
Ahaṅkāra-janmato Guha-Senāpatitvaṃ (Skandotpattiḥ)
Cosmogony-Theology (Sāṃkhya-influenced metaphysics) and Devotional Hymn (Stotra) with Ritual Observance
本章以野猪化身瓦拉哈(Varāha)与大地女神普利提维(Pṛthivī)的教诲式对话为框架,说明宇宙原理如何生出具身的能动性与社会秩序。普利提维询问我执(Ahaṅkāra)的起源,答以近似数论派(Sāṃkhya)的生成次第:由普鲁沙(Puruṣa)与未显(Avyakta)生出大智(Mahat),并被认作我执;此我执在功能上化为古诃/斯坎达(Guha/Skanda),担任“军帅/统帅”(senāpati)。叙事继而转入宇宙战事:诸天(deva)因缺乏统一领袖而求一位大将,先至梵天(Brahmā),后赴凯拉萨(Kailāsa)礼敬鲁陀罗/湿婆(Rudra/Śiva),以长篇赞颂(stotra)称其为诸元素之依止与宇宙诸职能之主。鲁陀罗放出光辉的童子神库玛罗(Kumāra,即斯坎达),赐予徽记与随从,并立其为统帅。章末附以历法与仪轨提示(Ṣaṣṭhī月日)及诵赞功德,贯通形上起源与群体安定,以及大地守护性的平衡。
Verse 1
प्रजापाल उवाच । अहंकारात् कथं जज्ञे कार्त्तिकेयो द्विजोत्तम । एतन्मे संशयं छिन्धि पृच्छतो वै महामुने ॥ २५.१ ॥
Prajāpāla说道:“噢,二生者中最胜者,迦尔蒂凯亚(Kārttikeya)如何从我执原理(ahaṃkāra)而生?大牟尼啊,请为我斩断此疑,我今正请问。”
Verse 2
महातपा उवाच । सर्वेषामेव तत्त्वानां यः परः पुरुषः स्मृतः । तस्मादव्यक्तमुत्पन्नं तत्त्वादि त्रिविधं तु तत् ॥ २५.२ ॥
摩诃多波说道:“至上的普鲁沙(Puruṣa)被忆念为超越一切诸原理(tattva)。由祂生起不显(Avyakta);而那以诸原理为始的根本范畴,被说为三重。”
Verse 3
पुरुषाव्यक्तयोर्मध्ये महत्त्वं समपद्यत । स चाहङ्कार इत्युक्तो यो महान् समुदाहृतः ॥ २५.३ ॥
在普鲁沙与不显(Avyakta)之间,生起“摩诃特”(Mahat)之原理;而此原理亦被称为“我慢”(ahaṃkāra),并被说为“大者”(Mahān)。
Verse 4
पुरुषो विष्णुरित्युक्तः शिवो वा नामतः स्मृतः । अव्यक्तं तु उमा देवी श्रीर्वा पद्मनिभेक्षणा ॥ २५.४ ॥
“普鲁沙”被说为毗湿奴(Viṣṇu),并且按名号亦被忆念为湿婆(Śiva)。而“不显”(Avyakta)则是女神乌玛(Umā),或是莲眼的吉祥天女室利(Śrī)。
Verse 5
तत्संयोगादहंकारः स च सेनापतिर्गुहः । तस्योत्पत्तिं प्रवक्ष्यामि शृणु राजन् महामते ॥ २५.५ ॥
由彼此的结合,生起阿含迦罗(ahaṃkāra,“我”之原理);并与之相应的是古诃(Guha),诸天军众的统帅。我将宣说其起源;大慧之王啊,请谛听。
Verse 6
आद्यो नारायणो देवस्तस्माद् ब्रह्मा ततोऽभवत् । अतः स्वयम्भुवश्चान्ये मरीच्याद्यार्कसम्भवाः ॥ २५.६ ॥
那罗延那(Nārāyaṇa)是最初的神祇;由祂而后生出梵天(Brahmā)。从此系谱又生出自生者(Svayambhuva,摩奴)及其他诸位——以摩利支(Marīci)为首——皆由阿尔迦(Arka,太阳)而生。
Verse 7
तेष्वारभ्य सुरा दैत्या गन्धर्वा मानुषाः खगाः । पशवः सर्वभूतानि सृष्टिरेषा प्रकीर्तिता ॥ २५.७ ॥
