Varaha Purana - Adhyaya 201
Varaha PuranaAdhyaya 20159 Shlokas

Adhyaya 201: The Battle between the Rākṣasas and Yama’s Attendant-Messengers

Rākṣasa-kiṅkara-yuddham

Mythic-Administration (Yama’s Justice) / Conflict-Narrative

本章置于伐罗诃(Varāha)与大地女神(Pṛthivī)的教诲框架中,叙述一则彰显宇宙治理与道德秩序执行的故事。使者们以种种伪装前来,禀告疲惫并请求调任;其诉求引发愤怒,并在记业官吉多罗笈多(Citragupta)的统筹下动员,他被描绘为公正无私、关怀一切众生福祉的监督者。叙事继而升级为与曼德诃(Mandeha)罗刹的大规模战斗,罗刹们动用多样坐骑、兵器与黑暗幻术(tāmasī māyā)。当罗刹败退时,转而投靠可怖的病苦化身阇伐罗(Jvara)。阇伐罗派遣使者去“烹煮”(惩治)作恶者;随后阎摩(Yama)出面调停,安抚阇伐罗并恢复秩序。此章以教化方式强调:因果问责、克制自守与维系有身生命治理之系统平衡。

Primary Speakers

VarāhaPṛthivīṚṣiputraDūtāḥCitraguptaMandehā rākṣasāḥJvaraYama (Dharmarāja)

Key Concepts

Dharma-rājya (cosmic jurisprudence under Yama)Citragupta as karmic record-keeper and administratorKiṅkara/dūta as enforcement agents of moral orderTāmasī māyā (concealment/illusion as tactical and ethical motif)Jvara as personified disease/affliction and punitive forceConflict as a metaphor for restoring systemic equilibrium

Shlokas in Adhyaya 201

Verse 1

अथ राक्षसकीङ्करयुद्धम् ॥ ऋषिपुत्र उवाच ॥ ततस्ते सहिताः सर्वे चान्योऽन्याभिरताः सदा ॥ नानावेषधरा दूताः कृताञ्जलिपुटास्तदा ॥

今(开始)与罗刹之侍从的战斗。仙人之子曰:于是诸使者悉皆会集,恒相协同,身着种种伪装,当时合掌恭敬而立。

Verse 2

दूता ऊचुः ॥ वयं श्रान्ताश्च क्षीणाश्च ह्यन्यान् योजितुमर्हसि ॥ वयमन्यत्करिष्यामः स्वामिन्कार्यं सुदुष्करम् ॥

使者曰:我等疲惫困乏,愿你另派他人。我等将另行其事,主上啊——此事极其艰难。

Verse 3

अन्ये हि तावत्तत्कुर्युर्यथेष्टं तव सुव्रत ॥ भगवन्स्म परिक्लिष्टाः त्राहि नः परमेश्वर ॥

他人自可为之,随你所愿,善誓者啊。我等实已困苦,福德之主啊;护佑我等,至上之主啊。

Verse 4

ततो विवृत्तरक्ताक्षस्तेन वाक्येन रोषितः ॥ विनिःश्वस्य यथा नागो ह्यपश्यत्सर्वतो दिशम् ॥

于是他双目赤红翻转,被那些话激怒,长长吐气如蛇,环顾四方诸方。

Verse 5

अदूरे दृष्टवान्कञ्चित्पुरुषं स ह्यनाकृतिम् ॥ स तु वेगेन सम्प्राप्त इङ्गितज्ञो दुरात्मवान् ॥

不远处,他看见一人,外貌似无定形。那恶人善于洞察征兆与心意,便疾速冲上前去。

Verse 6

निःसृतः स च रोषेण चित्रगुप्तेन धीमता ॥ ततः स त्वरितं गत्वा मन्देहा नाम राक्षसाः ॥

他被智者赤多罗笈多(Citragupta)的忿怒所驱逐。随后他急速前行,去到名为曼德诃(Mandeha)的罗刹众前。

Verse 7

नानारूपधरा घोरा नानाभरणभूषिताः ॥ विनाशाय महासत्त्वो यत्र तिष्ठन्महायशाः ॥

他们凶怖非常,化现种种形相,佩戴各类饰物;为趋向毁灭而行,来到那位伟大而声名显赫的强者所立之处。

Verse 8

चित्रगुप्तो महाबाहुः सर्वलोकार्थचिन्तकः ॥ समः सर्वेषु भूतेषु भूतानां च समादिशत् ॥

