险恶森林中蒙一位如女神般的显现护佑,斩杀来袭的弥勒叉(mleccha)之众;此被解释为守持Śrāvaṇa-dvādaśī的护身威力。其旨意强调严谨守戒、以布施(dāna)承担社会责任,并在敌对环境中护持弱者。
Verse 1
दुर्वासा उवाच । श्रावणस्य तु मासस्य शुक्लपक्षे तु द्वादशी । अर्चयेत् परमं देवं गन्धपुष्पैर्जनार्नम् ॥ ४७.१ ॥
杜尔婆娑说道:“在室罗伐那月(Śrāvaṇa)明半月的第十二日(dvādaśī),应以香料与花鬘礼拜至上神,称呼祂为‘阇那尔那(Janārṇa)’。”
Verse 2
दामोदराय पादौ तु हृषीकेशाय वै कटिम् । सनातनेति जठरमुरः श्रीवत्सधारिणे ॥ ४७.२ ॥
“当以‘达摩达罗(Dāmodara)’安置于双足;以‘赫利希凯沙(Hṛṣīkeśa)’安置于腰部;以‘常住者(Sanātana)’之真言安置于腹部;并以胸部奉献于具‘室利跋蹉(Śrīvatsa)’圣相者。”
Verse 3
चक्रपाणयेति भुजौ कण्ठं च हरये तथा । मुञ्जकेशाय च शिरो भद्रायेति शिखां तथा ॥ ४७.३ ॥
诵念“奉于持轮者(Cakrapāṇi)”时,应安置于双臂;同样,将喉部安置于哈利(Hari)。头部安置于穆恩贾克沙(Muñjakeśa);而顶髻(śikhā)则安置于吉祥者(Bhadrā)。
Verse 4
एवं सम्पूज्य संस्थाप्य कुम्भं पूर्ववदेव तु । विन्यस्य वस्त्रयुग्मं तु तस्योपरि ततो न्यसेत् ॥ ४७.४ ॥
如此,既已如法礼拜并依前法安立仪式圣瓶(kumbha),当在其上放置一对布帛,然后再将(该物)安放于此圣瓶之上。
Verse 5
काञ्चनं देवदेवं तु दामोदरसनामकम् । तमभ्यर्च्य विधानॆन गन्धपुष्पादिभिः क्रमात् ॥ ४७.५ ॥
随后,应依仪轨次第,以香、花等供品如法供奉那金色的“诸神之神”,其名为达摩达罗(Dāmodara)。
Verse 6
प्राग्वत् तं ब्राह्मणे दद्याद् वेदवेदाङ्गपारगे । एवं नियमयुक्तस्य प्रभावं तच्छृणुष्व मे ॥ ४७.६ ॥
如前所述,应将此物施与一位通达吠陀及其支分学(Vedāṅga)的婆罗门。如此,请听我说:具足戒律与持守(niyama)之人的功德效验。
Verse 7
एष ते विधिरुद्दिष्टः श्रावणे मासि वै विभो । एतस्याश्च प्रभावं यत् शृणु पापप्रणाशनम् ॥ ४७.७ ॥
噢,大能者,此法已在室罗伐那月(Śrāvaṇa)为你宣说。如今请听其功效——能摧灭罪业与过失之事。
Verse 8
पुरा कृतयुगे राजा नृगो नाम महाबलः । बभ्राम स वनं घोरं मृगयासक्तमानसः ॥ ४७.८ ॥
往昔在克利多纪元(Kṛta Yuga),有一位名为尼利伽(Nṛga)的国王,力大无比。因心系狩猎,他徘徊误入一片可怖的森林。
Verse 9
स कदाचित् तुरङ्गेण हृतो दूरं महद्वनम् । व्याघ्रसिंहगजाकीर्णं दस्युसर्पनिषेवितम् ॥ ४७.९ ॥
有一次,他被坐骑带到很远之处,抵达一片大森林——虎、狮与象出没其间,盗匪与蛇类亦常在此徘徊。
Verse 10
एकाकी तत्र राजा तु अश्वं मुच्य तरोरधः । स्वयं कुशमथास्तीर्य सुप्तो दुःखसमन्वितः ॥ ४७.१० ॥
在那里,国王孤身一人,将马放在树下;又亲自铺开库沙草(kuśa),带着忧苦躺下入睡。
Verse 11
तावत् तत्रैव लुब्धानां सहस्राणि चतुर्दश । आगतानि मृगान् हन्तुं रात्रौ राज्ञः समन्ततः ॥ ४७.११ ॥
就在那时,就在此处,夜里有一万四千名猎人赶到,从四面包围国王,意在猎杀群鹿。
Verse 12
तत्रापश्यन्त ते सुप्तं हेमरत्नविभूषितम् । नृगं राजानमत्युग्रं श्रिया परमया युतम् ॥ ४७.१२ ॥
他们在那里看见尼利伽王沉睡着,身饰黄金与宝珠——威严可畏,具足无上的光辉与福耀。
Verse 13
ते गत्वा त्वरितं व्याधाः स्वभर्त्रे संन्यवेदयन् । सोऽपि रत्नसुवर्णार्थं राजानं हन्तुमुद्यतः ॥ ४७.१३ ॥
猎人们迅速前往,将此事禀告自己的首领;那首领亦为珠宝与黄金之故,怀着杀王之意而出发。
Verse 14
तुरगस्य च हेतोस्तु निस्त्रिंशा वनचारिणः । राजानं सुप्तमासाद्य निगृहीतुं प्रचक्रमुः ॥ ४७.१४ ॥
然而为夺那匹马,林居之人手执利剑,趁王熟睡之时逼近,开始欲擒拿之。
Verse 15
तावद् राज्ञः शरीरात् तु श्वेताभरणभूषिता । नारी काचित् समुत्तस्थौ स्त्रक्चन्दनविभूषिता । उत्थाय चक्रमादाय ते म्लेच्छा विनिपातिताः ॥ ४७.१५ ॥