从他们开始,有诸天、代提耶、乾闼婆、人类、飞鸟、走兽,以及一切有情众生——此等造化如是被次第陈列。
Verse 8
सृष्ट्यां विस्तारितायां तु देवदैत्याः महाबलाः । सापत्न्यं भावमास्थाय युयुधुर्विजिगीषवः ॥ २५.८ ॥
当造化渐次扩展之时,具大力的诸天与代提耶怀抱敌对之心,为求征服而交战。
Verse 9
दैत्यानां बलिनः सन्ति नायका युद्धदुर्मदाः । हिरण्यकशिपुः पूर्वं हिरण्याक्षो महाबलः । विप्रचित्तिर्विचित्तिश्च भीमाक्षः क्रौञ्च एव च ॥ २५.९ ॥
在代提耶之中,有诸多强力统帅,临阵骄悍:首先是希兰尼亚迦湿布,其次是大力的希兰尼亚迦叉;又有毗钵罗质底、毗质底、怖摩迦叉与鸠兰遮。
Verse 10
एतेऽतिबलिनः शूरा देवसैन्यं महामृधे । अनारतं सितैर्बाणैर्जयन्तेऽनुदिनं मृधे ॥ २५.१० ॥
这些力大无比的英勇战士,在大决战中以其皎白明亮之箭,日复一日、不断压制并战胜诸天之军。
Verse 11
तेषां पराजयं दृष्ट्वा देवानां तु बृहस्पतिः । उवाच हीनं वः सैन्यं नायकेन विना सुराः ॥ २५.११ ॥
见诸天败退,天众之师布里哈斯帕提说道:“诸天啊,你们的军队有所缺失——因为没有统帅。”
Verse 12
एकेनेन्द्रेण दिव्यं तु सैन्यं पातुं न शक्यते । अतः सेनापतिं किञ्चिदन्वेषयत माचिरम् ॥ २५.१२ ॥
仅凭因陀罗一人,无法护持天界神军。故当速速寻求一位相称的统帅(senāpati)。
Verse 13
एवमुक्तास्ततो देवा जग्मुर्लोकपितामहम् । सेनापतिं च नो देहि वाक्यमूचुः ससम्भ्रमम् ॥ २५.१३ ॥
诸天闻此言后,便往世界之祖父——梵天处去,急切启言:“请赐予我等一位军队统帅。”
Verse 14
ततो दध्यौ चतुर्वक्त्रः किमेषां क्रियते मया । ब्रह्मा । अथ चिन्तयामास रुद्रं प्रति मनोगतम् ॥ २५.१४ ॥
于是四面梵天沉思:“我当为他们作何事?”随即梵天将心中所念,转向鲁陀罗(Rudra)。
Verse 15
ततो देवाः सगन्धर्वा ऋषयः सिद्धचारणाः । ब्रह्माणं पुरतः कृत्वा जग्मुः कैलासपर्वतम् ॥ २५.१५ ॥
随后诸神与乾闼婆同往,并偕诸仙(Ṛṣi)、成就者(Siddha)与歌咏者(Cāraṇa),奉梵天在前,前往迦罗娑山(Kailāsa)。
Verse 16
तत्र दृष्ट्वा महादेवं शिवं पशुपतिं विभुम् । तुष्टवुर्विविधैस्तोत्रैः शक्राद्यास्त्रिदिवौकसः ॥ २५.१६ ॥
在那里,他们见到大天神——湿婆、众生之主(Paśupati)、遍一切处的主宰;三天之众以释迦罗(因陀罗)为首,以种种赞颂之偈歌咏礼赞。
Verse 17
देवा ऊचुः । नमाम सर्वे शरणार्थिनो वयं महेश्वरं त्र्यम्बकभूतभावनम् । उमापते विश्वपते मरुत्पते जगत्पते शङ्कर पाहि नः स्वयम् ॥ २५.१७ ॥
诸天说道:“我们众皆顶礼,求归依于大自在天摩诃伊湿伐罗——三目者(Tryambaka),令众生兴盛者。噢,乌玛之夫,宇宙之主,摩鲁特之主,世界之主——噢,商羯罗(Śaṅkara),愿汝亲自护佑我等。”
Verse 18