赤多罗笈多(Citragupta)臂力雄伟,思念诸世界之利益;对一切众生平等无私,遂就诸众生命令安排。

Verse 9

ततस्ते विविधाकाराः राक्षसाः पिशिताशनाः ॥ उपरुह्य तथा सर्वे मातङ्गांश्च हयं तथा ॥

于是那些食肉的罗刹,形貌各异,众皆登乘大象,亦复骑上骏马。

Verse 10

ब्रुवन्तश्च पुनर्हृष्टाः शीघ्रमाज्ञापय प्रभो ॥ तव सन्देशकर्त्तारः कस्य कृन्तामजीवितम् ॥

他们又欢喜地说道:“主啊,请速下令。我们既为你的使者,要斩断谁的性命?”

Verse 11

तेषां तद्वचनं श्रुत्वा चित्रगुप्तो ह्यभाषत ॥ रोषगद्गदया वाचा निःश्वसन् वै मुहुर्मुहुः ॥

听到他们的话,赤多罗笈多开口说道;他因愤怒而声音颤抖,不断地一再长叹吐息。

Verse 12

भो भो मन्देहका वीराः मम चित्तानुपालकाः ॥ एतान्बध्नीत गृह्णीत भूताराक्षसपुङ्गवाः ॥

“喂!喂!曼提诃的勇士们,守护我心意者——把这些人捆住,擒拿他们吧,诸灵与罗刹中的魁首!”

Verse 13

एवं हत्वा च बद्ध्वा च ह्यागच्छत पुनर्यथा ॥ हन्तारः सर्वभूतानां कृतज्ञा दृढ विक्रमा ॥

“如此,既杀且缚之后,仍如先前一般再回来——你们是屠戮众生者,尽责而勇力坚定。”

Verse 14

हत्वा वै पापकानेतान्मम विप्रियकारिणः ॥ एतच्छ्रुत्वा वचस्तस्य वचनं चेदमब्रुवन् ॥

“确实,杀掉这些作恶之人,他们违逆了我的意愿。”听到他这番话,他们便如此回答。

Verse 15

राक्षसाः ऊचुः ॥ श्रान्ता वा क्षुधिता वापि दुःखिता वा तपोधनाः ॥ अमात्याः एव ज्ञातव्याः भृत्याः शतसहस्रशः ॥

罗刹众说道:“无论疲惫、饥饿,或受苦者——凡富于苦行(tapās)之人,当被认作大臣;同样,也有成百上千、乃至数十万的仆从。”

Verse 16

एते वधार्थं निर्दिष्टास्त्वयैव च महात्मना ॥ न युक्तं विविधाकाराः ह्यस्माकं नाशनाय वै ॥

“这些正是你这位大心者亲自指派,为了杀戮而来。实不相宜让种种形相的众生,确然被安排来毁灭我们。”

Verse 17

यथा ह्येते समुत्पन्नाः सर्वधर्मानुचिन्तकाः ॥ तथा वयं समुत्पन्नास्तदर्थं हि भवानपि ॥

“正如这些众生兴起,作为思惟一切法(dharma)者;我们也同样兴起,而你亦是为此同一目的而现起。”

Verse 18

मा च मिथ्या प्रतिज्ञातं धर्मिष्ठस्य भवत्विति ॥ अस्माकं विग्रहे वीर मुच्यन्तां यदि मन्यसे ॥

“愿你至正之人所立之誓不致成虚。勇士啊,若你以为可行,就在我们的争战中释放他们吧。”

