Opening the text

Nārakī-daṇḍa-karma-vipāka-varṇanam
Ethical-Discourse (Karmavipāka and Naraka-Administration)
本章以教诲性的方式,通过地狱治理的叙事来阐明业报成熟(karmavipāka),采用《往世书》常见的师问体:野猪化身婆罗诃(Varāha)回应大地女神普利提毗(Pṛthivī)对道德秩序与世间安稳的忧虑。文中叙述记业官奇特罗古普塔(Citragupta)传达法王达摩罗阇(Dharmarāja)的指令,随后阎摩使者(Yamadūta)辨认罪人并分派惩罚。章节将具体社会恶行——伪证、诽谤、盗窃(包括夺取梵施地 brahmadeya 与田土)、背信弃义、伤害父母或牛、以及滥用祭祀职分——对应到相应苦刑:焚烧、穿刺、捆缚、剥夺与投生为畜。并反复强调众生在多种生类中轮回受生,直至业尽;惩罚被视为调节之法,用以恢复达摩(dharma),并由此护持普利提毗所承载的人间与大地秩序。
Verse 1
अथ नारकिदण्डनकर्मविपाकवर्णनम् ॥ ऋषिरुवाच ॥ विस्मयस्तु मया दृष्टस्तस्मिन्नद्भुतदर्शनः ॥ चित्रगुप्तस्य सन्देशो धर्मराजेन धीमताḥ ॥
现在将叙述那罗迦(地狱)的刑罚以及业行果报的成熟。圣仙(Ṛṣi)说:我在那里见到令人惊异之事,景象殊胜奇妙。那是由智者阎摩王(Dharmarāja)所下达、经由记业官赤多罗笈多(Citragupta)的指令。
Verse 2
प्राप्नुवन्ति फलं ते वै ये च क्षिप्ताः पुरा जनाः ॥ अग्निना वै प्रतप्तास्ते बद्धा बन्धैः सुदारुणैः ॥
那些先前被投入其中的人,确实领受其果报;他们被烈火灼烧,又被极其残酷的枷锁捆缚。
Verse 3
सन्तप्ताः बहवो ये ते तैस्तैः कर्मभिरुल्बणैः ॥ श्यामाश्च दशनाभिर्ये त्विमं शीघ्रं प्रमापय ॥
他们中许多人因各自沉重而凶烈的业行而受灼烧,各随其业。又有那些黝黑的女使者,露出利齿——你们速速灭尽此人。
Verse 4
दुराचारं पापरतं निर्घृणं पापचेतसम् ॥ श्वानस्तु हिंसका ये च भक्षयन्तु दुरात्मकम् ॥
愿那些凶暴之犬吞噬那恶人:行止不端,沉溺罪业,心无悲悯,意念尽染罪垢。
Verse 5
पितृघ्नो मातृगोह्नस्तु सर्वदोषसमन्वितः ॥ आरोप्य शाल्मलीं घोरां कण्टकैस्तैर्विपाटय ॥
至于弑父、弑母并杀牛者——具足诸罪——令其攀上可怖的娑罗摩梨(śālmalī)刺树,并以其尖刺将他撕裂。
Verse 6
एनं पाचय तैलस्य घृतक्षौद्रस्य वा पुनः ॥ तप्तद्रोण्यां ततो मुञ्च ताम्रतप्तखले पुनः ॥ नराधममिमं क्षिप्त्वा प्रदीप्ते हव्यवाहने ॥ ततो मनुष्यतां प्राप्य ऋणैस्तत्र प्रदीप्यते ॥
将此恶人在油中烹煮,或在酥油与蜜糖中烹煮。然后将其投入灼热的槽中,再置于烧烫的铜板之上。将此最卑劣之人投入熊熊烈火之中,此后他重获人身,在那里受债务之苦。
Verse 7
शयनासनहर्त्तारमग्निदायी च यो नरः ॥ वैतरण्यामयं चैव क्षिप्यतामचिरं पुनः ॥
偷窃床座之人,以及纵火之人,应迅速将其再次投入韦塔拉尼地狱受刑。
Verse 8
पापकर्मायमत्यर्थं सर्वतीर्थविनाशकः ॥ तस्य प्रदीप्तः कीलोऽयं वह्नितप्तोऽतिदुःस्पृशः ॥
此人罪业深重,毁坏一切圣地。为他准备了炽热的刑桩,经火烧灼,触之极其痛苦。
Verse 9
ग्रामयाजनकं विप्रमध्रुवं दाम्भिकं शठम् ॥ बद्ध्वा तु बन्धने घोरे दीयतां तु न किञ्चन ॥
为村庄举行祭祀的婆罗门,心志不定,虚伪欺诈,应将其束缚于可怕的枷锁之中,丝毫不予施舍。
Verse 10
जिह्वा अस्य छिद्यतां शीघ्रं वाचा दुष्टस्य पापिनः ॥ गम्यागम्यं पुरा येन विज्ञातं न दुरात्मना ॥
速断其舌,此罪人口出恶言,往昔不知何者当近、何者不当近,心术不正。
Verse 11