जटाकलापाग्रशशाङ्कदीधिति-प्रकाशिताशेषजगत्त्रयामल । त्रिशूलपाणे पुरुषोत्तमाच्युत प्रपाहि दैत्याच्च जगत्त्रयोदरे ॥ २५.१८ ॥
噢,执三叉戟者——至上之人(Puruṣottama)、不堕者(Acyuta)!汝结发之顶为月辉所照,凭此光明使三界尽得清净;愿汝在这三界之胎藏之中,护我等免于魔族。
Verse 19
त्वमादिदेवः पुरुषोत्तमो हरिर्भवो महेशस्त्रिपुरान्तको विभुः । भगाक्षिहा दैत्यरिपुः पुरातनो वृषध्वजः पाहि सुरोत्तमोत्तम ॥ २५.१९ ॥
汝为本初之神;至上之人——哈利(Hari)、婆婆(Bhava)、大自在(Maheśa);以威力终结三城(Tripura)者;毁坏婆伽(Bhaga)之眼者;代提耶族的古老仇敌;以公牛为旗帜者。愿汝护佑我等,噢诸天之中最胜者。
Verse 20
गिरीशजानाथ गिरिप्रियाप्रिय प्रभो समस्तामरलोकपूजित । गणेश भूतेश शिवाक्षयाव्यय प्रपाहि नो दैत्यवरान्तकाच्युत ॥ २५.२० ॥
噢主宰——吉利沙(Śiva)之亲族,至尊之主,为山之女(Pārvatī)所爱亦所不爱者,受一切不死诸界所礼敬。噢伽内沙(Gaṇeśa),众生之主,吉祥的湿婆,不坏不衰者——愿汝护我等,噢不堕者(Acyuta),诛灭最强代提耶者。
Verse 21
पृथ्व्यादितत्त्वेषु भवान् प्रतिष्ठितो ध्वनिस्वरूपो गगने विशेषतः । वायौ द्विधा तेजसि च त्रिधा जले चतुः क्षितौ पञ्चगुणः प्रपाहि नः ॥ २५.२१ ॥
汝安住于以地为始的诸原理之中;尤在虚空,汝具“声”之自性。于风为二重,于火为三重,于水为四重,于地为五种德相——愿汝护佑我等。
Verse 22
अग्निस्वरूपोऽसि तरौ तथोपले सत्त्वस्वरूपोऽसि तथा जलेष्वपि । तेजःस्वरूपो भगवान् महेश्वरः प्रपाहि नो दैत्यगणार्दितान् हर ॥ २५.२२ ॥
你在木中为火之形,在石中亦复如是;你为生命精髓之形,乃至于水中亦然。噢吉祥的大自在天(Maheśvara),本性为光辉者——哈拉(Hara)啊,护佑我们这些被代提耶众魔所逼迫的人。
Verse 23
नासीद्यदा अकाण्डमिदं त्रिलोचन प्रभाकरेंद्रद्रविणाधिपाः कुतः । तदा भवान् एव विरुद्धलोचन प्रमाणबाधादिविवर्जितः स्थितः ॥ २५.२३ ॥
当此世界之显现全然未有之时,噢三眼者(Trilocana),那时太阳、因陀罗或财富之主又从何而来?彼时唯有你,噢具殊异之眼者,独自安住——超越一切由正量(有效认知手段)等所致的否定与障碍。
Verse 24
कपालमालिन् शशिखण्डशेखर श्मशानवासिन् सितभस्मगुण्ठित । फणीन्द्रसंवीततनॊऽन्तकापह प्रपाहि नो दक्षधिया सुरेश्वर ॥ २५.२४ ॥
噢佩戴骷髅花鬘者,额顶饰以月之弯分;居于火葬场,遍身覆以白灰;身躯为蛇王所缠绕;能除死神之怖畏者——噢诸天之主,请以正智明辨护佑我们。
Verse 25
भवान् पुमान् शक्तिरियं गिरेः सुता सर्वाङ्गरूपा भगवंस्तथा त्वयि । त्रिशूलरूपेण जगत्त्रयं करे स्थितं त्रिनेत्रेषु मखाग्नयस्त्रयः ॥ २५.२५ ॥
你是男性本原(Puruṣa);此为神力(Śakti),山之女,其形遍满一切肢分;同样地,噢世尊,她亦安住于你之中。以三叉戟之形,三界安置于你手;而在你三眼之中,建立着三种祭祀圣火。