其时,自王之身中起现一位女子,佩白色饰物,身饰花鬘并涂檀香。她起身执轮(神轮),击倒那些弥勒叉。
Verse 16
दस्यून् निहत्य सा देवी तस्य राज्ञस्तनुं पुनः । प्रविशन्त्याशु राजा अपि प्रतिबुद्धोऽथ दृष्टवान् । म्लेच्छांस्तु निहतान् दृष्ट्वा सा स्वमूर्त्तिलयं गता ॥ ४७.१६ ॥
女神诛灭盗贼后,复入彼王之身。王亦迅速苏醒而见;见诸弥勒叉已被杀而横陈,女神遂退隐,融归于自身本相。
Verse 17
अश्वमारुह्य स पुनर्वामदेवाश्रमं ययौ । तत्रापृच्छदृषिं भक्त्या का स्त्री के ते निपातिताः । एतत्कार्यमृषे मह्यं कथयस्व प्रसीद मे ॥ ४७.१७ ॥
王乘马复往婆摩提婆之精舍。至彼,怀恭敬信心问仙人曰:“此女为谁?被击倒者又是谁?愿仁慈之ṛṣi为我详说此事。”
Verse 18
वामदेव उवाच । त्वमासीच्छूद्रजातीय अन्यजन्मनि पार्थिव । तत्र त्वया ब्राह्मणस्य प्रेषणं कुर्वता श्रुता । श्रावणस्य तु मासस्य शुक्लपक्षे तु द्वादशी ॥ ४७.१८ ॥
瓦摩提婆说道:“大王啊,在另一世你出身于首陀罗族。那时你差遣一位婆罗门为使者,听闻了室罗伐那月明半月中的第十二日(Dvādaśī)。”
Verse 19
सविधानात् त्वया राजन् भक्त्या वै समुपोषिता । उपोषितायां तस्यां तु राज्यं लब्धं त्वयानघ ॥ ४७.१९ ॥
大王啊,依照所规定的仪轨,你以虔敬之心圆满守持了那斋戒/誓愿;当守持完成之时,你——无垢者——便获得了王国。
Verse 20
सर्वापत्सु च सा देवी भवन्तं परिरक्षति । यया विनिहताः क्रूरा म्लेच्छाः पापसमन्विताः । भवांश्च रक्षितो राजन् श्रावणद्वादशी तु सा ॥ ४७.२० ॥
并且在一切灾厄之中,那位女神护佑于你;凭借她,凶暴而作恶的弥勒叉(mleccha)被歼灭。大王啊,你也蒙其守护;她确实就是“室罗伐那月的第十二日(Śrāvaṇa Dvādaśī)”之威德(或其行持)。
Verse 21
एकैव पाति चापत्सु राज्यं एकैव यच्छति । किं पुनर्द्वादशैतास्तु येनेन्द्रं न ददुः पदम् ॥ ४७.२१ ॥
一人尚且能在灾难之时护持国土,一人亦能赐与其利益;更何况那十二位(或十二种功德)——凭借他们,连因陀罗也未被赐予至高王位吗?
The text links disciplined observance (niyama and upavāsa) with social duty (dāna to a learned brāhmaṇa) and frames ritual practice as a stabilizing force during crisis (apad-rakṣā), illustrated through a narrative where protective power intervenes against violence in a forest setting.
The observance is specified for Śrāvaṇa māsa during the śukla-pakṣa on dvādaśī (the 12th lunar day of the bright fortnight).
While not a direct ecological treatise, the chapter situates moral order within a hazardous forest ecology (ghora-vana with predators and bandits), implying that disciplined conduct and protective governance reduce harm in vulnerable landscapes—an indirect model of maintaining terrestrial safety and stability within the Varāha–Pṛthivī didactic horizon.
Durvāsas (sage authority), Vāmadeva (ṛṣi with an āśrama), and King Nṛga (royal figure used for exemplum). Social categories appear via references to a prior śūdra birth and to mleccha/dasyu attackers as cultural outsiders in the narrative.
Read Varaha Purana in the Vedapath app
Scan the QR code to open this directly in the app, with audio, word-by-word meanings, and more.