कृतं लोभाभिभूतेन कामसम्मोहितेन च ॥ तस्य छित्वा ततो लिङ्गं क्षारमग्निं च दीपय ॥
此乃被贪婪所覆、被欲望所迷者所为。因此,断其根器,然后以烈火碱水灼烧之。
Verse 12
इमं तु खलकं कृत्वा दुरात्मा पापकाणिम् ॥ दायादा बहवो येन स्वार्थहेतोर्विनाशिताः ॥
此人心术不正,作恶多端,成为恶徒,为谋私利而毁坏众多继承人。
Verse 13
इमं वार्धुषिकं विप्रं सर्वत्राङ्गेषु भेदय ॥ तथायं यातनां यातु पापं बहु समाचरन् ॥
此婆罗门以放贷为业,刺穿其全身肢体。因其作恶多端,当受此刑罚。
Verse 14
सुवर्णस्तेयिनं पापं कृतघ्नं च तथा नरम् ॥ क्रूरं पितृहणं चैनं ब्रह्मघ्नेषु समीकरु ॥
此窃金之罪人,以及忘恩负义之人,残忍不仁,弑杀生父,当将其列入弑梵者之列。
Verse 15
अस्थि छित्वा ततः क्षिप्रं क्षारमग्निं च दापय ॥ इमं तु विप्रं खादन्तु तीक्ष्णदंष्ट्राः सुदारुणाः ॥
随即迅速斩断其骨骼,施以腐蚀性的碱液与烈火。让那些极其可怖、獠牙锋利者吞噬这位婆罗门。
Verse 16
पिशुनं हि महाव्याघ्राः पञ्च घोराः सुदारुणाः ॥ इमं पचत पाकेषु बहुधा मर्मभेदिनम्
确实,那诽谤者——愿五只可怖而极其残酷的“巨虎”在诸烹煮地狱中以种种方式烹煮此人,使其受穿刺要害之苦。
Verse 17
येनाग्निरुज्झितः पूर्वं गृहीत्वा च न पूजितः ॥ इमं पापसमाचारं वीरघ्नमतिपापिनम्
凡先前弃置圣火——取而不敬——此人行止罪恶,戕害贤良,罪尤深重……
Verse 18
सर्वेषां तु पशूनां यो नित्यं धारयते जलम् ॥ न त्राता न च दाता च पापस्यास्य दुरात्मनः
然而,那恒常不给一切众生饮水者——此罪人心性邪恶,无护者,亦无施者。
Verse 19
अदानव्रतिनो विप्रा वेदविक्रयिणस्तथा ॥ सर्वकर्माणि कुर्युर्हि दीयते न च किञ्चन
婆罗门若立誓不施,与贩卖吠陀者亦然——纵使行尽诸仪轨,实则毫无布施可言。
Verse 20
तोयभाजनहर्तारं भोजनं योऽनिवारयत् ॥ हन्यतां सुदृढैर्दण्डैर्यमदूतैर्महाबलैः
偷取盛水之器者,以及阻止施食者——当由阎摩使者、力大无比者,以坚硬之杖痛击之。
Verse 21
वेणुदण्डकशाभिश्च लोहदण्डैस्तथैव च ॥ जलमस्मै न दातव्यं भोजनं च कथञ्चन
以竹杖鞭打,亦以铁棒击之, 绝不可给予他水,亦无论如何不可给予食物。
Verse 22
तस्मा अन्नं च पानं च न दातव्यं कदाचन ॥ हतविश्वास्य हन्तारं वह्नौ शीघ्रं प्रपाचय
因此,绝不可给予食物与饮品。杀害背信之人者,当迅速以火烹之。
Verse 23
ब्रह्मदेयं हृतं येन तं वै शीघ्रं विपाचय ॥ बहुवर्षसहस्राणि पातये कर्म विस्तरे
夺取婆罗门赐地者,当迅速烹之;使其历经千万年,业报流转漫长。
Verse 24
समुत्तीर्णं ततः पश्चात्तिर्यग्योनौ प्रपातये ॥ सूक्ष्मदेहविपाकेषु कीटपक्षिविजातिषु
待其度过彼处之后,当投生于畜生之腹, 于微细身躯中成熟,化为各类昆虫与飞鸟。
Verse 25
क्लिष्टो जातिसहस्रैस्तु जायते मानुषस्ततः ॥ तत्र जातो दुरात्मा च कुलेषु विविधेषु च
历经千万生之苦难,方得转生为人;彼恶念深重者,生于种种家族之中。
Verse 26
हिंसारूपेण घोरेण ब्रह्मवध्यां प्रदापयेत् ॥ राज्ञस्तु मारकं घोरं ब्रह्मघ्नं दुष्कृतं तथा
以可怖的暴力之相,令其受名为“梵杀罪罚”(Brahmavadhyā)的地狱刑报;同样,弑君之重罪——近同于弑婆罗门(brahma-hatyā)——亦被计为极其可怖的恶业。
