
Nārāyaṇasya Daśāvatāra-Aṣṭamūrti-Nirdeśaḥ tathā Aśvaśirā-Rājopākhyānam
Philosophical-Discourse (theology of manifestation) with Didactic Narrative (royal instruction through yogic māyā)
本章以对话展开:大地女神Pṛthivī询问Varāha,Nārāyaṇa究竟是否能被完全描述,抑或终究超越肯定与否定。Varāha答以列举十种化身(daśāvatāra),作为修行者可依循的“阶梯”,并指出至上本体连诸天(deva)亦不得见。继而阐明Nārāyaṇa的八相显现(aṣṭamūrti),将神圣临在与诸元素及宇宙职司相连,说明大地的安稳由这些显化之形所维系。随后转入譬喻:Priyavrata王受那罗陀Nārada教诲后修苦行;又叙Aśvaśirā王请问迦毗罗Kapila与Jaigīṣavya二圣如何礼敬Hari。二圣以瑜伽变化示现,令王见万有众生充满宫殿,从而教示遍在:Viṣṇu当于自身之身与一切众生中体证;由此奠立以普遍敬重为本的奉爱之道,亦暗合维持大地平衡之义。
Verse 1
धरण्युवाच । योऽसौ नारायणो देवः परमात्मा सनातनः । भगवन् सर्वभावेन उताहो नेति शंस मे ॥ ४.१ ॥
大地女神(Dharā)说道:“那位那罗延(Nārāyaṇa)——神、永恒的至上我(Paramātman)——噢,世尊,他应当在一切方面被肯定吗?还是应以‘非此’(neti)之法来趋近?请为我开示。”
Verse 2
श्रीवराह उवाच । मत्स्यः कूर्मो वराहश्च नरसिंहोऽथ वामनः । रामो रामश्च कृष्णश्च बुद्धः कल्की च ते दश ॥ ४.२ ॥
圣瓦拉哈说道:“摩蹉(Matsya)、龟(Kūrma)与野猪(Varāha);人狮(Narasiṁha),继而侏儒(Vāmana);罗摩(Rāma)与(持斧)罗摩(Paraśu-Rāma);黑天(Kṛṣṇa);佛陀(Buddha);以及迦尔吉(Kalkī)——这就是你的十化身。”
Verse 3
इत्येताः कथितास्तस्य मूर्त्तयो भूतधारिणि । दर्शनं प्राप्तुमिच्छूनां सोपानानीव शोभते ॥ ४.३ ॥
因此,祂的这些显现之身(mūrti)已被宣说,噢,众生的护持者;对于渴望得见祂之圣观(darśana)的人,它们如阶梯之级般熠熠生辉。
Verse 4
यत् तस्य परमं रूपं तन्न पश्यन्ति देवताः । अस्मदादिस्वरूपेण पूरयन्ति ततो धृतिम् ॥ ४.४ ॥
祂的至上形相,诸天并不能觉见。因此,祂(或诸神)以从我等之形相开始的诸身示现,以维持并充满坚忍与勇毅。
Verse 5
ब्रह्मा भगवतो मूर्त्या रजसस्तमसस्तथा । याभिः संस्थाप्यते विश्वं स्थितौ संचाल्यते च ह ॥ ४.५ ॥
梵天(Brahmā)——连同世尊与“罗阇斯”(rajas)与“昏暗”(tamas)相应的诸身(mūrti)——凭借这些形身,宇宙得以安立;并且在维持之位(sthiti)中亦被推动而运转。
Verse 6
त्वमेकाऽस्य देवस्य मूर्तिराद्या धराधरे । द्वितीया सलिलं मूर्तिस्तृतीया तैजसी स्मृता ॥ ४.६ ॥
噢,承载大地者,你是那位神祇的第一形身;第二形身被理解为水;第三形身则被忆念为火焰般的光辉。
Verse 7
चतुर्थी वायुमूर्तिः स्यादाकाशाख्या तु पञ्चमी । एतास्तु मूरतयस्तस्य क्षेत्रज्ञत्वं हि मद्धियाम् । मूर्त्तित्रयं तथा तस्य इत्येताश्चाष्टमूर्तयः ॥ ४.७ ॥
第四被称为风之形相,第五名为虚空(以太,Ākāśa)。依我之所解,此等形相确应被理解为显示其为「田知者」(kṣetrajña,知身田者)的地位。又复有其三重形相;如是合之,即为八形相(aṣṭamūrti)。
Verse 8
अभिव्याप्तिमिदं सर्वं जगन्नारायणेन ह । इत्येतत् कथितं देवि किमन्यच्छ्रोतुमिच्छसि ॥ ४.८ ॥
“此整个宇宙皆为那罗延(Nārāyaṇa)所遍满、所周行。”——如是已宣说。噢女神,此义已为汝解明;汝还欲听何者?
