
Andhakavadhaḥ, Rudrakrodhaja-Mātṛkā-udbhavaś ca
Mythic-Theology (Devāsura-yuddha) with Ethical-Psychological Allegory
在伐罗诃与大地女神(Pṛthivī)的教诲框架中,本章叙述安达迦(Andhaka)压迫诸天神,天神逃至须弥山(Meru)并向梵天(Brahmā)求援。梵天指示他们前往凯拉萨(Kailāsa)求见湿婆(Śiva),因为安达迦得有近乎不死不伤的恩赐。安达迦率四部军进逼,觊觎帕尔瓦蒂(Pārvatī);鲁陀罗(Rudra)披甲执兵迎战。安达迦受创时,血滴化生无数分身,失控的繁殖加剧对天地秩序与众生安宁的威胁。经文以此作教义阐释:八位母神(Mātṛkā)对应八种内在烦恼(kāma、krodha等),教人以自觉与节制调伏欲怒,从而护持生命、健康与大地的有序生活。
Verse 1
महातपा उवाच । पूर्वमासीन्महादैत्यो बलवानन्धको भुवि । स देवान् वशमानिन्ये ब्रह्मणो वरदर्पितः ॥ २७.१ ॥
摩诃塔帕说道:“往昔在大地上,有一位强盛的大达那婆(Dānava)——安陀迦(Andhaka)。因梵天(Brahmā)所赐之恩愿而自负骄矜,他使诸天神受其支配。”
Verse 2
तेनात्मवान् सुराः सर्वे त्याजिता मेरुपर्वतम् । ब्रह्माणं शरणं जग्मुरन्धकस्य भयार्दिताः ॥ २७.२ ॥
因他——强盛而自持——诸天神尽被逐离须弥山(Meru)。他们为安陀迦之恐惧所逼,遂前往梵天处求庇护。
Verse 3
तानागतांस्तदा ब्रह्मा उवाच सुरसत्तमान् । किमागमनकृत्यं वो देवा ब्रूत किमास्यते ॥ २७.३ ॥
于是梵天对前来之诸天上首说道:“你们为何而来?诸天啊,告诉我——眼前究竟有何事?”
Verse 4
देवा ऊचुः । अन्धकेनार्दिताः सर्वे वयं देवा जगत्पते । त्राहि सर्वांश्चतुर्वक्त्र पितामह नमोऽस्तु ते ॥ २७.४ ॥
诸天神说道:“世间之主啊,我们众神皆为安陀迦所逼害。请护佑我们一切,四面梵天啊,祖父(Pitāmaha)啊;愿我等向你致敬礼拜。”
Verse 5
ब्रह्मोवाच । अन्धकान्नैव शक्तोऽहं त्रातुं वै सुरसत्तमाः । भवं शर्वं महादेवं व्रजाम शरणार्थिनः ॥ २७.५ ॥
梵天说道:“诸天中最胜者啊,我实在无法护佑你们免遭安陀迦之害。让我们以求庇护者之心,前往归依婆伐——舍婆,伟大的神(摩诃提婆)。”
Verse 6
किन्तु पूर्वं मया दत्तो वरस्तस्य सुरोत्तमाः । अवध्यस्त्वं हि भविता न शरीरं स्पृशेन्मही ॥ २७.६ ॥
“然而,诸天中最胜者啊,我先前已赐他一项恩赐:确实,你将不可被杀;你的身体将不触及大地。”
Verse 7
तस्यैवं बलिनस्त्वेको हन्ता रुद्रः परंतपः । तत्र गच्छामहे सर्वे कैलासनिलयं प्रभुम् ॥ २७.७ ॥
对于如此强盛的他,唯有一位能诛灭之者:鲁陀罗,摧伏诸敌者。因此,我们众人当往诣居于凯拉萨的主宰。
Verse 8
एवमुक्त्वा ययौ ब्रह्मा सदेवो भवसन्निधौ । तस्य संदर्शनाद् रुद्रः प्रत्युत्थानादिकाः क्रियाः । कृत्वाभ्युवाच देवेशो ब्रह्माणं भुवनेश्वरम् ॥ २७.८ ॥
说罢,梵天与诸神一同前往婆伐(湿婆)座前。鲁陀罗见到他,便行起身迎接等一切常礼;随后,诸神之主对梵天——诸界之君——开口说道。
Verse 9
शम्भुरुवाच । किं कार्यं देवताः सर्वा आगता मम सन्निधौ । येनाहं तत्करोम्याशु आज्ञा कार्या हि सत्वरम् ॥ २७.९ ॥
商婆说道:“诸天为何事齐来我前?告知于我,使我速速成办;命令确当不容迟延。”
Verse 10
देवा ऊचुः । रक्षस्व देव बलिनस् त्वन्धकाद् दुष्टचेतसः ॥ २७.१० ॥
众天神说道:“噢神圣者,请护佑我们——纵然我们强盛——免遭心念邪恶的安达迦(Andhaka)侵害。”
Verse 11
यावदेवं सुराः सर्वे शंसन्ति परमेष्ठिनः । तावत् सैन्येन महता तत्रैवान्धक आययौ ॥ २७.११ ॥
当众神如此赞颂至上主宰帕拉梅什提因(Parameṣṭhin)之时,就在那一瞬间,安达迦率领大军抵达此处。