Verse 27
गोग्हातको ह्ययं पापः कूटशाल्मलिमारुहेत् ॥ कृष्यते विविधैर्घोरै राक्षसैर्घोरदर्शनैः
此罪人——杀牛者——被迫攀登尖利的娑罗摩梨树(śālmali);继而被种种可怖、形貌骇人的罗刹(rākṣasa)拖拽折磨。
Verse 28
पूतिपाकेषु पच्येत जन्तुभिः संप्रयोजितः ॥ ब्रह्मवध्याच्चतुर्भागैर्मृगत्वं पशुतां गतः
他在“腐煮地狱”(Pūtipāka)中被烹煮,且被诸多生类围攻;又因承受“梵杀罪罚”(Brahmavadhyā)的四分之苦,遂堕为野兽之身,沉入畜生之境。
Verse 29
उद्विग्नवासं पतितं यत्र यत्रोपपद्यते ॥ पापकर्मसमुद्विग्नो जातो जातः पुनःपुनः
无论在何处、何处再生,他都堕入惶惧不安的生存;为其恶业所扰,生而复生,反复轮回,常在惊惶之中。
Verse 30
अयं तिष्ठति किं पापः पितृघाती दुरात्मवान् ॥ ते तु वर्षशतं साग्रं भक्षयन्तु विचेतसः
此罪人——弑父之恶心者——为何仍停留于此?让那些无知无觉的众生吞噬他,满一百年,且更久。
Verse 31
ततः पाकेषु घोरेषु पच्यतां च नराधमः ॥ ततो मानुषतां प्राप्य गर्भस्थो प्रियतां पुनः
于是,让那最卑劣之人于可怖的地狱中受煎熬;随后再得人身时,愿他再次滞留母胎之中,反复经历受孕与怀胎。
Verse 32
व्यापन्नो दशगर्भेषु ततः पश्चाद्विमुच्यताम् ॥ तत्रापि लब्ध्वा मानुष्यं क्लेशभागी च जायताम्
愿他在十次入胎中夭折;其后方得解脱于此境。即便如此,纵得人身,也愿他生为分担苦恼与折磨之人。
Verse 33
बुभुक्षारुग्विकारैश्च सततं तत्र पीड्यताम् ॥ पापाचारमिमं घोरं मित्रविश्वासघातकम्
在那里,愿他常受饥饿、疾病与诸般失调之苦所逼迫——此行恶之可怖之人,背弃朋友信任者。
Verse 34
यन्त्रेण पीड्यतां क्षिप्रं ततः पश्चाद्विमुच्यताम् ॥ दीप्यतां ज्वलने घोरे वर्षाणां च शतद्वयम्
愿他迅速被刑具所折磨;其后方得释放。愿他在可怖的烈火中焚烧二百年。
Verse 35
जायतां च ततः पश्चाच्छूनां योनौ दुरात्मवान् ॥ भ्रष्टोऽपि जायतां तस्मान्मानुषः क्लेशभाजनः
其后,愿那恶人投生于犬类之胎;即使堕入此境,也愿他由此再得人身——然而成为承受痛苦之器。
Verse 36
वर्षाणां तु शतं पञ्च तत्र क्लिष्टो दुरात्मवान् ॥ कृमिको जायते पश्चाद्विष्ठायां कृमिकोऽपरः ॥
在那里,心怀恶念者受苦折磨一百零五年;其后转生为虫,又再度在粪秽中转为另一虫。
Verse 37
शकुन्तो जायते घोरस्तत्र पश्चाद्वृको भवेत् ॥ इममग्निप्रदं घोरं काष्ठाग्नौ सम्प्रतापय ॥
在那里他转生为可怖之鸟,随后又成狼。此可畏者、所谓“施火者”,继而在柴木之火中被灼烧。
Verse 38
स्वकर्मसु विहीनेषु पश्चाल्लब्धगतिस्तथा ॥ ततश्चाथ मृगो वापि ततो मानुषतां व्रजेत् ॥
当其自身业行之果报耗尽之后,便获得后续的生存去向;继而转为鹿(或他种野兽),随后方可趋入人身之位。
Verse 39
तत्रापि दारुणं दुःखमुपभुङ्क्ते दुरात्मवान् ॥ सर्वदुष्कृतकार्येषु सह सङ्घातचिन्तकैः ॥
即便在那里,心恶之人亦受惨烈之苦——与一切作恶之事中合谋筹划者同受其报。
Verse 40
एवं कर्मसमायुक्तास्ते भवन्तु सहस्रशः ॥ परद्रव्यापहाराश्च रौरवे पतितास्तथा ॥
如是被此业报所系缚者,可至千千之数皆成如是;而劫夺他人财物者,亦同样堕入罗柔婆(Raurava)。
Verse 41
कुम्भीपाकेषु निर्दग्धः पश्चाद्गर्दभतां गतः ॥ ततो जातस्त्वसौ पापः शूकरो मलभुक् तथा ॥
