Adhyaya 210
Varaha PuranaAdhyaya 21065 Shlokas

Adhyaya 210: Inquiry into Moral Agency (Karma) and Practical Means for the Dissolution of Sin: the Śiśumāra Contemplation

Karmakartṛtva-vicāraḥ tathā pāpa-kṣaya-upāyāḥ (Śiśumāra-darśana-prāyaścittam)

Ethical-Discourse (Karma theory and expiatory praxis)

本章置于《婆罗诃—大地》式的教诲语境中,以对话传授:那罗陀向阎摩发问,苦行精进却仍有苦受,究竟谁在“作”、谁在“使作”,极乐与极苦由何而生。阎摩答曰:业的主宰在于自作之业(svakṛta-karma),终究并无外在的赏罚施与者可见;天界与地狱皆为业报之果。继而教法由艰深瑜伽转向易行而可落实于社会的灭罪(pāpa-kṣaya)之道:伦理自制(不害 ahiṃsā、不嗔 akrodha、近于不取 aparigraha 的行持)、敬奉婆罗门并巡礼圣地(tīrtha),以及独特的观想/仪轨——观普罗阇波提之“施舒摩罗”(śiśumāra)形,并内观苏摩(Soma)与迪瓦迦罗(Divākara)的内在“安处”。全章融汇业因果与务实净化,导向内在纪律与社会和合,以不暴力与克制维系世间平衡。

Primary Speakers

VarāhaPṛthivī

Key Concepts

svakṛta-karma (self-wrought action as causal principle)kartṛtva-vicāra (inquiry into agency)pāpa-kṣaya (attenuation of demerit)ahiṃsā and ethical self-restrainttīrtha-yātrā and brāhmaṇa-sevā as purificatory actsśiśumāra-rūpa of Prajāpati (cosmic visualization)prāṇāyāma as a purificatory techniqueSoma–Divākara internal contemplation (microcosm mapping)

Shlokas in Adhyaya 210

Verse 1

पुनः पतिव्रतामाहात्म्यवर्णनम् ॥ नारद उवाच ॥ रहस्यं धर्ममाख्यानं त्वयोक्तं तु महायशः ॥ स्त्रीणां माहात्म्यमुद्दिश्य भास्करस्य मतं यथा ॥

再说:对守夫之誓者(pativratā)伟大功德的叙述。那罗陀曰:大名者啊,你已宣说一则关于法(dharma)的秘密叙事,旨在彰显女性之伟大——如同婆娑迦罗(太阳)之见解。

Verse 2

इदं हि सर्वभूतेषु परं कौतूहलं मम ॥ तदहं श्रोतुमिच्छामि कथयस्व महातपाः ॥

在一切事中,此乃我最深的好奇。因此我愿闻其详——请你开示吧,伟大的苦行者。

Verse 3

ये नरा दुःखसन्तप्तास्तपस्तीव्रं समाश्रिताः ॥ नानाव्रतशतोपायैः सुखहेतोर्महाप्रभ ॥

那些被痛苦灼烧的人,依止严峻的苦行,以百般方法——种种誓戒——只为求得安乐,哦大放光明者。

Verse 4

मनसा निश्चितात्मानस्त्यक्त्वा सर्वप्रियाप्रियम् ॥ काङ्क्षन्ते बहवः केचित्केनचिद्विनिहन्यते ॥

许多人在心中立定,舍弃一切爱憎,却仍渴求果报;也有人被某事或某人所阻挠。

Verse 5

श्रुता लोके श्रुतिस्तात श्रेयो धर्मा हि नित्यशः ॥ सम्यक्कृच्छ्राश्रितस्याथ कथं पापे मतिर्भवेत् ॥

世间常闻——亲爱的先生,圣典《闻传》(Śruti)亦如是说——法(dharma)恒为更善之道。那么,对已如法承担艰难修持者,其心怎会倾向罪恶?

Verse 6

कस्यैतच्चेष्टितं तात कर्त्ता कारयितापि वा ॥ कः कर्षति जगच्चैको भूतग्रामं चतुर्विधम् ॥

亲爱的先生,这是谁的作为——谁是行者,乃至使他人行事者?又是谁独自牵引此世界,并那四类众生之群?

