
Gokarṇeśvara-māhātmya (Nandīśvara-varapradāna)
Tīrtha-māhātmya / Sacred Geography and Devotional-Austerity Narrative
本章以《瓦罗诃往世书》对话式教诲为框架(瓦罗诃向大地女神Pṛthivī开示),内嵌一段问答:圣童Sanatkumāra询问梵天Brahmā北、南两处Gokarṇa的来历,圣域kṣetra的范围,诸圣泉tīrtha的功德果报,以及为何主宰Paśupati在此以鹿形mṛga-rūpa示现。梵天遂描绘圣境:曼陀罗山Mandara以北的Muñjavān峰,泉涌林茂、鸟鸣不绝,并有天界临在,是修法之“法林”与苦行圣地tapo-kṣetra;湿婆Śiva(Sthāṇu)与雪山神女Pārvatī及随从恒常驻此。随后叙述难陀Nandin严峻的苦行tapas与仪轨供奉,终至湿婆显现、受赞颂偈,并赐予殊胜恩典——尤以坚定不移的奉爱bhakti与无障碍的苦行修持为要——使Nandin升为Nandīśvara,成为湿婆首席gaṇa并守护南门。
Verse 1
अथ गोकरणेश्वरमाहात्म्यम् ॥ सूत उवाच ॥ पुरा देवैर्विनिहते संग्रामे तारकामये ॥ अत्युच्छ्रिते प्रतिबले दानवानां बले तथा
今(开始)宣说“戈迦耳涅湿伐罗”(Gokarṇeśvara)之圣迹(Māhātmya)。苏多(Sūta)曰:往昔,在与塔罗迦(Tāraka)相关的战争中,诸天被击败,而达那婆(Dānava)之力极度高涨,强盛可畏——
Verse 2
सहस्राक्षे लब्धपदे क्षीणशत्रौ गतास्पदे ॥ सम्यक्प्रसूति मापन्ने त्रैलोक्ये सचराचरे
当千眼者(因陀罗)重获其位——敌势衰减、根基稳固——并且三界连同一切动与不动之众,皆已如法回归于有序的生起与安定之时,
Verse 3
शृङ्गे चैवाचलेन्द्रस्य मेरोः सर्वहिरण्यये ॥ मणिविद्रुमविद्धे च विपुले पङ्कजासने
——在山中王者须弥(Meru)那通体金辉的峰顶——于一广大莲座之上,镶嵌宝珠与珊瑚,
Verse 4
सुखोपविष्टमेकाग्रं स्थिरचित्तं कृतिक्शणम् ॥ निवृत्तकार्यं मुदितं सूर्यवैश्वानरद्युतिम्
安乐而坐,心一境性,意念坚住,目光圆满;诸事已毕,安然欢悦,光辉如日,亦如内火毗舍婆那罗(Vaiśvānara)。
Verse 5
प्रणम्य मूर्ध्ना चरणावुपगृह्य समाहितः ॥ ब्रह्माणं परिपप्रच्छ कुमारो नतिपूर्वकः
他俯首顶礼,恭敬抱持其足,心神摄持;那位年轻的圣者以应有的敬礼,详尽地请问梵天(Brahmā)。
Verse 6
सनत्कुमार उवाच ॥ भगवञ्छ्रोतुमिच्छामि पुराणमृषिसंस्तुतम् ॥ पुराणं तु महाभाग त्वत्तस्तत्त्वविदां वर
萨那特库玛罗(Sanatkumāra)说道:“世尊,我愿聆听诸仙所称赞的《往世书》(Purāṇa)——确然愿从您处听闻此《往世书》,吉祥者啊,您乃诸真知者之最胜。”
Verse 7
कथमुत्तर गोकर्णं दक्षिणं च कथं विभो ॥ शृङ्गेश्वरस्य परमं कथं सम्यक्प्रतिष्ठितम्
“大神啊,Gokarṇa如何被理解为北方之地,又如何为南方之地?而Śṛṅgeśvara至上的圣座又是如何如法安立的?”
Verse 8
क्षेत्रस्य कि प्रमाणं स्यात्किञ्च तीर्थफलं स्मृतम् ॥ कथं पशुपतिस्तत्र भगवान्मृगरूपधृक्
“此圣域(kṣetra)的尺度与范围为何?所记载的圣渡处(tīrtha)之功德果报为何?而主宰帕舒帕提——世尊(Bhagavān)——又如何在彼处示现为鹿形?”