在俱毗波迦(Kumbhīpāka)地狱中被焚烧之后,他又堕为驴身;继而那罪人转生为猪,同样以秽物为食。
Verse 42
प्राप्नोतु विविधांस्तापान्यथा हृतधनश्च सन् ॥ क्षुधातृष्णापराक्रान्तो गर्दभो दशजन्मसु ॥
愿他承受种种苦热,如同夺取他人财物者;为饥渴所压制,他在十次投生中成为驴。
Verse 43
मानुष्यं समनुप्राप्य चौरः भवति पापकृत् ॥ परोपघाती निर्लज्जः सर्वदोषसमन्वितः ॥
再次获得人身后,那作恶者成为盗贼;加害于人,无惭无愧,具足一切过失。
Verse 44
वृक्षशाखावलम्बोऽत्र ह्यधःशीर्षः प्रजायते ॥ अग्निना पच्यतां पश्चाल्लुब्धो वै पुरुषाधमः ॥
在此他出生时悬挂于树枝之上,头朝下;随后,那贪婪卑劣之人将被烈火烹煮。
Verse 45
पूर्वैश्च सूकरो भूत्वा नकुलो जायते पुनः ॥ विमुक्तश्च ततः पश्चान्मानुष्यं लभते चिरात् ॥
并且先前既已为猪,他又转生为獴;随后得以解脱,经过漫长岁月才再获人身。
Verse 46
धिक्कृतः सर्वलोकेन कूटसाक्ष्यनृतव्रतः ॥ न शर्म लभते क्वापि कर्मणा स्वेन गर्हितः
为世人所共谴者——以虚妄为誓、作伪证之人——因自作之业而受责,处处不得安宁。
Verse 47
इमं ह्यानृतितकं दुष्टं क्षेत्रहारकमेव च ॥ स्वकर्म दुष्कृतं यावत्तावद्दुःखं भुनक्त्वसौ
诚然,此恶徒说谎者——以及夺取田地者亦然——只要其自身恶业尚存,在那期间便受诸苦。
Verse 48
कर्मण्येकैकशश्चायं स तु तिष्ठत्वयं पुनः ॥ वर्षलक्षं न सन्देहस्ततस्तिष्ठत्वयं पुनः
就每一项业行,逐一令其再住于彼处;历经十万年——毫无疑问——其后仍令其再住。
Verse 49
ततो जातिः स्मरेत्सर्वास्तिर्यग्योनिं समाश्रितः ॥ जायतां मानुषः पश्चात्क्षुधया परिपीडितः
随后,投生于畜生之胎时,他忆起自己一切生世;其后再生为人,却为饥饿所逼迫。
Verse 50
सर्वकामविमुक्तस्तु सर्वदोषसमन्वितः ॥ क्वचिज्जात्यां भवेदन्धः क्वचिद्बधिर एव च
既失一切所欲之成就,又具诸过失;于某一生中他成盲者,于另一生中亦确成聋者。
Verse 51
क्वचिन्मूकश्च काणश्च क्वचिद्व्याधिसमन्वितः ॥ एवं हि प्राप्नुयाद्दुःखं न च सौख्यमवाप्नुयात्
有时他变得哑且独眼;有时又为疾病所缠。如此确实只得苦受,而不得安乐。
Verse 52
तीव्रैरन्तर्गतैर्दुःखैर्भूमिहर्त्ता नराधमः ॥ इमं बन्धैर्दृढैर्बद्ध्वा विपाचय तथाचिरम्
以剧烈的内在痛苦,夺地之人——人中最下者——当以坚固绳索缚之,使其久受煎迫。
Verse 53
तीव्रक्षुधापरिक्लिष्टो बद्धो बन्धनयन्त्रितः ॥ दुःखान्यनुभवंस्तत्र पापकर्मा नराधमः
为猛烈饥饿所逼,既被捆缚又受镣铐拘束;在那里他承受诸苦——作恶者,人中最下者。
Verse 54
सप्तधा सप्त चैकां च जातिं गत्वा स पच्यते ॥ इमं शाकुनिकं पापं श्वभिर्गृध्रैश्च घातय
经历七重——七与一——诸生类之身后,他受煎迫。此罪恶的捕鸟者,当令犬与鹫鸢啄噬而杀。
Verse 55
ततः कुक्कुटतां यातु विड्भक्षश्च दुरात्मवान् ॥ दंशश्च मशकश्चैव ततः पश्चाद्भवेत् तु सः
其后,彼恶心者当堕为雄鸡之身,以秽食为食;继而化为虻与蚊;此后确实如是转生。
Verse 56
जातिकर्म सहस्रं तु ततो मानुषतां व्रजेत् ॥ इमं सौकरिकं पापं महिषा घातयन्तु तम् ॥
经历与生而业相系的一千轮之后,他才得以获得人身。然而这罪恶的牧猪者——愿水牛将他撞倒毙命。
