
Vrata-traya (Mānasa–Kāyika–Vācika) tathā Nārāyaṇa-nāma-śravaṇa-māhātmya
Ethical-Discourse (Vrata-Dharma) with Exemplum Narrative (Nāmamāhātmya)
大地女神Pṛthivī请问婆罗诃(Varāha):男女信众应当如何礼拜,求得切实的修持法门。婆罗诃答曰:得见于bhāva(内在心意与诚敬),不在财富或徒然诵念,并将誓戒(vrata)分为三类:心行(不害ahiṃsā、真实satya、不盗asteya、梵行brahmacarya、无欺无伪akalkatā),身行(一次食ekabhakta、夜食nakta、禁食upavāsa),语行(默修mauna、诵学adhyayana、赞颂/唱诵神名deva-stuti/kīrtana,以及不诽谤)。为示其功德不拘社会身份,婆罗诃讲述圣者阿鲁尼(Aruṇi)与凶暴猎人(vyādha)之事:猎人因接触婆罗门并得以称念/闻听“namo Nārāyaṇāya”,转变其业果。章末以教诫强调:以信爱、节制与敬重婆罗门为要,以护持道德与大地之秩序。
Verse 1
धरण्युवाच । कथमाराध्यसे देव भक्तिमद्भिर्नरैर्विभो । स्त्रीभिर्वा सर्वमेतन्मे शंस त्वं भूतभावन ॥ ३७.१ ॥
大地女神(Dharanī)说道:“噢神明,遍在的主啊,虔敬的男子应当如何礼拜你?女子又当如何?请将这一切告诉我吧,噢养育众生者。”
Verse 2
श्रीवराह उवाच । भावसाध्योऽस्म्यहं देवि न वित्तैर्न जपैरहम् । साध्यस्तथापि भक्तानां कायक्लेशं वदामि ते ॥ ३७.२ ॥
圣瓦拉哈说道:“女神啊,我可由内在的心意与情致(bhāva)而得,不由财富,也不由低声持诵(japa)。然而对虔信者而言,我确实可得;因此我将为你讲述关于身苦之行(kāya-kleśa),即以身体为代价的苦行。”
Verse 3
कर्मणा मनसा वाचा मच्चित्तो यो नरो भवेत् । तस्य व्रतानि धास्यामि विविधानि निबोध मे ॥ ३७.३ ॥
若有人以身行、意念与言语专注归依于我——我将宣说他应行的种种誓戒(vrata);当从我而明了。
Verse 4
अहिंसा सत्यमस्तेयं ब्रह्मचर्यमकल्कता । एतानि मानस्यानाहुर्व्रतानि तु धराधरे ॥ ३७.४ ॥
不害(ahiṃsā)、真实、不盗、梵行(brahmacarya)与无垢清净——这些被称为心意之誓戒,噢负持大地者。
Verse 5
एकभक्तं तथा नक्तमुपवासादिकं च यत् । तत्सर्वं कायिकं पुंसां व्रतं भवति नान्यथा ॥ ३७.५ ॥
一食(ekabhakta)、夜食(nakta),以及一切与斋戒等相关的行持——这些全都是人们的身行之誓(kāyika),别无他义。
Verse 6
मौनं चाध्ययनं चैव देवस्तुत्यर्थकीर्तितात् । निवृत्तिश्चापि पैशुन्याद् वाचिकं व्रतमुत्तमम् ॥३७.६॥
默然(mauna)、研习圣典,以及以有义之言称颂诸天;并且远离诽谤——此被宣说为最上之语业誓戒。
Verse 7
अत्रापि श्रूयते चान्यदृषिरुग्रतपाः पुरा । ब्रह्मपुत्रः पुरा कल्पे अरुणिर्नाम नामतः ॥ ३७.७ ॥
此处亦传闻另一则事迹:往昔有一位苦行峻烈的圣仙,名为阿鲁尼(Aruṇi),据说在前一劫(kalpa)中为梵天(Brahmā)之子。
Verse 8
सोऽरण्यमगमत्किञ्चित् तपोर्थी द्विजसत्तमः । तपस्तेपे ततस्तस्मिन्नुपवासपरायणः ॥ ३७.८ ॥
随后,这位最上等的两次生者(婆罗门),为求修行苦行(tapas),稍入森林。于彼处,他专志持斋断食,修习诸般苦行。
Verse 9
देविकायास्तटे रम्ये सोऽवसद् ब्राह्मणः किल । कदाचिदभिषेकाय स जगाम महानदीम् ॥ ३७.९ ॥
据说,那位婆罗门居住在德维迦河(Devikā)秀丽的河岸上。某时,为行阿毗湿迦(abhiṣeka,仪式沐浴),他前往大河。