Verse 9
सर्वैस्त्वत्प्रमुखैर्देवैः कथमासादितं पुनः ॥ मृगरूपं कथं चास्य शरीरं क्व प्रतिष्ठितम्
“又是如何由诸神在你为首之下再度前往、得以亲近的?而他这鹿形如何出现?那具身躯又安立于何处?”
Verse 10
एवमुक्तः स भगवान्ब्रह्मा ब्रह्मविदां वरः ॥ उवाच तस्मै पुत्राय गुह्यमेतत्पुरातनम्
如是被问,那位可敬的梵天(Brahmā)——诸梵知者中最胜者——便对其子宣说这古老而秘要的教诲。
Verse 11
ब्रह्मोवाच ॥ शृणु वत्स महाभाग यथातत्त्वं ब्रवीमि ते ॥ पुराणमेतद्बह्मर्षे सरहस्यं यथाश्रुतम्
梵天说道:“听着,孩子,福德具足者;我将如实为你宣说。此《普罗那》(Purāṇa),噢婆罗门圣仙(brahmarṣi),连同其秘义,我将依传闻所闻而叙述。”
Verse 12
अस्ति भूधरराजस्य मन्दरस्योत्तरे शुचौ ॥ मुञ्जवान्नाम शिखरो नन्दनोपवनद्युतिः ॥
在群山之王曼陀罗(Mandara)之北的清净之地,有一座名为“穆恩阇梵”(Muñjavān)的山峰,光辉灿然,如天界的难陀那园林。
Verse 13
वज्रस्फटिकपाषाणः प्रवालाङ्कुरशर्क्करः ॥ नीलामलशिलावर्णो गुहानिर्झरकन्दरः ॥
其岩石如金刚与水晶;其砂砾如珊瑚新芽。通体呈无垢青蓝之石色,遍布洞窟、飞瀑与深谷。
Verse 14
विचित्रकुसुमोपेतैर्लतामञ्जीरधारिभिः ॥ रेजे यः प्रांशुभिः शृङ्गैरुल्लिखद्भिरिवाम्बरम् ॥
缀以藤蔓,藤上垂挂由繁花织成的“铃环”,它熠熠生辉;其高耸诸峰仿佛在划触苍穹。
Verse 15
दार्यस्तत्राधिकं रेजुर्नानाधातुपरिस्रवैः ॥ शिलीन्ध्रकुसुमोपेताश्चित्रिता इव सर्वतः ॥
在那里,裂隙与峡谷因多彩矿液的细流而愈加辉映;四方宛如彩绘,并点缀着室林陀罗(śilīndhra)之花。
Verse 16
तेऽत्र केतकि खण्डाश्च कुन्दखण्डाश्च पुष्पिताः ॥ उन्मीलिता इवाभान्ति धातकीवनराजिभिः ॥
此处,计多迦(ketakī)丛与军陀(kunda)丛正盛开;与一带带檀多迦(dhātakī)林相映,宛如新启初绽。
Verse 17
भिन्नेन्द्रनीलविमलैर्धौतैः प्रस्रवणाम्बुभिः ॥ चित्रैः कुसुमसंच्छन्नैः शिलाप्रस्तरविस्तरैः ॥
被泉水清澈之流洗涤——洁净如裂开的蓝宝石——那里铺展着宽广的石质台地,色彩斑斓,遍覆花丛。
Verse 18
शक्रचापनिभै रम्यैः कुबेरभवनद्युतौ ॥ तस्मिन्नगवरे रम्ये महोरगनिषेविते ॥
美丽如因陀罗之虹,辉耀如俱毗罗之宫;在那可喜的胜妙高山上,常有大蛇出没往来。
Verse 19
कल्हारकुसुमोपेते हंससारससेविते ॥ प्रसन्नसलिलाकीर्णे सरोभिः फुल्लपङ्कजैः ॥
诸湖以睡莲(kalhāra)之花为饰,天鹅与鹤常来栖息;清澈之水充盈其间,莲华盛放。
Verse 20
गजयूथानुकीर्णाभिर्जुष्टाभिर्मृगपक्षिभिः ॥ सेविताभिर्मुनिगणैः सरिद्भिरुपशोभिते ॥
群山因诸河而更显庄严;象群成队遍布其间,鹿与飞鸟栖居;又有诸牟尼圣贤结众来访,使之增辉。
Verse 21
किन्नरोद्गीतकुहरे परपुष्टनिनादिते ॥ विद्याधरशताकीर्णे देवगन्धर्वसेविते ॥
其洞窟回响着紧那罗的歌声,又鸣彻着帕拉普什塔鸟的啼叫;百千持明者(Vidyādhara)云集其间,诸天与乾闼婆亦常来游止。
Verse 22
धारापातैश्च तोयानां विस्फुलिङ्गैः सहस्रशः ।। प्रज्वालितेऽतुले शृङ्गे रम्ये हरितशाद्वले