Verse 7

कं वा द्वेषं पुरस्कृत्य मतिस्तस्य प्रवर्तते ॥ सुखदुःखादि लोकेऽस्मिन्प्रकरोति सुदारुणम् ॥

以何种嗔恨作为先导与动机,人的心念便随之运转?在此世间,它会招致极其严酷的境遇,如乐与苦等。

Verse 8

यद्येवं तु मया गुह्यं दुर्विज्ञेयं सुरैरपि ॥ शक्यं श्रोतुं महाराज तदाख्याहि तपोधन ॥

若如此,这一秘要之教——即使诸天亦难洞悉——若可得闻,伟大的国王啊,请宣说之,苦行之宝啊。

Verse 9

नारदेनैवमुक्तस्तु धर्मराजो महामनाः ॥ विनयात्प्रश्रितं वाक्यमिदमाह महामुनिम् ॥

纳罗陀如是发问后,心量宏大的法王便以谦恭柔和之语,对那位大牟尼说道。

Verse 10

न कश्चिद्दृश्यते लोके कर्ता कारयितापि वा ॥ यद्वै परमधर्मात्मन् यस्मिन्कर्म प्रतिष्ठितम् ॥

世间并不见有任何人是独立的作者——甚至也不见有使他人行动者——至正者啊,因为业行乃依于那一根本原则而立。

Verse 11

यस्य वै कीर्त्यते नाम येन चाज्ञाप्यते जगत् ॥ व्यवहरामि वचश्चाहं यः करोति स्वयं कृतम् ॥

其名被称颂者,凭其敕令而世界得以运行;依彼我行、依彼我言。唯彼自成其所成,使所作得以成就。

Verse 12

दिव्येऽस्मिन् सदसि ब्रह्मन् ब्रह्मर्षिगणसंवृते ॥ यथाश्रुतं यथादृष्टं कथयिष्याम्यहं विभो ॥

在这神圣的会众中,婆罗门啊,四周环绕着诸位梵仙(brahmarṣi)之众;大能者啊,我将如实叙述所闻与所见——怎样听到,便怎样说;怎样见到,便怎样述。

Verse 13

स्वकर्म भुज्यते तात सम्भूतैर्यत्कृतं स्वयम् ॥ आत्मानं पातयत्यात्मा किञ्चित्कर्म च कारयेत् ॥

亲爱的啊,众生各自受用自身之业:在具身之中,凡由自己所作,必由自己承受。自我使自我堕落,自我亦能发动某些行为。

Verse 14

वायुना भाविता संज्ञा संसारे सा दृढीकृता ॥ तामेव भजते जन्तुः सुकृतं वाथ दुष्कृतम् ॥

由气息之风(vayu)所熏成的心相(saṁjñā),在轮回(saṁsāra)中被坚固。众生正随此倾向而行——或趋向善业,或趋向恶业。

Verse 15

अभिघाताभिभूतस्तु आत्मनात्मानमुद्धरेत् ॥ आत्मा शत्रुश्च बन्धुश्च न कश्चिद्बन्धुरात्मनः ॥

然而当为苦难所压倒时,应以自身扶起自身。自我既是敌亦是友;对自我而言,别无真正的朋友。

Verse 16

बन्धुं बन्धुपरिक्लेशं निर्मितं पूर्वकर्मभिः ॥ जगत्यामुपभुङ्क्ते वै जीवा योनिशतैरपि ॥

在世间,众生确实受用所谓“亲缘”及其相连的苦恼;此皆由前业所造,即便历经百种胎生亦复如是。

Verse 17

मिथ्याप्रवृत्तः शब्दोऽयं जगद्भ्रमति सर्वशः ॥ यावत्तत्कुरुते कर्म तावत्कर्म स्वयंकृतम् ॥

此言说若循于谬途,令世间处处迷转。只要一人造作诸业,该业实为自作自受(自担其果)。

Verse 18

यथा यथा क्षयं याति ह्यशुभं पुरुषस्य वै ॥ तथा तथा शुभा बुद्धिर्मनुजस्य प्रवर्तते ॥

如是,如其人之不善实渐消减;亦复如是,其人之善慧随之生起而行。

Verse 19

शुभाशुभकरीं बुद्धिं लभते पौरवैहिकीम् ॥ दुष्कृतैः कर्मभिर्देही शुभैर्वा स्वयमर्जितैः ॥ क्लेशक्शयं पापहरं शुभं कर्म करोत्यथ ॥