Verse 9
धरण्युवाच । नारदेनैवमुक्तस्तु तदा राजा प्रियव्रतः । कृतवान् किं ममाचक्ष्व प्रसादात् परमेश्वर ॥ ४.९ ॥
大地女神(Dharaṇī)说道:当那罗陀(Nārada)如此言说时,普利耶弗罗多王(Priyavrata)便答曰:“请告知我——凭至上主之恩赐(prasāda),我曾作了何事?”
Verse 10
श्रीवराह उवाच । भवतीं सप्तधा कृत्वा पुत्राणां च प्रदाय सः । प्रियव्रतस्तपस्तेपे नारदाच्छ्रुतविस्मयः ॥ ४.१० ॥
圣野猪尊(Śrī Varāha)曰:他将汝(大地)分为七分,并分授于诸子;普利耶弗罗多(Priyavrata)因闻那罗陀(Nārada)之言而惊异,遂修行苦行(tapas)。
Verse 11
नारायणात्मकं ब्रह्म परं जप्त्वा स्वयम्भुवः । ततस्तुष्टमनाः पारं परं निर्वाणमाप्तवान् ॥ ४.११ ॥
他以持诵(japa)礼念其本质为那罗延(Nārāyaṇa)之至上梵(Brahman);于是自生者(Svayambhuva)内心满足,得至彼岸——无上涅槃(nirvāṇa)。
Verse 12
शृणु चान्यद् वरारोहे यद्वृत्तं परमेष्ठिनः । आराधनाय यततः पुराकाले नृपस्य ह ॥ ४.१२ ॥
再听一段记述吧,哦,腰胯娴美者:这是关于帕拉梅什提因(Parameṣṭhin)的事迹——在往昔,有一位国王确曾为求供奉礼敬而勤修努力。
Verse 13
आसीदश्वशिरा नाम राजा परमधार्मिकः । सोऽश्वमेधेन यज्ञेन यष्ट्वा सुबहुदक्षिणः ॥ ४.१३ ॥
曾有一位国王名为阿湿瓦希罗(Aśvaśirā),极其奉持正法。他举行了马祭(Aśvamedha),并成为广施达克希那(dakṣiṇā,祭礼酬施)之人。
Verse 14
स्नातश्चावभृथिथे सोऽथ ब्राह्मणैः परिवारितः । यावदास्ते स राजर्षिस्तावद् योगिवरो मुनिः । आययौ कपिलः श्रीमान् जैगीषव्यश्च योगिराट् ॥ ४.१४ ॥
随后,他在终结仪式的阿瓦婆利他(avabhṛtha)沐浴后,那位王仙端坐,周围环绕着婆罗门。正当他如此安坐之时,最胜的瑜伽圣者到来——光辉的迦毗罗(Kapila)以及瑜伽众之王耆吉沙毗耶(Jaigīṣavya)。
Verse 15
ततस्त्वरितमुत्थाय स राजा स्वागतक्रीयाम् । चकार परया युक्तः स मुदा राजसत्तमः ॥ ४.१५ ॥
于是那位国王迅速起身;这位诸王之最,怀着喜悦,依礼尽善地行了惯常的迎接之仪。
Verse 16
तावर्च्चितावासनगौ दृष्ट्वा राजा महाबलः । पप्रच्छ तौ तिग्मधियौ योगज्ञौ स्वेच्छयागतौ ॥ ४.१६ ॥
那位大力的国王见二位已受恭敬礼遇而安坐于座,便向他们发问:二位慧锋锐利、通达瑜伽之道,且随自愿而来。
Verse 17
भवन्तौ संशयं विप्रौ पृच्छामि पुरुषोत्तमौ । कथमाराधयेद् देवं हरिं नारायणं परम् ॥ ४.१७ ॥
噢,两位卓越的婆罗门,我有一疑问相问:应当如何如法礼敬并供奉神圣的诃利——至上的那罗延那?