在水流如注与千百火星飞溅之间,于那无比的山巅——虽炽燃却怡人——青翠葱茏,铺满新鲜绿草。
Verse 23
सर्वर्तुकवनोद्यानें पुष्पाकरसुशोभिते ।। यज्ञकिम्पुरुषावासे गुह्यकानामथाश्रये
在四时常青的林苑之中,花海灿然庄严——被视为诸祭祀(yajña)与金普鲁沙(Kimpuruṣa)之居处,亦为古希亚迦(Guhyaka)之庇护所。
Verse 24
तस्मिङ्गिरिवरे रम्ये सेवितव्ये सुशोभने ।। धर्मारण्ये तपःक्षेत्रे मुनिसिद्धनिषेविते
在那胜妙之山——可爱、庄严、堪为所依——于“法之林”(Dharma-araṇya)中,乃修苦行(tapas)之地,常为牟尼与成就者所往来。
Verse 25
वरदस्तत्र भगवान्स्थाणुर्नाम महेश्वरः ।। सर्वामरगुरुर्देवो नित्यं सन्निहितः प्रभुः
彼处,赐愿之主在焉——名为娑他努(Sthāṇu)的大自在天(Maheśvara)——为一切不死众之师,恒常现前,作至上之主宰。
Verse 26
भक्तानुकम्पी स श्रीमान्गिरीन्द्रसुतया सह ।। स ह्यध्यास्ते गिरिवरं पार्षदैश्च गुहेन च
彼尊者怜悯信众,光辉庄严,居于胜妙之山,与山王之女同在,并与诸眷属侍从——亦与古诃(Guha)同居。
Verse 27
विमानयायिनः सर्वे तं देवमजमव्ययम् ।। आजग्मुः सेवितुं देवा वरेण्यमजमव्ययम्
一切乘天车而行者——诸天——前来礼拜那位神祇:不生不灭者,最堪敬奉者,不生不灭者。
Verse 28
आरिराधयिषुः शर्वं तपस्तेपे सुदारुणम् ।। ग्रीष्मे पञ्चतपास्तिष्ठेच्छिशिरे सलिलाश्रयः
为求取悦于舍尔瓦(Śarva),他修行极其严酷的苦行:夏季奉行“五火”之法;冬季则依止于水中。
Verse 29
ऊर्ध्वबाहुर्निरालम्बस्तोया-अनिलहुताशनैः ।। व्रतैश्च विविधैरुग्रैस्तपोभिर्नियमैस्तथा
他高举双臂,无所倚靠,忍受水、风与火;又以种种严厉的誓愿、苦行与戒律般的持守而修炼。
Verse 30
जपपुष्पोपहारैश्च कालेकाले मुनिः सदा ।। शङ्करं विधिवद्भक्त्या सोऽर्च्चयद्द्विजपुङ्गवः
又以诵念与献花之供养——于适当之时,恒常不辍——这位圣贤、卓越的婆罗门,依仪轨以虔敬礼拜商羯罗(Śaṅkara)。
Verse 31
उग्रेण तपसात्मानं योजयामास सुव्रतः ।। काष्ठभूतो यदा विप्रः कृशो धर्मसुसन्ततः
这位善守誓戒者使自身投入猛烈的苦行;当那婆罗门仿佛化作枯木——形体消瘦,而于达摩中无间恒续——(叙事遂续)。
Verse 32
क्षामोऽभूत्कृष्णवर्णश्च ततः प्रीतश्च शङ्करः ॥ सम्यगाराधितो भक्त्या नियमेन च तोषितः ॥
他变得消瘦、肤色黝黑;于是商羯罗(Śaṅkara)欢喜。以虔敬如法供奉,并以严谨的戒行与仪轨令其满足,他便心满意足。
Verse 33
तदात्मदर्शनं प्रादात्स मुनेर्वृषभध्वजः ॥ उक्तवांश्च मुनिं शर्वश्चक्षुर्दिव्यं ददामि ते ॥
随后,牛旗者(Vṛṣabhadhvaja,即湿婆)赐予那位牟尼得见其自身之相;而舍婆(Śarva)对牟尼说:“我赐你天眼,令你具足神圣之见。”
Verse 34
अदृश्यं पश्य मे रूपं वत्स प्रीतोऽस्मि ते मुने ॥ यत्पश्यन्तीह विद्वांसो रूपमप्रतिमौजसम् ॥
“孩子啊,观我之形——此形本不可见;牟尼啊,我悦于汝:此乃无比威力之相,智者于此得以观见。”
Verse 35
सहस्रसूर्यकिरणं ज्वालामालिनमूर्जितम् ॥ बालार्कमण्डलाकारं प्रभामण्डलमण्डितम् ॥