具身之众生得一能作善与不善果报之慧,乃由此生先前所积之业所熏成。由恶业,或由自力所修之善业,复能行清净善行,以减诸苦恼,除灭罪垢。

Verse 20

शुभाशुभं नरः प्राप्य कर्माकर्म तथैव च ॥ विवृते विमले कर्मण्यअमरेषु महीयते ॥

人既得善与不善之报,亦得行与不行;由其显明而清净之业行,便在不死者之中受尊崇。

Verse 21

स्वर्गः शुभफलप्राप्तिर्निरयः पापसंभवः ॥ नैव कश्चित्प्रदाता च नापहर्ता प्रदृश्यते ॥

天界即得善果;地狱由罪业而生。实不见有任何施与者,亦不见有任何夺取者。

Verse 22

नारद उवाच ॥ यद्येवं स्वकृतं कर्म समन्वेति शुभाशुभम् ॥ शुभस्येह भवेर्दवृद्धिरशुभस्य क्षयोऽपि वा ॥

那罗陀说:若如是,自作之业随身而行,兼带善与不善之果;那么在此生中,是否可能善不增,乃至不善反而减损?

Verse 23

मनसा कर्मणा वापि तपसा चरितेन वा ॥ यथा न रोहते जन्तुस्तथा त्वं वक्तुमर्हसि ॥

无论由心、由行、由苦行(tapas)、或由品行:众生如何不再“复生长”(即不善如何不再重起),此事你应当为我开示。

Verse 24

यम उवाच ॥ इदं पुण्यं पवित्रं च ह्यशुभानां शुभप्रदम् ॥ कीर्तयिष्यामि ते सम्यक्पापदोषक्षयं सदा ॥

阎摩说:我将为你如实宣说此功德而清净之法;它能令负不善者得生善法,并恒常减损罪过之过失。

Verse 25

प्रणम्य शिरसा सम्यक्पापपुण्यकराय च ॥ कर्तृणे जगतो नित्यं विश्वस्य जगतो ह्यहम् ॥

我当恭敬俯首,礼敬那位令罪与福皆得其果、为世间永恒之作者者;(我今宣说),因为我确与此宇宙之世界相关。

Verse 26

येन सृष्टमिदं सर्वं त्रैलोक्यं सचराचरम् ॥ अनादिमध्यानिधनं दुर्विज्ञेयं सुरासुरैः ॥

由彼而生此一切:三界之中,动与不动皆然。彼无始、无中、无终,纵使诸天与阿修罗亦难以了知。

Verse 27

यः समः सर्वभूतेषु जितात्मा शान्तमानसः ॥ स पापेभ्यो विमुच्येत ज्ञानवान्सर्ववेदवित् ॥

凡对一切众生心平等、能自制且心意寂静者——具智慧并通达诸吠陀——当得解脱诸罪。

Verse 28

गुणागुणपरिज्ञाता ह्यक्षयस्य क्षयस्य च ॥ ध्याने नैव ह्यसम्मूढः स पापेभ्यः प्रमुच्यते ॥

能辨别功德与过失,并了知不坏与坏灭者——于禅观中不迷乱——得解脱诸罪。

Verse 29

स्वदेहे परदेहे च सुखदुःखेन नित्यशः ॥ विचारज्ञो भवेद्यस्तु स मुच्येतैनसा ध्रुवम् ॥

凡能恒常于自身与他身之中,对乐与苦作如实观察而具辨知者,必定得脱罪垢。

Verse 30

अहिंस्रः सर्वभूतेषु तृष्णाक्रोधविवर्जितः ॥ शुभन्यायः सदा यश्च स पापेभ्यः प्रमुच्यते ॥

对一切众生不行伤害,远离贪欲与嗔怒,恒常遵行吉祥正道者,如是之人得解脱诸罪。

Verse 31

प्राणायामैश्च निर्गृह्य त्वधः सन्धानारणानि च ॥ व्यवस्थितमना यस्तु स पापेभ्यः प्रमुच्यते ॥

又有以调息(prāṇāyāma)摄持诸气,并修习下行之摄持(下部闭持),其心安住不动者,亦得解脱诸罪。

Verse 32

निराशः सर्वतस्तिष्ठेदिष्टार्थेषु न लोलुपः ॥ परीतात्मा त्यजेत्प्राणान्सर्वपापात्प्रमुच्यते ॥