Verse 12
बलेन चतुरङ्गेण हन्तुकामो भवं मृधे । तस्य भार्यां गिरिसुतां हर्तुमिच्छन् ससाधनः ॥ २७.१२ ॥
凭借四部军(四种兵种)的力量,他欲在战场上诛杀婆伐(Bhava);并备齐手段,企图掳走婆伐之妻——那位山岳所生的圣女。
Verse 13
तं दृष्ट्वा सहसाऽऽयान्तं देवशक्रप्रहारिणम् । सन्नह्य सहसा देवा रुद्रस्यानुचरा भवन् ॥ २७.१३ ॥
众神见他骤然逼近——那曾击败天帝因陀罗者——便迅速披甲执兵,成为鲁陀罗(Rudra)随行的侍从之众。
Verse 14
रुद्रोऽपि वासुकिं ध्यात्वा तक्षकं च धनञ्जयम् । वलयं कटिसूत्रं च चकार परमेश्वरः ॥ २७.१४ ॥
鲁陀罗(Rudra)亦复如是,观想婆苏吉(Vāsuki),并及塔克沙迦(Takṣaka)与达难阇耶(Dhanañjaya);至上主遂制成一只臂钏与一条腰绳。
Verse 15
नीलनामाच दैत्येन्द्रो हस्ती भूत्वा भवान्तिकम् । आगतस्त्वरितः शक्रहस्तीवोद्धतरूपवान् ॥ २७.१५ ॥
名为尼罗(Nīla)的代提耶之主化作大象,迅疾来到你近前;其形貌如因陀罗之象爱罗婆多(Airāvata),昂然挺立,威仪显赫。
Verse 16
स ज्ञातो नन्दिना दैत्यो वीरभद्राय दर्शितः । वीरभद्रोऽपि सिंहेन रूपेणाहत्य च द्रुतम् ॥ २७.१६ ॥
那魔由难提(Nandin)识出,并指示给毗罗跋陀罗(Vīrabhadra)。毗罗跋陀罗亦迅速将其击倒,随即现出狮子之形。
Verse 17
तस्य कृत्तिं विदार्याशु करिणस्त्वञ्जनप्रभाम् । रुद्रायार्पितवान् सोऽपि तमेवाम्बरमाकरोत् । ततः प्रभृति रुद्रोऽपि गजचर्मपटोऽभवत् ॥ २७.१७ ॥
他迅速撕下那象身之皮,其色黑如安阇那(眼膏),并奉献于鲁陀罗(Rudra);鲁陀罗遂以此皮为衣。从此以后,鲁陀罗亦成为披象皮之圣者。
Verse 18
गजचर्मपटो भूत्वा भुजङ्गाभरणोज्ज्वलः । आदाय त्रिशिखं भीमं सगणोऽन्धकमन्वयात् ॥ २७.१८ ॥
披象皮为衣,身饰蛇为璎珞而光辉炳然;执起三尖可怖之三叉戟,偕同诸伽那眷属追逐安陀迦(Andhaka)。
Verse 19
ततः प्रवृत्ते युद्धे च देवदानवयोर्महत् । इन्द्राद्या लोकपालास्तु स्कन्दः सेनापतिस्तथा । सर्वे देवगणाश्चान्ये युयुधुः समरे तदा ॥ २७.१९ ॥
其后,当天神与达那婆(Dānava)之间的大战展开之时,因陀罗等诸护世者,以及统军之斯坎陀(Skanda),并一切其余天众,皆于彼时在战阵中奋战。
Verse 20
तं दृष्ट्वा नारदाऽ युद्धं ययौ नारायणं प्रति । शशंस च महद्युद्धं कैलासे दानवैः सह ॥ २७.२० ॥
见到那场战斗后,圣者那罗陀前往那罗延那处,禀告在凯拉萨山与达那婆众发生的巨大冲突。
Verse 21
तच्छ्रुत्वा चक्रमादाय गरुडस्थो जनार्दनः । तमेव देशमागत्य युयुधे दानवैः सह ॥ २७.२१ ॥
闻此消息,坐乘迦楼罗的阇那尔达那执起神轮;来到原处,便与达那婆众交战。
Verse 22
आगत्य च ततो देवा हरिणाप्यायिता रणे । विषण्णवदनाः सर्वे पलायनपरा अभवन् ॥ २७.२२ ॥
随后诸天到来;虽在战阵中得哈利振奋复苏,但众神皆面色沮丧,一心只欲逃遁。
Verse 23
तत्र भग्नेषु देवेषु स्वयं रुद्रोऽन्धकं ययौ । तत्र तेन महद्युद्धमभवल्लोमहर्षणम् ॥ २७.२३ ॥
当诸神在彼处溃败之时,鲁陀罗亲自进逼安陀迦;在那里与他爆发了一场大决战,惨烈得令人毛骨悚然。
Verse 24
तत्र देवोऽप्यसौ दैत्यं त्रिशूलेनाहनद् भृशम् । तस्याहतस्य यद् रक्तमपतद् भूतले किल । तत्रान्धका असंख्याता बभूवुरपरे भृशम् ॥ २७.२४ ॥
在那里,那位神也以三叉戟猛烈击打那魔族。据说,凡受伤者之血滴落地面之处,便在彼处又生出无量无数的安陀迦,数量极其众多。