其光如千日之辉,威力充盛,火焰成鬘环绕;形若初升之日轮,周身饰以光明之轮。
Verse 36
जटाजूटतटाश्लिष्टं चन्द्रालङ्कृतशेखरम् ॥ जगदालोचनं श्रीमत्प्रदीप्तस्वत्रिलोचनम् ॥
其顶髻以明月为饰,纠结的发髻簇拥相贴;他是吉祥的“世间之眼”,自身三目炽然照耀。
Verse 37
अणीयसामणीयांसं बृहतां तु बृहत्तरम् ॥ अक्षामालापवित्राङ्गं कमण्डलुकरोद्यम् ॥
他比最微者更微,比至大者更大;其身具念珠与圣线,举手执持水罐(kamaṇḍalu)。
Verse 38
सिंहचर्माम्बरधरं व्यालयज्ञोपवीतिनम् ॥ दृष्ट्वा देवं महादेवं हृष्टरोमा महातपाः ॥
他以狮皮为衣,以蛇为圣线;见到那位神、伟大的神(摩诃提婆)时,大苦行者欢喜得毛发竖立。
Verse 39
प्राञ्जलिः प्रणतो भूत्वाऽगृणाद्ब्रह्म सनातनम् ॥ नमो धात्रे विधात्रे च संभवे वरदाय च ॥
他合掌俯首,赞颂永恒的梵(Brahman)曰:“礼敬维持者与制定者;礼敬三婆婆(Saṃbhava)与赐福者。”
Verse 40
जगद्भोक्त्रे त्रिनेत्राय शङ्कराय शिवाय च ॥ भवाय भवगोप्त्रे च मुनये कृतिवाससे ॥
“礼敬世间之主,三目者,商羯罗(Śaṅkara)与湿婆(Śiva);礼敬婆伐(Bhava)与众生的护持者;礼敬牟尼、披皮衣者(Kṛttivāsas)。”
Verse 41
नीलकण्ठाय भीमाय भूतभव्यभवाय च ॥ लम्बभ्रुवे करालाय हरिनेत्राय मीढुषे ॥
“礼敬青喉者,威怖者;礼敬过去、未来与现在之主;礼敬长眉、可畏者;礼敬黄褐眼者,慈惠的施与者(Mīḍhuṣ)。”
Verse 42
कपर्दिने विशालाय मुञ्जकेशाय धीमते ॥ शूलिने पशुपतये विभवे स्थाणवे तथा
礼敬结发者、广大者、智慧者,其发如芒草(muñja);礼敬持三叉戟者、众生之主帕舒帕提(Paśupati)、威能者,亦礼敬坚住不动者斯塔努(Sthāṇu)。
Verse 43
गणानां पतये स्रष्ट्रे संक्षेप्त्रे भीषणाय च ॥ सौम्याय सौम्यतपसे भीमाय त्र्यम्बकाय च
礼敬众神侍从(gaṇa)之主、造化者、摄聚凝合者、可怖者;礼敬温和者、温和之苦行力(tapas)、可畏者,以及三目者特里扬巴卡(Tryambaka)。
Verse 44
प्रेतावासनिवासाय रुद्राय वरदाय च ॥ कपालमालिने तस्मै हरिश्मश्रुधराय च
礼敬居于鬼神之地(火葬场)者,礼敬鲁陀罗(Rudra)与赐福者;礼敬佩戴骷髅鬘者,亦礼敬须髭呈黄褐色(hari)者。
Verse 45
भक्तप्रियाय सततं नमोऽस्तु परमात्मने ॥ एवं नन्दी भवं स्तुत्वा नमस्कृत्य च सर्वशः
恒常礼敬为信众所爱之至上自性。于是难提(Nandī)赞颂婆伐(Bhava,即湿婆Śiva)后,以诸般方式顶礼,继而前行。
Verse 46
उवाच च वचः साक्षात्तमृषिं वरदः प्रभुः ॥ वरान्वृणीष्व विप्रेन्द्र यानिच्छसि महामुने
于是赐愿的主亲自对那位仙人说道:“婆罗门中最胜者啊,请选择恩赐;大牟尼啊,凡你所愿,皆可求取。”
Verse 47
तांस्ते सर्वान्प्रयच्छामि दुर्ल्लभानपि मारिष ॥ प्रभुत्वममरत्वं वा शक्रत्वमपि वा प्रभो
我赐予你这一切恩赐,即便是难得之物,尊者啊——主宰之权,或不死之身,乃至成为释迦罗(因陀罗)之位,尊贵的主啊。
Verse 48
ब्रह्मत्वं लोकपालत्वमपवर्गमथापि वा ॥ अथाष्टगुणमैश्वर्यं गाणपत्यामथापि वा
或为梵天之位,或为护世者之职;乃至 apavarga——究竟解脱。或具八德之自在主权,或为伽那之主——伽那波提之位。