于一切处当无所期待,不贪求所欲之物;能自制其心,即使舍离生命之息,亦得解脱一切罪业。

Verse 33

श्रद्दधानो जितक्रोधः परद्रव्यविवर्जकः ॥ अनसूयश्च यो मर्त्यः स पापेभ्यः प्रमुच्यते ॥

凡人若具信心,已胜忿怒,远离他人财物,且无嫉害之心,如是之人得解脱诸罪。

Verse 34

गुरुशुश्रूषया युक्तस्त्वहिंसानिरतश्च यः ॥ अक्षुद्रशीलस्तु नरः स पापेभ्यः प्रमुच्यते ॥

若有人勤于侍奉师长,恒住不害,品行不卑劣,如是之人得解脱诸罪。

Verse 35

प्रशस्तानि च यः कुर्यादप्रशस्तानि वर्जयेत् ॥ मङ्गले परमो यश्च स पापेभ्यः प्रमुच्यते ॥

凡行可称之事而避不可称之事,并以吉祥之行最为卓越者,如是之人得解脱诸罪。

Verse 36

योऽभिगच्छति तीर्थानि विशुद्धेनान्तरात्मना ॥ पापादुपरतो नित्यं स पापेभ्यः प्रमुच्यते ॥

以清净内心趋近诸圣地(tīrtha),并恒常远离恶行者,如是之人得解脱诸罪。

Verse 37

नारद उवाच ॥ एतच्छ्रेयॊहितं चैव सर्वेषां वै परन्तप ॥ उपपन्नं च युक्तं च तत्त्वया समुदाहृतम् ॥

那罗陀说道:“此言确实有益,能导向一切众生的至上善,噢降伏仇敌者;其立论稳固、条理贯通,并依真实之理而宣说。”

Verse 38

विविधैः कारणोपायैः सम्यक्तत्त्वार्थदर्शितैः ॥ संशयोऽभून्मम पुरा स त्वया नाशितः प्रभो ॥

“凭借种种方法与因缘之道,正确显示真实原理之义理,我昔日曾生疑惑;那疑惑已被你消除,噢主宰。”

Verse 39

ततोऽप्यल्पतरश्चेत्स्यादुपायो योगवित्तम ॥ कथ्यतां मे महाभाग येन पापं प्रणश्यति ॥

“若还有比那更为简易之法,噢最通达瑜伽者,请告知我,噢贤贵者——凭此能令罪业消灭。”

Verse 40

दुष्करं पूर्वमुक्तं हि योगधर्मस्य साधनम् ॥ पापापहरणं लोके यदन्यत्सुखसाधनम् ॥

“因为先前所说的修行——瑜伽之法——确实艰难。因此在世间,请宣说另一种能除罪且易于成就的方法。”

Verse 41

अल्पोपायकरेण चैव सुखोपायं च सर्वशः ॥ येन पापकृतान्दोषानपोहतिसुदारुणान् ॥

“[请说]一种所费甚少、诸方面皆易行之法——凭此能驱除由罪行所生的极其严酷之过失。”

Verse 42

आत्मायत्ताश्च ये नित्यं न च विस्तारविस्तरः ॥ गुणैश्च विविधैर्युक्ता इह लोके परत्र च ॥

“请告诉我那些恒常依凭自身、不需繁复铺陈,并具备种种功德的方法——于此世与彼世皆然。”

Verse 43

कर्मणामशुभानां च विविधोत्पत्तिजन्मनाम् ॥ यः समर्थः स्फोटयितुं तन्मे ब्रूहि महातपाः ॥

“大苦行者啊,请告诉我那能粉碎并消解不祥业行的方法——那些由种种因缘与诸生诸世所生起的业。”

Verse 44

यम उवाच ॥ यथा स भगवानाह धर्ममेतं प्रजापतिः ॥ तदहं भावयिष्यामि नमस्कृत्य स्वयम्भुवम् ॥

阎摩说道:“正如那位可敬的生主(Prajāpati)宣说此法(dharma),我也将如实阐明——先礼敬自生者(Svayambhū)。”

Verse 45

लोकानां श्रेयसोऽर्थं तु पापानां तु विनाशनम् ॥ क्रियाकारनियोगं च प्रोच्यमानं निबोध मे ॥

“为诸世界之安乐,并为灭除罪垢,当从我领会所宣说者:关于仪式与行持的规定与约束。”