Verse 25
तद् दृष्ट्वा महदाश्चर्यं रुद्रो शूलेऽन्धकं मृधे । गृहीत्वा त्रिशिखाग्रेण ननर्त परमेश्वरः ॥ २७.२५ ॥
见到那伟大的奇迹,鲁陀罗在战斗中以三叉戟擒住安陀迦,将其贯穿于三尖之端;至上主帕拉梅湿伐罗遂起胜利之舞。
Verse 26
असृग्धारातुषारैस्तु शूलप्रोतस्य चासकृत् । अनारतं समुत्तस्थुस्ततो रुद्रो रुषान्वितः ॥ २७.२७ ॥
然而,从那被三叉戟贯穿者身上,血流如霜雪般的骤雨反复涌起,绵延不绝;于是鲁陀罗起身,怒意充满。
Verse 27
तस्य क्रोधेन महता मुखाज्ज्वाला विनिर्ययौ । तद्रूपधारिणी देवी यां तां योगेश्वरीं विदुः ॥ २७.२८ ॥
因其盛大忿怒,火焰自其口中迸出。那位取此形相的女神,被称为瑜伽自在女神——Yogeśvarī。
Verse 28
स्वरूपधारिणी चान्या विष्णुनापि विनिर्मिता । ब्रह्मणा कार्तिकेयेन इन्द्रेण च यमेन च । वराहेण च देवेन विष्णुना परमेष्ठिना ॥ २७.२९ ॥
又有另一位女相,取显现之形,亦由毗湿奴所造;同样也由梵天、迦尔蒂凯亚、因陀罗与阎摩所造;并由神祇伐罗诃,以及至上者毗湿奴(Parameṣṭhin)所造。
Verse 29
पातालोद्धरणं रूपं तस्या देव्या विनिर्ममे । माहेश्वरी च राजेन्द्र इत्येता अष्टमारतः ॥ २७.३० ॥
他为那位女神塑成一种形相,适于从帕塔拉(地下界)举起、救拔。她亦名为摩醯湿伐梨(Māheśvarī),大王啊;如此依次而列,此为第八位。
Verse 30
कारणं तानि यत्प्रोक्तं क्षेत्रज्ञेनावधारणम् । शरीराद् देवतानां तु तदिदं कीर्तितं मया ॥ २७.३१ ॥
这些要点的原因已被宣说:乃是由“知田者”(kṣetrajña,知觉之主)所作的确证。至于诸天与此身之关联,我亦已如是阐明。
Verse 31
कामः क्रोधस्तथा लोभो मदो मोहः अथ पञ्चमः । मात्सर्यं षष्ठमित्याहुः पैशुन्यं सप्तमं तथा । असूया चाष्टमी ज्ञेया इत्येता अष्टमातरः ॥ २७.३२ ॥
欲(kāma)、嗔(krodha)与贪(lobha);慢醉之心(mada,傲慢)与痴(moha)为第五;嫉(mātsarya)称为第六,谗毁恶口(paiśunya)为第七;而挑剔怨尤之恶意(asūyā)当知为第八——此等被称为八位“母”,为诸不善习气之根源。
Verse 32
कामं योगेश्वरीं विद्धि क्रोधो माहेश्वरीं तथा । लोभस्तु वैष्णवी प्रोक्ता ब्रह्माणी मद एव च ॥ २७.३३ ॥
当知:欲(kāma)隶属于瑜伽自在女神(Yogeśvarī);嗔(krodha)亦隶属于大自在女神(Māheśvarī)。贪(lobha)被教示为毗湿奴女神(Vaiṣṇavī),而慢醉之心(mada)确为梵天女神(Brahmāṇī)。
Verse 33
मोहः स्वयम्भूः कौमारी मात्सर्यं चेन्द्रजं विदुः । यमदण्डधरा देवी पैशुन्यं स्वयमेव च । असूया च वराहाख्या इत्येताः परिकीर्तिताः ॥ २७.३४ ॥
痴迷(moha)被说为自生,并(亦)与鸠摩利(Kaumārī)相应;嫉妒(mātsarya)被知为由因陀罗而起。执持阎摩之杖的女神(yama-daṇḍa-dharā)与谗毁(paiśunya)相连,而此亦自生;而 asūyā 则名为“婆罗诃”(Varāhā)。如是诸相皆已列举。
Verse 34
कामादिगण एषोऽयं शरीरे परिकीर्तितः । जग्राह मूर्त्तिं तु यथा तथा ते कीर्तितं मया ॥ २७.३५ ॥
此一以欲(kāma)为首之群类,已被宣说为住于此身之中。至于它如何摄取形相(mūrti),我亦已如是为汝阐释。
Verse 35
एताभिर्देवताभिश्च तस्य रक्तेऽतिशोषिते । क्षयं गताऽसुरी माया स च सिद्धोऽन्धकोऽभवत् ॥ एतत्ते सर्वमाख्यातमात्मविद्यामृतं मया ॥ २७.३६ ॥
当他的血被这些神祇过度吸干之时,阿修罗的幻力(摩耶)遂归于毁灭;而他——安陀迦——成为成就者(悉地者)。这一切我已尽为你宣说,乃名为“自我之智的甘露”(ātma-vidyā)。