Verse 49
यदिच्छसि मुने शीघ्रं तद्ब्रूहि द्विजपुङ्गव ॥ इत्युक्तोऽसौ भगवता शर्वेण मुनिपुङ्गवः
“圣仙啊,凡你所愿,速速道来;二次生者之最胜者啊。”蒙福的舍婆(湿婆)如是言毕,那位诸仙之最胜便作答。
Verse 50
प्रोवाच वरदं देवं प्रहृष्टेनान्तरात्मना ॥ न प्रभुत्वं न देवत्वं नेन्द्रत्वमपि वा प्रभो
他内心欢悦,向赐福之神说道:“尊主啊,我不求主宰之权,不求天神之身,亦不求因陀罗之位。”
Verse 51
ब्रह्मत्वं लोकपालत्वं नापवर्गं वरप्रद ॥ नैवाष्टगुणमैश्वर्यं गाणपत्यं न च प्रभो
“赐福者啊,我不求梵天之位,不求护世者之职,亦不求 apavarga——究竟解脱;尊主啊,我也不求具八德之自在主权,亦不求伽那波提之位。”
Verse 52
स्पृहये देवदेवेश प्रसन्ने त्वयि शङ्कर ॥ यदि प्रीतोऽसि भगवन्ननुक्रोशतया मम
噢诸神之主,噢商羯罗——既然你已慈然欢喜——若你已满足,噢吉祥尊者,愿你以悲悯垂顾于我……
Verse 53
अनुग्राह्यो ह्ययं देव त्वयावश्यं सुराधिप ॥ यथान्ये न भवेद्भक्तिस्त्वत्तो नित्यं महेश्वर
此人啊,神圣者,确应由你赐予恩宠,噢诸天之主;愿其信爱不从他处生起,而恒常唯从你而来,噢大自在天(Maheśvara)。
Verse 54
तथाहं भक्तिमिच्छामि सर्वभूताशये त्वयि ॥ यथा च न भवेद्विघ्नं तपस्यानिरतस्य मे
同样,我愿得对你的信爱——你住于一切众生之心;并愿我这专注苦行(tapas)的修持者,不遭任何障碍。
Verse 55
प्रहस्योवाच तं प्रीत्या ततो मधुरया गिरा ॥ प्रीतोऽस्म्युत्तिष्ठ विप्रर्षे तप्यमानेन सुव्रत
他含笑而慈爱地对他说,继而以柔和之声道:“我已欢喜。起身吧,婆罗门圣仙;善誓者啊,你已修成苦行。”
Verse 56
आराधितश्च भक्त्याहं त्वया शुद्धेन चेतसा ॥ पर्याप्तं ते महाभाग तपः कर्तुं तपोधन
你以清净之心、以信爱如法供奉了我。足矣,噢有福者——噢苦行之宝(tapas-dhana)——不必再行更多苦修。
Verse 57
निवर्त्तयति मां वत्स मत्पादाराधने रतः ॥ जप्ता ते त्रिगुणा कोटि रुद्राणां पुरतो मम
“亲爱的孩子,你专心礼敬我足下,仿佛使我回心转意。在我面前,你已诵念三重一俱胝的鲁陀罗(即鲁陀罗名号/真言之诵)。”
Verse 58
पूर्णं वर्षसहस्रं च तपस्तीव्रं महामुने ॥ न कृतं यत्पुरा देवैर्नासुरैरृषिभिर्न च
“整整一千年啊,大牟尼,你修行了极其严峻的苦行(tapas);往昔诸天未曾如此,阿修罗亦未曾如此,诸仙圣亦未曾如此。”
Verse 59
कृतं सुमहदाश्चर्यं त्वया कर्म सुदुष्करम् ॥ सङ्क्षोभितमिदं सर्वं त्रैलोक्यं सचराचरम्
“你已成就极大的奇迹,完成了至难之业。此三界一切,含动与不动,尽皆被搅动震撼(由你的苦行所致)。”
Verse 60
आगमिष्यन्ति ते द्रष्टुं देवाः सर्वे सवासवाः ॥ अक्षयश्चाव्ययश्च त्वमतर्क्यः ससुरासुरैः
“诸天众神将与婆娑婆(因陀罗)一同前来瞻见你。你不坏不朽、无衰无变;即使对诸天与阿修罗而言,你亦超越思量。”
Verse 61
दिव्यतेजोवपुः श्रीमान्दिव्याभरणभूषितः ॥ मत्तुल्यो मत्प्रभावश्च त्वमेकः ससुरासुरैः
“你具足神圣光辉之身,吉祥庄严,并以天界宝饰为严;在诸天与阿修罗之中,唯你一人与我等同,亦具我之威力。”