Verse 18
विप्रावूचतुः । क एष प्रोच्यते राजंस्त्वया नारायणो गुरुः । आवां नारायणौ द्वौ तु त्वत्प्रत्यक्षगतो नृप ॥ ४.१८ ॥
婆罗门二人说道:“大王,你所宣称为那罗延那、为导师者是谁?因为我们二人就是两位‘那罗延那’,正亲自显现在你眼前,君王啊。”
Verse 19
अश्वशिरा उवाच । भवन्तौ ब्राह्मणौ सिद्धौ तपसा दग्धकिल्बिषौ । कथं नारायणावावामिति वाक्यमथेरितम् ॥ ४.१९ ॥
阿湿婆希罗说道:“你们二位是成就的婆罗门、已臻悉地者,以苦行焚尽诸过。怎会说‘我们是那罗延那’呢?”——于是便发此言。
Verse 20
शङ्खचक्रगदापाणिः पीतवासाऽ जनार्दनः । गरुडस्थो महादेवः कस्तस्य सदृशो भुवि ॥ ४.२० ॥
阇那尔达那手持螺、轮与杵,身着黄衣,乘坐迦楼罗——此大圣神者,世间谁能与之比拟?
Verse 21
तस्य राज्ञो वचः श्रुत्वा तौ विप्रौ संहितव्रतौ । जहसतुः पश्य विष्णुं राजन्निति जजल्पतुः ॥ ४.२१ ॥
听了那位国王的话,两位严守誓戒的婆罗门微笑着说道:“大王,请观见毗湿奴。”
Verse 22
एवमुक्त्वा स कपिलः स्वयं विष्णुर्बभूव ह । जैगीषव्यश्च गरुडस्तत्क्षणात् समजायत ॥ ४.२२ ॥
如是言毕,迦毗罗当下即自成毗湿奴;而耆吉沙毗耶亦于同一刹那化现为迦楼罗。
Verse 23
ततो हाहाकृतं त्वासीत्तत्क्षणाद्राजमण्डलम् । दृष्ट्वा नारायणं देवं गरुडस्थं सनातनम् ॥ ४.२३ ॥
于是就在那一刹那,王廷之众(王会与国土之人)惊呼哀号;因为他们看见永恒的天神那罗延那,乘坐于迦楼罗之上。
Verse 24
कृताञ्जलिपुटो भूत्वा ततो राजा महायशाः । उवाच शम्यतां विप्रौ नायं विष्णुरथेदृशः ॥ ४.२४ ॥
于是那位声名显赫的国王合掌作礼(安阇梨)而说道:“诸婆罗门啊,请安定;此并非毗湿奴,亦非如是之相。”
Verse 25
यस्य ब्रह्मा समुत्पन्नो नाभिपङ्कजमध्यतः । तस्माच्च ब्रह्मणो रुद्रः स विष्णुः परमेश्वरः ॥ ४.२५ ॥
由其莲华般的脐中,梵天(Brahmā)出生;而由彼梵天,鲁陀罗(Rudra)出生——彼即毗湿奴,至上主宰(Parameśvara)。
Verse 26