Verse 10
तत्र स्नात्वा जपन् विप्रो ददर्शायान्तमग्रतः । व्याधं महाधनुःपाणिमुग्रनेत्रं विभीषणम् ॥ ३७.१० ॥
在那里,他沐浴后正诵持咒念(japa),忽见前方一名猎人走来——手执大弓,目光凶厉,形貌可怖。
Verse 11
तं द्विजं हन्तुमायात स वल्कलानां जिघृक्षया । तं दृष्ट्वा क्षुभितो विप्रो ब्रह्मघ्नस्य भयादिति । ध्यायन् नारायणं देवं तस्थौ तत्रैव स द्विजः ॥ ३७.११ ॥
那猎人因贪欲欲夺其树皮衣,遂前来意图杀害那位两次生者。婆罗门见之心惊,畏惧“杀婆罗门者”的罪与凶;他默念观想那罗延天(Nārāyaṇa),便就地站立不动。
Verse 12
तं दृष्ट्वा अन्तर्गतहरिं व्याधो भीत इवाग्रतः । विहाय सशरं चापं ततो वचनमब्रवीत् ॥ ३७.१२ ॥
猎人见到内在显现的诃利(Hari),站在他面前仿佛惊惧;他弃下带箭之弓,随后说道如下言辞。
Verse 13
व्याध उवाच । हन्तुमिच्छुरहं ब्रह्मन् भवन्तं प्रागिहागतः । इदानीं दर्शनात् तुभ्यं सा मतिः क्वापि मे गता ॥ ३७.१३ ॥
猎人说道:“婆罗门啊,我先前来到此处,本欲杀你;但如今见到你,我那决意不知消散于何处了。”
Verse 14
ब्राह्मणानां सहस्राणि सस्त्रीणामयुतानि च । निहतानि मया ब्रह्मन् निहतौ च कुटम्बिनौ ॥ ३७.१४ ॥
“婆罗门啊,我曾杀害成千的婆罗门,又杀戮数以万计持兵之人;并且也杀了那两位居家之主。”
Verse 15
नरकेऽभ्यधिकं चित्तं कदाचिदपि विद्यते । इदानीं तप्तुमिच्छामि तपोऽहं त्वत्समीपतः । उपदेशप्रदानेन प्रसादं कर्तुमर्हसि ॥ ३७.१५ ॥
“有时,心念之苦甚至胜过地狱之苦。如今我愿在你近旁修行苦行(tapas)。愿你以开示教诲,赐我恩悯与摄受。”
Verse 16
एवमुक्तोऽप्यसौ विप्रो नोत्तरं प्रत्यपद्यत । ब्रह्महा पापकर्मेति मत्वा ब्राह्मणपुङ्गवः ॥ ३७.१६ ॥
虽被如此陈述,那位婆罗门却不作回答。那位婆罗门中的翘楚,认定他是杀婆罗门者、行恶业者,遂作如是判断。
Verse 17
अनुक्तोऽपि स धर्मेप्सुर्व्याधस्तत्रैव तस्थिवान् । स्नात्वा नद्यां द्विजः सोऽपि वृक्षमूलमुपाश्रितः ॥ ३७.१७ ॥
虽未再被言及,那位求法之猎人仍停留在原处。那位二次生者亦在河中沐浴后,依止于树根之下。
Verse 18
कस्यचित्त्वथ कालस्य तां नदीमगमत्किल । व्याघ्रो बुभुक्षितः शान्तं तं विप्रं हन्तुमुद्यतः ॥ ३७.१८ ॥
过了一段时间,据说他来到了那条河边。一只饥饿难耐的老虎,正准备杀害那位安宁的婆罗门。
Verse 19
अन्तर्जलगतं विप्रं यावद् व्याघ्रो जिघृक्षति । तावद् व्याधेन विद्धोऽसौ सद्यः प्राणैर्वियोजितः ॥ ३७.१९ ॥
当那位婆罗门仍在水中之时,正当老虎将要扑抓他的一刻,老虎被猎人射中,当即断绝气息而死。
Verse 20
तस्माद् व्याघ्रशरीरात् तु उत्थाय पुरुषः किल । विप्रश्चान्तरजले मग्नः श्रुत्वा तं शब्दमाकुलम् । नमो नारायणायेति वाक्यमुच्चैरुवाच ह ॥ ३७.२० ॥
随后,据说有一名男子从虎身中起身。那位沉没在水中的婆罗门听到那阵纷乱之声,便高声诵道:“南无那罗延那(Nārāyaṇa)。”
Verse 21
व्याघ्रेणापि श्रुतो मन्त्रः प्राणैः कण्ठस्थितैस्ततः । श्रुतमात्रे जहौ प्राणान् पुरुषश्चाभवच्छुभः ॥ ३७.२१ ॥