Verse 46

प्राप्नुयादीप्सितान्कामान्पापैर्मुक्तो यथासुखम् ॥ यः कुर्याद्धर्मसंयुक्तं विशुद्धेनान्तरात्मना ॥

“脱离罪业者,将安然获得所愿之果——若能以清净的内在自我,行持与法(dharma)相应之事。”

Verse 47

यस्तु कारयते रूपं शिशुमारं प्रजापतिम् ॥ दृष्ट्वा नमस्येत्प्रयतः स पापेभ्यः प्रमुच्यते ॥

凡令造作名为“施施摩罗”(Śiśumāra)之生主(Prajāpati)形像者,见之而以持戒专注礼拜,便得解脱诸罪。

Verse 48

यदा तस्य शरीरस्थं सोमं पश्येत्समाहितः ॥ महापातकनाशस्तु तदा तस्य विधीयते ॥

当人以定心观见苏摩(Soma,月神)安住于彼身(即施施摩罗之形)之内时,便为其宣判灭除重罪。

Verse 49

ललाटे तूत्थितं दृष्ट्वा मुच्यते च स पातकैः ॥ कण्ठस्थं पातकैः सर्वैर् हृदिस्थं च कृताकृतैः ॥

见其升于额上,则解脱诸罪;见其住于喉间,则脱离一切罪;见其安于心中,则离于已作与未作之业(行为与失行之余垢)。

Verse 50

मनसा कर्मणा वाचा यत्किञ्चित्कलुषं कृतम् ॥ उदरस्थं तु तं दृष्ट्वा मुच्यते नात्र संशयः ॥

凡由意、行、语所造之任何垢染,若见彼安住于腹中,即得解脱;对此毫无疑惑。

Verse 51

वाङ्मनोभिः कृतानां तु पापानां विप्रमोक्षणम् ॥ यदा लाङ्गलकण्ठे तु स्थितं पश्येद्दिवाकरम् ॥

为解脱由言语与意念所造之罪:当人见天日神帝婆迦罗(Divākara,太阳)安住于“犁柄之喉”(lāṅgala-kaṇṭha)之位(在彼宇宙形相中)时,即得解脱。

Verse 52

तदा स दुष्कृतान्सर्वान्विनाशयति मानवः ॥ यदा सोमं गुरुं सर्वं यः कुर्यात्तु प्रदक्षिणम् ॥

于是此人能摧毁一切恶业。又当有人以恭敬之心绕行(pradakṣiṇā)于苏摩(Soma),视其为一切众生的普遍导师(guru)之时——

Verse 53

ध्यायेत ह्यक्षयं यस्तु स पापेभ्यः प्रमुच्यते ॥ भृगुर्बुधः शनैश्चारो लोहिताङ्गश्च वीर्यवान् ॥

凡观想不坏者(Akṣaya)者,得解脱诸罪。(有)婆利古 Bhṛgu(金星)、布陀 Budha(水星)、沙奈施遮罗 Śanaiścara(土星),以及具大威力的罗希塔昂伽 Lohitāṅga(火星)。

Verse 54

सौम्यरूपो यदा चन्द्रः कुरुते च प्रदक्षिणाम् ॥ हृदि कृत्वा तु तत्पापं यो ध्यायेदक्षरं शुचिः ॥

当月亮以柔和之相行绕行(pradakṣiṇā)时,那位清净之人若将其罪置于心中(内省承认),并观想不坏之“阿克沙罗”(Akṣara,不灭之音/理),便得净化。

Verse 55

जघनस्थं शुचिर्दृष्ट्वा नरश्चन्द्रमसं मुने ॥ नमस्येत्प्रयतो भूत्वा सर्वपापैः प्रमुच्यते ॥

圣者啊,清净之人见月位于髋胯/腰际之处(jaghana)时,应当专注自持而礼拜;便能解脱一切罪业。

Verse 56

आर्द्रस्थमार्द्रकर्मा तु ध्यात्वा चाष्टशताक्षरम् ॥ यदा चन्द्रश्च सूर्यश्च द्वावन्योऽन्यं प्रपश्यतः ॥

然而,行持柔润调和者(ārdrakarmā),住于“湿润之处”(ārdrastha)而观修八百音节之真言——当月与日二者彼此相望之时——

Verse 57

सम्पूर्णौ विमलौ सम्यग्भ्राजमानौ स्वतेजसा ॥ कृत्वा हृदि तथा पापं यो ध्यायेत्परमव्ययम् ॥