इति राजवचः श्रुत्वा तदा तौ मुनिपुङ्गवौ । चक्रतुः परमां मायां योगमायां विशेषतः ॥ ४.२६ ॥
二位最胜牟尼听闻王言之后,便施展至上的显现之力——尤其是瑜伽幻力(yogamāyā)。
Verse 27
कपिलः पद्मनाभस्तु जैगीषव्यः प्रजापतिः । कमलस्थो बभौ ह्रस्वस्तस्य चाङ्के कुमारकः ॥ ४.२७ ॥
迦毗罗与莲脐者(Padmanābha),以及耆耆湿婆耶(Jaigīṣavya)这位生主(Prajāpati)——安坐于莲华之上——显现出来;其膝上亦有一童子(kumāraka)。
Verse 28
ददर्श राजा रक्ताक्षं कालानलसमद्युतिम् । नेत्थं भवति विश्वेशो मायैषा योगिनां सदा । सर्वव्यापी हरिः श्रीमानिति राजा जगाद ह ॥ ४.२८ ॥
国王见到他——双目赤红,光辉如劫末之火。国王遂言:“宇宙之主并非真实如此;此乃瑜伽行者恒常之幻力(māyā)。吉祥的哈利遍满一切。”
Verse 29
ततो वाक्यावसाने तु तस्य राज्ञो हि संसदि । मशका मत्कुणा यूका भ्रमराः पक्षिणोरगाः ॥ ४.२९ ॥
随后,言辞既毕,在国王的会众之中,忽然出现蚊蚋、臭虫、虱子、蜂群、飞鸟与蛇类。
Verse 30
अश्वा गावो द्विपाः सिंहा व्याघ्रा गोमायवो मृगाः । अन्येऽपि पशवः कीटा ग्राम्यारण्याश्च सर्वशः । दृश्यन्ते राजभवने कोटिशो भूतधारिणि ॥ ४.३० ॥
马、牛、象、狮、虎、豺、鹿及其他诸兽,又有虫类——家养与野生无不具足——在王宫之中皆可见到;噫,众生之负持者,其数以百万计。
Verse 31
तं दृष्ट्वा भूतसङ्घातं राजा विस्मितमानसः । यावच्चिन्तयते किं स्यादेतदित्यवगम्य च । जैगीषव्यस्य माहात्म्यं कपिलस्य च धीमतः ॥ ४.३१ ॥
见到那群生类,国王心神震惊,思忖“此为何物?”及至了然,便领悟到耆耆湿婆耶(Jaigīṣavya)的伟大,亦知晓智者迦毗罗(Kapila)的崇高。
Verse 32
कृताञ्जलिपुटो भूत्वा स राजा अश्वशिरास्तदा । पप्रच्छ तावृषी भक्त्या किमिदं द्विजसत्तमौ ॥ ४.३२ ॥
于是,阿湿婆希罗王合掌作恭敬的安阇梨,以虔敬之心问那两位圣仙:“此为何物?噢,最胜的二生者!”