Verse 62
मद्रूपधारी मत्तेजास्त्र्यक्षः सर्वगुणोत्तमः ॥ भविष्यसि न सन्देहो देवदानवपूजितः ॥
你将承载我的本来形相,具足我的光辉,三目具现,诸德最胜;毫无疑虑,你必将如是成就,并为诸天与达那婆同所敬奉。
Verse 63
अनेनैव शरीरेण जरामरणवर्जितः ॥ दुष्प्राप्येयमवाप्ता ते देवैर्गाणेश्वरी गतिः ॥
以此同一之身,远离衰老与死亡,你已证得“伽涅湿婆梨”之境;此成就连诸天亦难得。
Verse 64
प्राप्तमष्टगुणं सत्यमैश्वर्यं ते तपोधन ॥ द्वितीयां मे तनुं त्वां तु नमस्यन्ति च देवताः ॥
苦行之财(tapodhana)啊,诚然你已得八种圆满的自在威德;而作为我的第二身,连诸神也向你顶礼。
Verse 65
अद्यप्रभृति देवाग्र्य देवकार्येषु सर्वतः ॥ प्रभुस्त्वं भविता लोके मत्प्रसादान्मुनीश्वर ॥
自今日起,诸天之最胜者啊,于一切天界事务、遍于诸方,你将在世间成为主宰之权威;这是因我恩赐,牟尼之主。
Verse 66
त्वामेवाभ्यर्च्छयिष्यन्ति सर्वभूतानि सर्वतः ॥ मत्तः समभिवाञ्छन्ति प्रसादं पार्षदाधिप ॥
一切众生于诸方之处,唯独礼拜于你;并将从我处祈求赐恩于你,侍从众之主啊。
Verse 67
वरान्वरार्थिनां दाता विधाता जगतः सदा ॥ भविष्यसि च धर्मज्ञ भीतानामभयप्रदः ॥
你将成为向求愿者赐予恩赐者,恒常维系世界秩序者;又,噢通达达摩者,你将赐予惶惧之人以无畏。
Verse 68
यस्त्वां द्वेष्टि स मां द्वेष्टि यस्त्वामनु स मामनु ॥ नावयोरन्तरं किञ्चिदम्बरानिलयोरिव ॥
凡憎恨你者,即憎恨我;凡随从你者,即随从我。你我之间毫无差别,犹如虚空与风。
Verse 69
द्वारे तु दक्षिणे नित्यं त्वया स्थेयं गणाधिप ॥ वामे तु विभुना चापि महाकालेन सर्वदा ॥
在南门处你应当恒常守立,噢众伽那之主;而在左侧亦常有大能的摩诃迦罗(Mahākāla)驻守。
Verse 70
प्रतीहारो भवानद्य सर्वदा त्रिदशोत्तमः ॥ शिरो मे रक्षतु भवान्महाकालेऽपि मे गणः ॥
自今日起,你恒为我的门卫,噢三十天神中最胜者。愿你护持我的头顶;愿我的伽那即使在大劫危难之时(mahākāla)也护我周全。
Verse 71
न वज्रेण न दण्डेन न चक्रेण न चाग्निना ॥ काञ्चिच्छक्नोति वै बाधां कर्तुं वै भुवनत्रये ॥
无论以金刚雷霆、以杖、以轮、或以火,任何人都不能在三界之中对其造成丝毫伤害。
Verse 72
देवदानवगन्धर्वा यक्षराक्षसपन्नगाः ॥ त्वामेव संश्रयिष्यन्ति मद्भक्ताः पुरुषाश्च ये ॥
诸天、达那婆、乾闼婆、夜叉、罗刹与那伽——一切此类众生——都将唯独依止于你;同样,那些虔诚奉我之人亦将归依于你。
Verse 73
एवं तस्मै वरान् दत्त्वा प्रीतः स्वयमुमापतिः ॥ उवाच भूयः स्पष्टेन स्वरेणाम्बरचारिणा ॥
于是,亲自赐予他诸般恩赐后,乌玛之主(Umāpati)心甚欢喜,又以清澈之声再度开口,其音回荡于苍穹之中。
Verse 74
आगतान् विद्धि सर्वान्वै त्रिदशान् समरुद्गणान् ॥ दिदृक्षया च भद्रं ते कृतकृत्यश्च साम्प्रतम् ॥
当知一切诸神——三十天众,连同摩鲁特诸军——皆已到来;他们为欲见你而来。愿你吉祥;如今你已成就所当成就者。
Verse 75
यदीरितं मया वत्स वरं प्रतिवचस्त्वयि ॥ प्रविष्टं न श्रुतिपथं दिवि सर्वदिवौकसाम् ॥