连那只老虎也听到了此真言;当它的气息尚哽在喉间之时,才一听见便立刻舍命——并转成一位吉祥蒙福之人。
Verse 22
सोऽब्रवीद्यामि तं देशं यत्र विष्णुः सनातनः । त्वत्प्रसादाद् द्विजश्रेष्ठ मुक्तपाप्मा निरामयः ॥ ३७.२२ ॥
他说:“我将前往那永恒的毗湿奴所居之境。因你的恩德,噢最胜的二生者,我已脱离罪垢,亦无诸病。”
Verse 23
इत्युक्तो ब्राह्मणः प्राह कोऽसि त्वं पुरुषर्षभ । सोऽब्रवीत्तस्य राजेन्द्रः प्रतापी पूर्वजन्मनि । दीर्घबाहुरिति ख्यातः सर्वधर्मविशारदः ॥ ३७.२३ ॥
婆罗门被如此问及,便说道:“你是谁,噢,人中雄者?”他回答:“大王啊,在前世我曾是威武的君主,名号为迪尔伽婆呼(Dīrghabāhu),于一切法(dharma)之义皆通达。”
Verse 24
अहं जानामि वेदांश्च अहं वेद्मि शुभाशुभम् । ब्राह्मणे नैव मे कार्यं किं वस्तु ब्राह्मणा इति ॥ ३७.२४ ॥
“我知晓诸吠陀,也明辨吉与凶。我与婆罗门并无干系——婆罗门究竟算什么‘东西’呢?”
Verse 25
तस्यैवं वादिनो विप्राः सर्वे क्रोधसमन्विताः । ऊचुः शापं दुराधर्षः क्रूरो व्याघ्रो भविष्यसि ॥ ३७.२५ ॥
他如此言说时,众婆罗门皆怒火中烧,宣下诅咒道:“你这难以制服者,将化为凶猛的虎。”
Verse 26
अवमानात् तु विप्राणां सत्यान्तं स्मरणं तव । मृत्युकालेन सम्मूढ केशवेण भविष्यति ॥ ३७.२६ ॥
然而由于你轻慢诸毗婆罗(婆罗门),你的忆念——虽立于真实——在临终之时将变得迷乱;而那忆念将与凯沙瓦(Keśava)相应,即转向凯沙瓦。
Verse 27
इत्युक्तोऽहं पुरा तैस्तु ब्राह्मणैर्वेदपारगैः । तमेव सर्वं संप्राप्तो ब्रह्मशापं सुपुष्कलम् ॥ ३७.२७ ॥
因此,往昔我曾被那些通达吠陀的婆罗门如此告诫;而我也完全遭遇了那一结果——一则极其强烈、深重的婆罗门之咒。
Verse 28
ततस्ते ब्राह्मणाः सर्वे प्रणिपत्य महामुने । उक्ताऽनुग्रहहेतोर्वै ऊचुस्ते मामिमं पुरा ॥ ३७.२८ ॥
于是那些婆罗门众人俯首顶礼,噢大牟尼,曾在往昔向你陈述此言,确为求得你的恩泽而对我如此说道。
Verse 29
षष्ठान्नकालिकस्याग्रे यस्ते स्थास्यति कश्चन । स भक्ष्यस्ते तु भविता कञ्चित्कालं नराधम ॥ ३७.२९ ॥
凡在第六次进食之时站在你面前者,那卑劣之人(narādhama)将于一段时日成为你的食物,即被你吞噬。
Verse 30
यदेषुघातं लब्ध्वा तु प्राणैः कण्ठगतैर्भवान् । श्रोष्यसे द्विजवक्त्रात् तु नमो नारायणेतिहि । तदा स्वर्गगतिस्तुभ्यं भविता नात्र संशयः ॥ ३७.३० ॥
当你遭受箭击,气息上涌至喉间(濒临命终)之时,若又从婆罗门之口听闻“南无那罗延”(namo Nārāyaṇa)之声,则彼时你必得升天之途——对此毫无疑问。
Verse 31
परवक्त्रगतस्यापि विष्णोर्नाम श्रुतं मया । लब्धद्वेषस्य विप्राणां प्रत्यक्षं तव सत्तम ॥ ३७.३१ ॥
“纵使出自他人之口,我亦曾听闻毗湿奴之名。噢诸善中最胜者,婆罗门之间所生之怨憎,已明明呈现在你面前。”
Verse 32
यः पुनर्ब्राह्मणान् पूज्य स्ववक्त्रेण नमो हरिम् । वदन् प्राणं विमुच्येत मुक्तावसौ वीतकिल्बिषः ॥ ३७.३२ ॥
然而,凡敬奉婆罗门,并以己口称诵“南无哈利”(namo Hari)者,若于如是称诵之际舍离命息,则其人得解脱;在解脱之时,罪垢尽除。