若于心中安立那圆满清净、以自光辉真实照耀的神圣观想;随后观修至上不坏之本体者,罪垢便得消除。

Verse 58

वामनं ब्राह्मणं दृष्ट्वा वाराहं च जलोत्थितम् ॥ धरणी चोद्धृता येन सिंहं चापि महामुने ॥

既得瞻见婆摩那之婆罗门形,又见从水中升起的婆罗诃——由彼举起大地(陀罗尼)——亦复瞻见狮子之形,噫,大牟尼。

Verse 59

नमस्येद्वै पयोभक्षः स पापेभ्यः प्रमुच्यते ॥ प्राणायामं च यः कुर्यात्सोऽपि पापात्प्रमुच्यते ॥

以乳为食而行礼敬者,得解脱诸罪;修行调息(prāṇāyāma)者,亦同样从罪业中解脱。

Verse 60

यम उवाच ॥ देवर्षे श्रूयतां पुण्यं यद्ब्रवीषि महामुने ॥ त्वदुक्त्या मे कथयतः शृणुष्वावहितोऽनघ ॥

阎摩言:天仙圣者啊,请听你所宣说的功德之教,大牟尼。依你之言,我今陈述之时,汝当专心谛听,清净无过者。

Verse 61

संसारे प्राप्तदोषस्य जायमानस्य देहिनः ॥ पततां च गतो भावः पापकर्मक्षयेण तु ॥

对于在轮回(saṃsāra)中受生而已染过失的有身众生,即便是堕落受苦者,也会因罪业之消尽而发生境况的转变。

Verse 62

तत्त्वार्थं वेत्ति यः सम्यक्पुरुषं प्रकृतिं तथा ॥ ज्ञात्वा वा यो न मुह्येत पदं प्राप्नोति शाश्वतम् ॥

凡能如实了知真实义——即普鲁沙(Puruṣa)以及同样的普拉克里蒂(Prakṛti)——并在知晓之后不再迷惑者,得至永恒之境。

Verse 63

उत्थाय ब्राह्मणं गच्छेन्नरो भक्त्या समन्वितः ॥ अभिगम्य प्रदानॆन स पापेभ्यः प्रमुच्यते ॥

具足恭敬信奉之人,应起身前往婆罗门;既已亲近并施与供养,便从诸罪中得解脱。

Verse 64

कैवल्यमभिसम्पन्ने श्रद्धधानो भवेन्ररः ॥ अनन्यमानसः कुर्याद्यथा धर्मानुशासनम् ॥

当那以“凯瓦利亚”(kaivalya,独存解脱)为归趣的教诲具足之时,人应生起信心与坚住;以不散乱之心,依于达摩之教戒而行。

Verse 65

तदा निर्मलतां याति चन्द्रमाः शारदो यथा ॥ प्राणायामशतं कृत्वा सर्वपापैः प्रमुच्यते ॥

于是心地澄明,如秋月般清净;修行百次调息(prāṇāyāma)之后,便从一切罪垢中得解脱。

Frequently Asked Questions

The chapter argues that moral causality is rooted in one’s own actions (svakṛta-karma): no independent external “giver” or “taker” of results is foregrounded, and experiences of svarga/naraka are presented as outcomes of shubha/ashubha karma. The practical ethical corollary is disciplined conduct—especially ahiṃsā, restraint of anger and desire, and avoidance of harm—paired with purificatory observances.

In the provided text, no explicit tithi, nakṣatra, māsa, or seasonal marker is specified. The practices are framed as generally applicable (nitya) disciplines and contemplations rather than calendar-fixed rites.

While not naming Pṛthivī directly in the transmitted excerpt, the chapter’s ethic of ahiṃsā (non-harm) toward sarvabhūtas, along with restraint (tṛṣṇā-krodha-vivarjana) and avoidance of exploitative behavior, functions as an implicit terrestrial ethic: reducing violence and excess is presented as a means of social and embodied purification, which can be read as supporting ecological stability through minimized harm to living communities.

The principal figures in the excerpt are Nārada and Yama, with reference to Prajāpati (Svayambhū) as the authoritative source for the described dharma. Celestial bodies and grahas are also mentioned in a ritual-contemplative register (Soma/Candra, Divākara/Sūrya; Budha, Śanaiścara, and others), but no royal genealogies or administrative lineages appear in the provided passage.