Verse 26
जटास्वरूपेण समस्तसागराः कुलाचलाः सिन्धुवहाश्च सर्वशः । शशी परं ज्ञानमिदं तव स्थितं न देव पश्यन्ति कुदृष्टयो जनाः ॥ २५.२६ ॥
在你盘结的发髻(jaṭā)之形中,具足一切大海、诸山脉与诸河流之水道,遍于各方。噢天神(Deva),此至上之智安住于你;然而邪见之人却不能觉察。
Verse 27
नारायणस्त्वं जगतां समुद्भवस् तथा भवः सैव चतुर्मुखो भवान् । सत्त्वादिभेदेन तथाग्निभेदतो युगादिभेदेन च संस्थितस्त्रिधा ॥ २५.२७ ॥
你即那罗延那(Nārāyaṇa),诸世界由你而生;同样你亦是婆婆(Bhava,即湿婆Śiva),而你自身又是四面者(梵天Brahmā)。由于从萨埵(sattva)等三德(guṇa)的差别、火的种种分化,以及由诸劫期(yuga)等的区分,你以三重形态而安立。
Verse 28
भवन्तमेतॆ सुरनायकाः प्रभो भवार्थिनोऽन्यस्य वदन्ति तोषयन् । यतस्ततो नो भव भूतिभूषण प्रपाहि विश्वेश्वर रुद्र ते नमः ॥ २५.२८ ॥
主啊,这些天神的领袖为求安泰,只赞颂你而不赞颂他者,以求令你欢喜。因此,婆婆啊,以圣灰为庄严者,请以一切方式护佑我们;宇宙之主啊,鲁陀罗啊——向你顶礼。
Verse 29
महातपा उवाच । एवं स्तुतस्तदा देवो रुद्रः पशुपतिः सुरैः । उवाच देवानव्यग्रः किं कार्यं ब्रूत मा चिरम् ॥ २५.२९ ॥
摩诃多波说:当时,鲁陀罗神——畜主(Paśupati)——受诸天赞颂,心无扰动,对众神说道:“要做何事?速速告我,莫要迟延。”
Verse 30
देवा ऊचुः । सेनापतिं नो देवेश देहि दैत्यवधाय वै । देवानां ब्रह्ममुख्यानामेतदेव हितं भवेत् ॥ २५.३० ॥
众天神说道:“天神之主啊,请赐予我们一位统帅,以诛灭代底耶(Daitya)。对以梵天为首的诸神而言,唯此为利。”
Verse 31
रुद्र उवाच । ददामि सेनानाथं वो देवा भवत विज्वराः । भविष्य्यमस्ति पौराणं योगादीनामचिन्तयन् ॥ २५.३१ ॥
鲁陀罗说道:“我赐给你们军队之主;诸天啊,当离诸苦恼。未来将有一则《往世书》式的记述,在观修瑜伽及其相关法门之时,亦将述及此事。”
Verse 32
एवमुक्त्वा हरो देवान् विसृज्य स्वाङ्गसंस्थिताम् । शक्तिं संक्षोभयामास पुत्रहेतोः परंतप ॥ २५.३२ ॥
哈罗(湿婆)如是说罢,遣散诸天,继而为求得一子,激荡那安住于自身之内的圣力(Śakti)——噬敌者啊。
Verse 33
तस्य क्षोभयतः शक्तिं ज्वलनार्कसमप्रभः । कुमारः सहजां शक्तिं बिभ्रज्ज्ञानैकशालिनीम् ॥ २५.३३ ॥
当他激荡那股圣力之时,光辉如火如日的鸠摩罗(Kumāra)显现,怀持与生俱来的圣力(sahaja-Śakti),唯以智慧为其庄严。
Verse 34
उत्पत्तिस्तस्य राजेन्द्र बहुरूपा व्यवस्थिताः । मन्वन्तरेष्वनेकेषु देवसेनापतिः किल ॥ २५.३४ ॥
王中之王啊,他的出生被确立为多种形态;确然,在许多摩奴劫(Manvantara)中,他被称为诸天军队的统帅。
Verse 35
योऽसौ शरीरगो देवः अहंकार इति कीर्तितः । प्रयोजनवशाद् देवः सैव सेनापतिर्विभो ॥ २५.३५ ॥