我为答复于你而宣说的那项恩赐,爱子啊,尚未传入天界诸天居者的听闻之境。
Verse 76
नारायणं पुरस्कृत्य सेन्द्रास्ते समरुद्गणाः ॥ प्रेमार्थे चागमिष्यन्ति वरार्थं तपसा अमराः ॥
以那罗延(Nārāyaṇa)为先导,那些诸神——连同因陀罗与摩鲁特诸军——将因爱敬而来;并且作为不死者,为以苦行(tapas)求得恩赐而来。
Verse 77
यक्षविद्याधरगणाः सिद्धगन्धर्वपन्नगाः ॥ मुनयश्च महात्मानस्तपोलब्धाः सहस्रशः ॥
在此有夜叉与持明众、成就者、乾闼婆与那伽之群;又有成千上万的大心圣贤牟尼,以苦行之力而得圆满。
Verse 78
ते बुद्ध्वा त्वद्गतामृद्धिं प्रतप्ताः परमर्ष्यया ॥ तपांसि विविधान्यत्र विविधान्नियमांस्तथा ॥
他们得知你所获之昌盛,便因极深的嫉妒而心火炽然;于是就在此修行种种苦行,并行种种戒律与约束。
Verse 79
चर्तुं समभिवाञ्छन्ति सदाभ्यासे वरार्थिनः ॥ वरदं यामभिज्ञाय गिरौ मौञ्जवति स्थितम् ॥
为求赐福,他们愿恒常修习不辍;既知赐愿者安住于名为牟阇伐特(Mauñjavat)之山,便启程趋向于彼。
Verse 80
अत्रैते यावदागम्य न मां पश्यन्ति मानवाः ॥ तावदेव त्वितः शीघ्रं गमिष्यामि महामुने ॥
只要这些人来到此处尚未见到我,我便同样久留;随后我将从此迅速离去,噢大圣牟尼。
Verse 81
अद्य ते तु मया सर्वे देवा ब्रह्मपुरोगमाः ॥ द्रष्टव्याश्चानुमन्तव्या मत्तोऽनुग्रहकाङ्क्षिणः ॥
然而今日,一切诸天——以梵天为首——当由你得见,并当予以允可告退;因为他们希求从我处获得恩泽。
Verse 82
यथा यत्र च यस्तत्र विधिः सम्यगनुष्ठितः ॥ तत्सर्वं निखिलेनाशु ब्रूहि मे वाग्विदां वर ॥
在那里,规定的仪轨如何、在何处、由何人如法圆满奉行——请你将这一切完整而迅速地告诉我,噢,言辞学者中最卓越者。
Verse 83
क्रीडद्भिर्देवमिथुनैर्नृत्यद्भिश्चाप्सरोगणैः ॥ कूजद्भिः शिखिभिर्मत्तैः सेविते च नगोत्तमे ॥
在那座最胜之山上,有嬉戏的天界双侣相伴,有成群的阿普萨拉斯起舞侍从,又有醉态的孔雀啼鸣回响。
Verse 84
अन्ये देवनिकायाश्च सेवितुं प्रपतन्ति तम् ॥ ततस्त्रेतायुगे काले नन्दी नाम महामुनिः ॥
其他诸天的众部也急速赶来侍奉他。其后,在特雷塔纪之时,有一位名为难提(Nandī)的伟大牟尼。
Verse 85
प्रादेशमात्रं रुचिरं शतशीर्षं शतोदरम् ॥ सहस्रबाहुचरणं सहस्राक्षिशिरोमुखम् ॥
(他看见)一具光辉之形,约一拃之量,具百首百腹;又有千臂千足,并具千眼、千首与千面。
Verse 86
प्रणम्य शिरसा देवं पुनः पुनरवन्दत ॥ ततस्तु भगवान्प्रीतस्तस्मै विप्राय शंकरः ॥
他俯首顶礼,对神明一再致敬。于是,蒙福的圣者商羯罗(Śaṅkara)心生欢喜,便向那位婆罗门施以恩泽。
Verse 87
कोटिजप्येन रुद्राणामाराधनपरस्य च ॥ एतत्तु वचनं श्रुत्वा नन्दिनः स महेश्वरः ॥
又因他专心以反复持诵(多至一千万遍)来奉事诸鲁陀罗。大自在天(摩诃湿伐罗)听闻关于难提的这番话后,便作出回应……
Verse 88
पार्षदानां वरिष्ठस्त्वं मामकानां द्विजोत्तम ॥ नन्दीश्वर इति ख्यातो भविष्यसि न संशयः ॥
你是我诸侍从之中最为卓越者,噢,最胜的两次生者。你必将以“难提湿伐罗(Nandīśvara)”之名著称;对此毫无疑虑。