Verse 57
वर्षाणां च सहस्रं तु धावमानं ततस्ततः ॥ विभिन्नं च प्रभिन्नं च शृङ्गाभ्यां पद्भिरेव च ॥
并且在一千年间,他将四处奔逃——被撕裂、被顶穿,既受角刺之伤,又遭蹄足践踏。
Verse 58
तस्माद्देशात्ततो मुक्तस्ततः सूकरतां व्रजेत् ॥ महिषः कुक्कुटश्चैव शशो जम्बूक एव च ॥
从那一处解脱之后,他将转入猪身;继而(又为)水牛、公鸡,并且为野兔与豺。
Verse 59
यां यां याति पुनर्जातिं तत्र भक्ष्यो भवेत् तु सः ॥ कर्मक्षयोऽन्यथा नास्ति मया पूर्वं विनिर्मितम् ॥
无论他进入何种再生,在那一身分中他都将成为(他者的)猎物。业尽别无他途——此乃我昔日所定之法。
Verse 60
प्राप्य मानुषतां पश्चात् पुनर्व्याधो भविष्यति ॥ अन्यथा निष्कृतिर्नास्ति जातिजन्मशतैरपि ॥
得人身之后,他还将再为猎人。除此之外别无赎罪之道——纵历百次生与再生亦然。
Verse 61
उच्छिष्टान्नप्रदातारं पापाचारमधार्मिकम् ॥ अङ्गारैः पचतां चैनं त्रीणि वर्षशतानि च ॥
至于施与残食者——行恶不义之人——当令其在炭火余烬中受煎熬,被烹煮三百年亦然。
Verse 62
ततः शुनी भवेत् पश्चात् सूकरी च ततः परम् ॥ कर्मक्षये ततः पश्चान्मानुषी दुःखिता भवेत् ॥
其后她将化为母狗,继而又为母猪。待业力消尽之后,她复得人身为女子,却仍为苦所逼。
Verse 63
न च सौख्यमवाप्नोति तेन दुःखेन दुःखिता ॥ अनेन भृत्या बहवः श्रान्ताः शान्ताः प्रवाहिताः ॥
她因那痛苦而受苦,终不得安乐。由于此仆役,许多人疲惫不堪,被压服,并被驱赶而去。
Verse 64
भक्ष्यं भोज्यं च पानं च न तेषामुपपादितम् ॥ अनुमोदे प्रजा दृष्ट्वा लिप्समानो दुरात्मवान् ॥
并未为他们备下可食之物、熟食与饮饮。那心怀恶念者见众人,只因贪求所得而勉强应允。
Verse 65
एवं कुरुत भद्रं वो मम पार्श्वे तु दुर्मतिः ॥ रौरवे नरके घोरे सर्वदोषसमन्विते ॥
“当如此行——愿汝等得吉祥”;然而那乖僻之人立于我侧,注定堕入可怖的罗罗婆地狱(Raurava),具足诸过。
Verse 66
सर्वकर्माणि कुर्वाणं क्षपयध्वं दुरासदम् ॥ वर्षाणां तु सहस्राणि तैस्तैः कर्मभिरावृतम्
汝行种种诸业,当磨灭此难以超越之系缚。经千千年,众生仍为彼等业行所覆蔽。
Verse 67
प्रक्षिप्यतामयं पश्चाद्दस्युजातौ दुरात्मवान् ॥ जायतामुरगः पश्चात्ततः कर्म समाश्रयेत्
其后,当将此心恶之人投于盗贼之生;复令其生为蛇。于是于彼身分中,受业之相应果报。
Verse 68
ततः पश्चाद्भवेत्पापश्चेतरः सर्वपापकृत् ॥ सूकरस्तु भवेत्पश्चान्मेषः संजायते पुनः
其后,他成为罪人——堕为“异类”,作诸恶业者。继而化生为野猪;又复生为公羊。
Verse 69
हस्त्यश्वश्च शृगालश्च सूकरो बक एव च ॥ ततो जातस्तु सर्वेषु संसारेशु पुनः पुनः
(他又成)象与马、豺与野猪,乃至鹤。其后,于一切轮回之途,复复受生。
Verse 70
वर्षाणामयुतं साग्रं ततो मानुषतां व्रजेत् ॥ पञ्चगर्भेषु सापत्सु पञ्च जातो म्रियेत सः
再经一万余年,方得人身。然而在险难之胎中,五度受生,皆于每次出生而死。
Verse 71
पापस्य सुकृतस्याथ प्रजानां विनिपातने ॥ भूतानां चाप्यसम्मानं दुष्प्रहारश्च सर्वशः
因此,在众生的败落之中,显现出罪与福德(交杂)的果报;亦有对诸有情的不敬,以及处处严酷的伤害。