Verse 33
द्विजावूचतुः । आवां पृष्टौ त्वया राजन् कथं विष्णुरिहेज्यते । प्राप्यते वा महाराज तेनिदं दर्शितं तव ॥ ४.३३ ॥
两位婆罗门说道:“大王,既然你问我们:在此处应如何礼拜毗湿奴?或大王,如何得达于他?为此缘故,此事才向你显现。”
Verse 34
सर्वज्ञस्य गुणा ह्येते ये राजंस्तव दर्शिताः । स च नारायणो देवः सर्वज्ञः कामरूपवान् ॥ ४.३४ ॥
大王,你所指出的这些,确是全知者的德相。而那位神祇即是那罗延(Nārāyaṇa)——全知无碍,并具随意化现诸形之力。
Verse 35
सौम्यस्तु संस्थितः क्वापि प्राप्यते मनुजैः किल । आराधनेन चैतस्य वाक्यमर्थवदिष्यते ॥ ४.३५ ॥
诚然,那吉祥柔和的临在——虽安住于某处——人类亦能得达。并且通过对祂的供奉修持(ārādhana),此言被认为确有其义,即可由亲证印可。
Verse 36
किन्तु सर्वशरीरस्थः परमात्मा जगत्पतिः । स्वदेहे दृश्यते भक्त्या नैकस्थानगतस्तु सः ॥ ४.३६ ॥
然而,至上我(Paramātman)——世间之主——住于一切身中。以奉爱(bhakti)之力,祂可在自身之身内被觉知;但祂并不局限于任何一处。
Verse 37
अतोऽर्थं दर्शितं रूपं देवस्य परमात्मनः । आवयोस्तव राजेन्द्र प्रतीतिः स्याद् यथा तव । एवं सर्वगतो विष्णुस्तव देहे जनेश्वर ॥ ४.३७ ॥
因此,为了显明其所指之义,已示现至上神我之圣相,使你——噢诸王之最胜者——在我等之间如理生起正知。由是,遍一切处的毗湿奴亦住于汝身,噢人主。
Verse 38
मन्त्रिणां भृत्यसङ्घस्य सुराद्या ये प्रदर्शिताः । पशवः कीटसङ्घाश्च तेऽपि विष्णुमया नृप ॥ ४.३८ ॥
噢国王,诸大臣与侍从之众,以及所指示的诸天等——乃至群兽与虫蚁之聚——此等亦皆为“毗湿奴所成”(Viṣṇu-maya),悉为毗湿奴所遍满。
Verse 39
भावनां तु दृढां कुर्याद् यथा सर्वगतो हरिः । नान्यत् तत्सदृशं भूतमिति भावेन सेव्यते ॥ ४.३९ ॥
当坚固修习观念:“诃利(Hari)遍一切处。”以“无有众生可与彼等同”之心态,应如是亲近、奉事于彼。
Verse 40
एष ते ज्ञानसद्भावस्तव राजन् प्रकीर्तितः । परिपूर्णेन भावेन स्मरन् नारायणं हरिम् ॥ ४.४० ॥
噢国王,此即为汝所宣说之真实知见之正性:以圆满不二之心,忆念那罗延那(Nārāyaṇa)、诃利(Hari)。
Verse 41
परिपूर्णेन भावेन स्मर नारायणं गुरुम् । पुष्पोपहारैर्धूपैश्च ब्राह्मणानां च तर्पणैः । ध्यानॆन सुस्थितेनाशु प्राप्यते परमेश्वरः ॥ ४.४१ ॥
以圆满专注之心,忆念那罗延那——可敬之师。以花供与香供,并以施行塔尔帕那(tarpaṇa)使婆罗门得以满足,再以安住不动之禅观,便能迅速证得至上主。
The text instructs that Nārāyaṇa is both approached through manifest forms (e.g., the ten avatāras) and ultimately understood as all-pervading. The didactic climax teaches that the divine is to be perceived within one’s own body and in all beings; therefore, devotion and conduct should be grounded in a comprehensive, non-exclusionary regard for living creatures and the world they inhabit.
No explicit tithi, lunar month, seasonal timing, or calendrical markers are stated. The narrative references ritual sequence elements (aśvamedha and avabhṛtha bathing) but does not anchor them to a specific time cycle.
Pṛthivī’s presence frames the discourse toward Earth-centered stability (dhṛti). Varāha’s account of manifested forms—especially the elemental and cosmic embodiments associated with aṣṭamūrti—presents the world as pervaded by Nārāyaṇa. The instruction to see all creatures as viṣṇumaya encourages restraint, protection of life, and an ethic compatible with sustaining terrestrial equilibrium rather than treating beings and habitats as merely instrumental.
The chapter references Priyavrata (a royal figure associated with ascetic practice), Nārada (as the instructing sage), King Aśvaśirā (the inquiring ruler), and the sages Kapila and Jaigīṣavya (who demonstrate yogamāyā). It also alludes to cosmological lineage motifs (Brahmā arising from the navel-lotus and Rudra from Brahmā) as part of the king’s doctrinal speech.