Verse 36
य एतच्छृणुयान्नित्यं मातॄणामुद्भवं शुभम् । तस्य ताः सर्वतो रक्षां कुर्वन्त्यनुदिनं नृप ॥ २७.३७ ॥
大王啊,凡恒常聆听这关于诸母神(Mātṛs)起源的吉祥叙述者,诸母神便日日从四方护佑此人。
Verse 37
यश्चैतत् पठते जन्म मातॄणां पुरुषोत्तम । स धन्यः सर्वदा लोके शिवलोकं च गच्छति ॥ २७.३८ ॥
又凡诵读此诸母神诞生之记者,噢,至上之人(Puruṣottama),其人在世恒被视为有福,并且亦得往至湿婆之界。
Verse 38
तासां च ब्रह्मणा दत्ता अष्टमी तिथिरुत्तमा । एताः सम्पूजयेद् भक्त्या बिल्वाहारो नरः सदा । तस्य ताः परितुष्टास्तु क्षेमारोग्यं ददन्ति च ॥ २७.३९ ॥
又为她们,梵天赐予第八月日(阿湿塔弥,aṣṭamī)为最上吉日。人应常以虔敬供奉诸母神,并以毕尔瓦(贝尔果)为食而自持。待她们对其完全欢喜时,亦赐安泰与无病之福。
Verse 39
इतरेऽप्यन्धकाः सर्वे चक्रेण परमेष्ठिना । नारायणेन निहतास्तत्र येऽन्ये समुत्थिताः ॥
其余一切安陀迦也都在彼处被那罗延——至上主宰——以神轮(cakra)所诛;凡另有起身来战者,亦同被歼灭。
The text frames cosmic conflict as a lesson in regulating inner causes of disorder: eight destabilizing dispositions (kāma, krodha, lobha, mada, moha, mātsarya, paiśunya, asūyā) are personified as Aṣṭamātṛkās. By naming and ritually acknowledging these forces, the narrative models a pedagogy in which self-governance and disciplined devotion support social stability and protection.
The chapter specifies Aṣṭamī tithi as the preferred lunar day granted by Brahmā for honoring the Mātṛkās. It also notes a discipline of bilvāhāra (bilva-based dietary observance) alongside regular worship, presenting a recurring calendrical-ritual marker rather than a seasonal (ṛtu) schedule.
Terrestrial balance is implied through the containment of uncontrolled proliferation and violence: Andhaka’s blood generating innumerable Andhakas symbolizes runaway excess that threatens ordered life. The narrative resolves this by coordinated divine action and by translating the crisis into an internal-ethical framework, suggesting that managing passions is analogous to preventing destabilizing overgrowth and conflict within the world.
The narrative references major cultural-theological figures rather than dynastic lineages: Brahmā (Pitāmaha), Śiva/Rudra (Śarva, Śaṃbhu), Viṣṇu (Janārdana, Nārāyaṇa), Nārada, Skanda (Kārtikeya), Indra and other lokapālas, as well as Pārvatī (Girisūtā). Andhaka is presented as a powerful daitya whose boon shapes the conflict.