Verse 72
अतः स्वयम्भुवा पूर्वं कर्मपाको यथार्थवत्
因此,往昔由自生者(梵天 Svayambhū)如实宣说业(karma)之成熟。
Verse 73
जात्यन्तरसहस्राणि प्रयुतान्यर्बुदानि च ॥ शान्तिं न लभते चैव भूमे क्षेत्रहरो नरः
历经千百次他生——乃至万万次,甚至亿数之生——夺取田地之人,噢大地啊,终不得安宁。
Verse 74
आदेश्य चोभयोरस्य कर्णयोः कूटसाक्षिकः ॥ यो नरः पिशुनः कूटसाक्षी चालिकजल्पकः
当在其双耳上作记号以示其为伪证者。凡为谗毁之人、作伪证者、以欺诳之言而语者——
Verse 75
कर्कटस्य तु घोरस्य नित्यक्रुद्धस्य मोचय ॥ इमं घोरे ह्रदे क्षिप्तं सर्वयाजनयाजकम्
将其交付于那可怖之蟹,恒常忿怒者。把这位行祭者、司祭者投入这可怕的湖中,
Verse 76
सुवर्णस्तेयिनं चैव सुरापं चैव कारयेत् ॥ अनुभूय ततः काले ततो यक्ष्म प्रयोजयेत्
他令偷金者,以及饮用醉人之酒者,承受其业报;待其于适当时日受尽之后,复令其罹患痨病(yakṣmā,肺痨)。
Verse 77
प्राप्तवान्विविधान्रोगान्संसारे चैव दारुणान् ॥ ब्रह्मस्वहारी पापोऽयं नरो लवणतस्करः
他在轮回世间招致种种可怖之病。此罪人乃盗取婆罗门财物者——确是盗盐之贼。
Verse 78
ततो वर्षशते पूर्णे मुच्यते स पुनः पुनः ॥ अजितात्मा तथा पापः पिशुनश्च दुरात्मवान्
其后,满百年之时,他又一次又一次得以释放。(然而)其心未能自胜,仍为罪人,喜谗毁,性情邪恶。
Verse 79
प्रबद्धः सुचिरं कालं मम लोकं गतो नरः ॥ जायतां स चिरं पापो मार्जारस्तेन कर्मणा
被系缚极久之后,此人前往我的世界。愿此罪人因其所作,长久转生为猫。
Verse 80
भिन्नचारित्रदुःशीला भर्त्तुर्व्यलीककारिणी ॥ आयसान्पुरुषान्सप्त ह्यालिङ्गतु समन्ततः
品行败坏、德性不良,且对夫君行欺诳之妇——令其从四面拥抱七个铁人。
Verse 81
अपौगण्डो म्रियेत्पञ्च कर्मशेषक्षये तु सः ॥ ततो मानुषतां याति चैष कर्माविनिर्णयः
在未至青春之龄之前,他将死去五次;但当所余业(karma)的果报耗尽之时,便再得人身。此即关于业之裁定。
Pṛthivī’s concern for moral order and the stability of earthly life prompts Varāha to explain karmavipāka through the administrative machinery of Yama’s court, establishing that dharma is enforced not only by social norms but by post-mortem adjudication.
Citragupta conveys Dharmarāja’s directives and the Yamadūtas identify classes of wrongdoers—false witnesses, slanderers, thieves (especially of brahmadeya and land), betrayers of trust, and perpetrators of violence toward parents or cows—assigning each a corresponding infernal torment and/or degrading rebirth.
The catalogue culminates in the principle of proportionality and latency: harms that corrode social trust and rightful possession (notably land and endowed gifts) ripen into prolonged naraka-suffering and repeated tiryagyoni births until karmic exhaustion, thereby restoring dharma’s balance.