那住于身中的神圣原理,被称为“我执”(ahaṃkāra)。由于其作用之故,伟力者啊,它确实充当诸根诸能的统帅(senāpati)。
Verse 36
तस्मिन् जाते स्वयं ब्रह्मा सर्वदैवैः समन्वितः । पूजयामास देवेशं शिवं पशुपतिं तदा ॥ २५.३६ ॥
当此事既成,梵天亲自偕同诸天,于彼时礼敬供奉诸天之主——湿婆,亦名“牧主”(Paśupati)。
Verse 37
सर्वैश्च देवै ऋषिभिश्च सिद्धैः सेनापतिर्वरदानेन तेन । आप्यायितः सोऽपि सुरानुवाच सखायार्थं क्रडने कार्यमेव ॥ २५.३७ ॥
因那赐福之恩,诸天、诸仙(ṛṣi)与诸成就者(siddha)皆加以礼敬,统帅因此更为充盛强健;随后他对诸天说道:“为友之故,此一竞戏之事,行动确当必行。”
Verse 38
श्रुत्वा वचस्तस्य महानुभावो महादेवो वाक्यमिदं जगाद । ददामि ते क्रीडनकं तु कुक्कुटं तथानुगौ शाखविशाखसंज्ञौ । कुमार भूतग्रहणायको भवान् भवस्व देवेश्वर सेनयापतिः ॥ २५.३८ ॥
闻其言,大心之摩诃提婆(Mahādeva)说道:“我赐你一件戏玩之物——一只雄鸡;并赐你二侍从,名为娑迦(Śākha)与毗娑迦(Viśākha)。噢,库玛罗(Kumāra),汝当为诸部众生(bhūta)之统领,并为天主之军队统帅。”
Verse 39
एवमुक्त्वा ततो देवः सर्वे देवाश्च पार्थिव । तुष्टुवुर्वाग्भिरिष्टाभिः स्कन्दं सेनापतिं तदा ॥ २५.३९ ॥
如是说已,随后那位神——并且诸天亦然,噢大王——当时以悦意而恭敬之辞赞颂军帅斯堪达(Skanda)。
Verse 40
देवा ऊचुः । भवस्व देवसेनानीर्महेश्वरसुत प्रभो । षण्मुख स्कन्द विश्वेश कुक्कुटध्वज पावके ॥ २५.४० ॥
诸天说道:“愿汝为天军之统帅,噢主宰——摩醯湿伐罗(Maheśvara)之子。噢六面者(Ṣaṇmukha)、斯堪达(Skanda)、宇宙之主、执雄鸡旗者,噢帕瓦卡(Pāvaka)。”
Verse 41
कम्पितारे कुमारेश स्कन्द बालग्रहानुग । जितारे क्रौञ्चविध्वंस कृत्तिकासुत मातृर्ज ॥ २५.४१ ॥
噢斯堪达(Skanda),库玛罗之主,令夺童之鬼灵随从震惧者;噢胜者,摧毁克劳恩恰(Kraun̄ca)者;噢克利提迦(Kṛttikā)之子,由诸母所生者——敬礼。
Verse 42
भूतग्रहपतिश्रेष्ठ पावकि प्रियदर्शन । महाभूतपतेः पुत्र त्रिलोचन नमोऽस्तु ते ॥ २५.४२ ॥
噢,众生与摄取之灵的至上主宰;噢,Pāvaki(火神之相),悦目可观;噢,大元素之主之子;噢,三目尊者——谨向您致敬。
Verse 43
एवं स्तुतस्तदा देवैर्ववर्ध भवानन्दनः । द्वादशादित्यसंकाशो बभूवाद्भुतदर्शनः । त्रैलोक्यमपि तत्तेजस्तापयामास पार्थिव ॥ २५.४३ ॥
当时诸天如此赞颂,Bhavānandana便增长壮大;其光辉如十二个太阳,成为奇妙的景象。大王啊,那光焰甚至灼热了三界。
Verse 44
प्रजापाल उवाच । कथं तं कृत्तिकापुत्रमुक्तवन्तः सुरं गुरुम् । कथं च पावकिरसौ कथं वा मातृनन्दनः ॥ २५.४४ ॥
Prajāpāla说道:“他们是如何称呼那位克利底迦之子、天界的导师的?他又为何被称为‘Pāvakir’?或又如何被称作‘母亲的欢喜’?”