Verse 89
त्वयि तुष्टे ह्यहं तुष्टः कुपिते कुपितस्त्वहम् ॥ त्वत्तः प्रियतरो नास्ति ममान्यो द्विजपुंगव ॥
你若欢喜,我亦欢喜;你若忿怒,我亦忿怒。于我而言,再无他人比你更为可亲,噢,两次生者中的雄牛。
Verse 90
अभिप्रायं च सर्वेषां जानामि द्विजसत्तम ॥ अनुगुह्य वरैस्तैश्च तत्रैवान्तरधीयत ॥
我知晓众人之意向,噢,最胜的婆罗门。又以那些恩赐施以护佑之后,他便在原处隐没不见。
The chapter prioritizes devotion (bhakti) and disciplined practice (tapas/niyama) over sovereignty or supernatural attainment. Nandin explicitly refuses rulership, godhood, liberation claims, or powers, requesting instead unwavering devotion to Śiva and freedom from obstacles in ascetic life; Śiva affirms this orientation by granting status and responsibility rather than mere domination.
Seasonal markers (ṛtu) structure Nandin’s austerities: in summer (grīṣma) he performs the pañcatapa discipline; in winter (śiśira) he remains in water (salilāśraya). The text also notes sustained duration—an intense tapas extending to a thousand years (varṣa-sahasra)—and repeated japa quantified as three crores (triguṇā koṭi) of Rudra recitations.
Through sacred-geography description, the narrative frames the mountain-forest ecosystem—springs, rivers, lakes, flowering groves, birds, and animals—as a dharmic landscape (dharmāraṇya, tapo-kṣetra) that supports disciplined human conduct. This portrayal implicitly links ethical restraint and worship with the flourishing of waterscapes and biodiversity, presenting the site as an ordered, life-sustaining ecology rather than a purely abstract holy location.
The principal figures are Brahmā (teacher), Sanatkumāra (inquirer), Śiva as Sthāṇu/Paśupati (grantor of boons), Pārvatī (present with Śiva), and Nandin (ascetic who becomes Nandīśvara). The narrative also references collective groups—devas led by Indra (Śakra), gandharvas, apsarases, yakṣas, vidyādharas, siddhas, nāgas/pannagas, and munis—indicating a pan-cosmic audience rather than a single dynastic or royal lineage.