No explicit historical sites, tīrthas by name, rivers, or regional toponyms are specified in the provided manuscript excerpt. The text references infernal locales and punishment-zones in general terms (e.g., raurava-naraka, vaitaraṇī), functioning as cosmographic rather than terrestrial geography.
The text presents karmavipāka as a moral-causal system: specific social and ritual harms (e.g., false testimony, theft of land or brahmadeya, betrayal of trust, violence toward parents/cows) generate proportionate punitive outcomes in naraka and subsequent rebirths. The instruction is deterrent and regulatory—actions that destabilize communal trust and lawful exchange are shown to produce extended suffering until karmic exhaustion.
No tithi, lunar month, seasonal rite, or calendrical marker appears in the provided excerpt. The time-structure is expressed instead through durations of punishment (e.g., hundreds or thousands of years) and repeated cycles of birth across species.
Although the content is primarily juridical and soteriological, it can be read as indirectly supporting Pṛthivī’s equilibrium: the narrative links ethical violations (especially land theft and depletion of communal resources like food/water access) to punitive correction, implying that dharma-based regulation safeguards the material conditions on which Earth’s social-ecological order depends.
The excerpt foregrounds cosmological administrators rather than dynastic history: Citragupta (record-keeper), Dharmarāja/Yama (judge), and Yamadūtas (enforcers). No royal genealogy or named human lineage is specified in the provided manuscript portion.
Answers come straight from the texts, with the shlokas they draw on. Ask in your own words.
A free sign-in with Google or Apple keeps your chat saved across web and the app.
Read Varaha Purana in the Vedapath app
Scan the QR code to open this directly in the app, with word-by-word meanings, Sanskrit recitation where available, and more.