Verse 45
महातपा उवाच । आदिमन्वन्तरे देव उत्पत्तिर्या मयोदिता । परोक्षदर्शिभिर्देवैरेवमेव स्तुतः प्रभुः ॥ २५.४५ ॥
Mahātapā说道:“噢,神明,在最初的摩奴劫中,我所陈述的起源之说——正是如此,那位主宰曾被诸天所赞颂;他们是能见超越直接感知之事的先见者。”
Verse 46
कृत्तिका पावकस्त्वन्यमातरो गिरिजा तथा । द्वितीयजन्मनि गुहस्यैते उत्पत्तिहेतवः ॥ २५.४६ ॥
Kṛttikā、火(Pāvaka)、其他诸母,以及同样的Girijā(Pārvatī)——这些便是Guha第二次诞生的因缘。
Verse 47
एवमेतत् तवाख्यातं पृच्छतः पार्थिवोत्तम । आत्मविद्यामृतं गुह्यमहङ्कारस्य सम्भवः ॥ २५.४७ ॥
如是,至上的王者啊,依你所问,已为你开示:自我之智的隐秘“甘露”——即我执(ahaṅkāra,阿汉迦罗)的生起之源。
Verse 48
स्वयं स्कन्दो महादेवः सर्वपापप्रणाशनः । तस्य षष्ठीं तिथिं प्रादादभिषेके पितामहः ॥ २५.४८ ॥
斯甘陀自身即是摩诃提婆,能摧灭一切罪业。于灌顶加冕(abhiṣeka)之时,毗多摩诃(始祖)赐予他第六月日(Ṣaṣṭhī,娑湿底)为其神圣的提提(tithi)。
Verse 49
एतां फलाशनो यस्तु क्षयेन्नियतमानसः । अपुत्रोऽपि लभेत् पुत्रानधनोऽपि धनं लभेत् । यं यमिच्छेत मनसा तं तं लभति मानवः ॥ २५.४९ ॥
然而,凡以调伏之心、以果实为食而圆满此戒行者——纵使无子亦可得子;纵使贫乏亦可得财。人于心中所愿者,皆能如愿获得。
Verse 50
यश्चैतत् पठति स्तोत्रं कार्त्तिकेयस्य मानवः । तस्य गेहे कुमाराणां क्षेमारोग्यं भविष्यति ॥ २५.५० ॥
凡诵读此颂赞迦尔蒂凯亚(Kārttikeya)之赞歌者,其家中孩童将得安泰吉祥,远离疾病。
The text presents a metaphysical rationale for ordered agency: Ahaṅkāra (as Mahat’s designation) becomes a functional principle of leadership embodied as Guha/Skanda. The narrative uses the deva–daitya conflict to argue that collective protection and stability require legitimate command and disciplined organization, linking cosmic ontology to governance and social order.
The chapter specifies Ṣaṣṭhī tithi as the calendrical marker associated with Skanda’s abhiṣeka (anointment), and it recommends observance connected with that tithi; it also states benefits for reciting the Kārttikeya stotra.
Although not framed as explicit environmental regulation, the chapter models ‘Earth-balance’ through cosmic and political order: devas seek a senāpati to end destabilizing conflict, and Rudra’s manifestation of Skanda restores equilibrium across the worlds. This can be read as an early ecological-ethical motif where terrestrial stability depends on disciplined leadership, restraint, and the re-establishment of harmonious cosmic functions.
The narrative references Nārāyaṇa, Brahmā (Svayambhū), Rudra/Śiva, Bṛhaspati, and creation-line figures such as Marīci; it also names prominent daityas including Hiraṇyakaśipu, Hiraṇyākṣa, Vipracitti, Vicitti, Bhīmākṣa, and Krauñca, situating the episode within mythic genealogies and leadership paradigms.