Verse 33
सत्यं सत्यं पुनः सत्यमुत्क्षिप्य भुजमुच्यते । जङ्गमा ब्राह्मणा देवाः कूटस्थः पुरुषोत्तमः ॥ ३७.३३ ॥
“真实——真实——再一次真实”,如此宣告,并举臂以作郑重誓证:婆罗门是“行走的”诸神;而至上人格普鲁沙奥塔玛(Puruṣottama)乃不变、常住之实相(kūṭastha)。
Verse 34
एवमुक्त्वा गतः स्वर्गं स राजा वीतकल्मषः । ब्राह्मणोऽपि सदायुक्तस्तं व्याधं प्रत्यभाषत ॥ ३७.३४ ॥
说罢此言,那位国王——已离诸垢——便往生天界;而那位婆罗门亦复如是,恒常自持,遂答复那猎人。
Verse 35
ऋषिरुवाच । जिघृक्षोर्मृगराजस्य यत्त्वया रक्षितो ह्यहम् । तत्पुत्र तुष्टस्ते दद्मि वरं वरय सुव्रत ॥ ३७.३५ ॥
仙人说道:“当狮王将要攫取我时,是你护持了我。因此,孩子啊,我对你甚为欢喜。我赐你一愿——善誓者啊,选择你所求之愿吧。”
Verse 36
व्याध उवाच । एष एव वरो मह्यं यत् त्वं मां भाषसे द्विज । अतः परं वरेणाहं किं करोमि प्रशाधि माम् ॥ ३७.३६ ॥
猎人说道:“二生者啊,这对我而言就是唯一的恩赐——你肯与我说话。除此之外,我拿这愿又能做什么?请教导我。”
Verse 37
ऋषिरुवाच । अहं त्वया पुरा पुत्र प्रार्थितोऽस्मि तपोऽर्थिना । बहुपातकयुक्तेन घोररूपेण चानघ ॥ ३७.३७ ॥
仙人说道:“从前,孩子啊,你为求苦行之功德而恳请于我。那时你背负多种罪业,形貌亦甚可怖,然而你的本意却无过失。”
Verse 38
इदानीं तव पापानि देविकाभिषवेण च । मद्दर्शनेन च चिरं विष्णुनामश्रुतेन च ॥ नष्टानि शुद्धदेहोऽसि साम्प्रतं नात्र संशयः ॥ ३७.३८ ॥
如今,你的罪业已被消除——因在德维迦(Devikā)行沐浴净礼,因得见于我,又因久闻毗湿奴(Viṣṇu)圣名。此刻你之身已得清净,对此毫无疑惑。
Verse 39
इदानीं वरमेकं त्वं गृहीाण मम सन्निधौ । तपः कुरुष्व साधो त्वं चिरकालं यदीच्छसि ॥ ३७.३९ ॥
如今,在我面前,你当领受一个恩赐。贤善之人啊,若你愿意,可长久修持苦行(tapas)。
Verse 40
व्याध उवाच । य एष भवता प्रोक्तो विष्णुर्नारायणः प्रभुः । स कथं प्राप्यते मर्त्यैरेष एव वरो मम ॥ ३७.४० ॥
猎人说道:“你所宣说的那位毗湿奴——那罗延那(Nārāyaṇa)、至上主宰——凡人当如何得以亲证并达到他?此即我所求的唯一恩赐。”
Verse 41
ऋषिरुवाच । तमुद्दिश्य व्रतं कुर्याद् यत्किञ्चित्पुरुषोऽच्युतम् । स परं तमवाप्नोति भक्त्या युक्तः पुमानिति ॥ ३७.४१ ॥
仙人说道:“当以心志归向彼——不堕者阿周陀(Acyuta)——人应随力修持任何誓戒与行愿(vrata)。具足奉爱(bhakti)者,便能证得至上境界。”
Verse 42
एवं ज्ञात्वा भवान् पुत्र व्रतमेतत् समाचर । न भक्षयामि सकटं न वदाम्यनृतं क्वचित् ॥ ३७.४२ ॥
“既已如此明了,孩子啊,你当奉行此誓戒。我不食‘sakaṭa’(所禁之物),亦不在任何时候说虚妄之言。”
Verse 43
एतत्ते व्रतमादिष्टं मया व्याधवर ध्रुवम् । तत्रैवं तपसा युक्तस्तिष्ठ त्वं यावदिच्छसि ॥ ३७.४३ ॥
噢,猎人中最卓越者,此一圣戒(vrata)已由我坚定地为你制定。故当住于彼处,持戒自律,具足苦行之力(tapas),随你所愿久住。
Verse 44
श्रीवराह उवाच । एवं चिन्तान्वितं मत्वा वरदो ब्राह्मणोऽभवत् । मोक्षार्थिनमथो बुद्ध्वा वञ्चयित्वा गतो मुनिः ॥ ३७.४४ ॥
圣瓦拉哈曰:知其如是沉溺于忧思之中,赐愿的婆罗门遂现其身。继而识其为求解脱(mokṣa)者,牟尼便加以欺诳而离去。
The text frames divine attainment as bhāva-sādhya (dependent on inner disposition) and teaches a threefold regimen of discipline: mānasa virtues (non-violence, truthfulness, non-stealing, celibacy, and moral clarity), kāyika observances (regulated eating and fasting), and vācika restraints (silence, study, praise, and avoidance of slander). The embedded narrative reinforces that even those with severe wrongdoing can be redirected through contact with disciplined persons and through reverent speech centered on Nārāyaṇa’s name.
No explicit tithi, māsa, or ṛtu markers are provided. The observances are described as generalizable disciplines (e.g., ekabhakta, nakta, upavāsa) rather than calendrically fixed rites; the narrative uses non-specific time phrases (e.g., “kasyacit kālasya”) and a situational setting (river bathing/abhiṣeka) rather than a lunar schedule.
Through the Varāha–Pṛthivī pedagogical frame, the chapter links terrestrial well-being to ethical conduct: ahiṃsā and restraint reduce harm to living beings, while speech-ethics (paiśunya-nivṛtti) stabilizes social cohesion that the Earth is implicitly burdened by. The riverbank setting (Devikā taṭa, mahānadī snāna) foregrounds water as a ritual-ecological interface, suggesting that disciplined human behavior—especially non-violence and truthful speech—functions as a moral ecology supporting Pṛthivī’s order.
Aruṇi is identified as a brahmaputra (a ‘son of Brahmā’) in a prior kalpa, functioning as the exemplary sage. A former king named Dīrghabāhu is referenced as a previous birth connected to the curse-and-release sequence, alongside unnamed brāhmaṇas described as vedapāraga (learned in the Vedas). The narrative also includes archetypal social roles—brāhmaṇa, vyādha (hunter), and a royal figure—rather than a detailed dynastic genealogy.