Verse 19

एवमुक्त्वा ततो घोरा व्याधयः कामरूपिणः ॥ सन्नद्धास्त्वरितं शूरा भीमरूपा भयानकाः ॥

说罢,那些可怖的维耶陀(Vyādha)——随意变形者——迅速披甲执兵:勇士们形貌狰狞,令人战栗。

Verse 20

गजैरन्ये तथा चाश्वै रथैश्चापि महाबलाः ॥ कण्टकैस्तुरगैर्हंसैरन्ये सिंहैस्तथापरे ॥

有些勇力雄强者乘象而来,也乘马,甚至驾战车;另一些乘带刺之兽,乘骏马,乘天鹅;还有一些则乘狮而至。

Verse 21

मृगैः सृगालैर्महिषैर्व्याघ्रैर्मेषैस्तथापरे ॥ गृध्रैः श्येनैर्मयूरैश्च सर्पगर्दभकुक्कुटैः ॥

另一些乘鹿、胡狼、水牛、虎与公羊而来;又乘秃鹫、鹰与孔雀,并乘蛇、驴与雄鸡而至。

Verse 22

एवं वाहनसंयुक्ता नानाप्रहरणोद्यताः ॥ समागताः महासत्त्वा अन्योन्यमभिकाङ्क्षिणः ॥

如是,众者具备坐骑,执持种种兵器而待发;诸大有情聚集而来,彼此皆欲相对交锋。

Verse 23

तूर्यक्श्वेडितसंघुष्टैर्बलितास्फोटितैरपि ॥ जयार्थिनो द्रुतं वीराश्चालयन्तश्च मेदिनीम् ॥

伴随乐器轰鸣与战呼震响,又有咆哮与击掌之声;诸勇士求胜心切,疾速推进,竟使大地为之战栗。

Verse 24

ततः समभवद्युद्धं तस्मिंस्तमसि सन्तते ॥ मुकुटैरङ्गदैश्चित्रैः केयूरैः पट्टिशासिकैः ॥

随后,当黑暗在彼处弥漫之时,战斗便爆发了——其间冠冕闪现,华美臂钏与肩饰交错,并有斧与剑相击。

Verse 25

सकुण्डलैः शिरोभिश्च भ्राजते वसुधातलम् ॥ बहुभिश्च सकेयूरैश्छत्रैश्च मणिभूषणैः

大地的表面熠熠生辉,散落着仍戴耳环的首级,以及许多臂钏、华盖与镶宝饰物。

Verse 26

शूलशक्तिप्रहारीश्च यष्टितोमरपट्टिशैः ॥ असिखड्गप्रहारीश्च बलप्राणसमीritaiḥ

有长矛与投枪的刺击,有棍棒、长枪与斧钺的猛击;又有刀剑与利刃的斩击——皆由力量与生命之气所驱使。

Verse 27

अभवद्दारुणं युद्धं तुमुलं लोमहर्षणम् ॥ नखैर्दन्तैश्च पादैश्च तेऽन्योऽन्यमभिजघ्निरे

战斗变得惨烈——喧嚣震天、令人毛骨悚然;他们以指甲、牙齿,甚至双足,彼此击打。

Verse 28

ततस्ते राक्षसा भग्ना दूतैर्घोरपराक्रमैः ॥ देहि देहि वदन्त्येव भिन्धि गृह्णीष्व तिष्ठ च

于是那些罗刹被勇猛可怖的使者击溃,仍不断高喊:“给!给!击碎他!抓住他!站稳!”

Verse 29

वध्यमानाः पिशाचास्ते ये निवृत्ता रणार्दिताः ॥ आहूयन्त प्रतिबयात्क्रोधसंरक्तलोचनाः

那些毗舍遮在战场上受逼迫而退却——即便正被杀戮——也因恐惧而再次被呼唤,双眼因愤怒而赤红。

Verse 30

तिष्ठ तिष्ठ क्व यासीति न गच्छामि दृढो भव ॥ मया मुक्तमिदं शस्त्रं तव देहविनाशनम्

“站住,站住——你要往哪里去?”“我不走;你且站稳。此乃我所放之兵刃,能毁灭你的身躯。”

Verse 31

किन्तु मूढ त्वया शस्त्रं न मुक्तं मे रुजाकरम् ॥ मया क्षिप्तास्तु इषवः प्रतीच्छ क्व पलायसे

“然而,愚者啊,你所放之兵刃并不能令我受痛。倒是我所掷之箭——接住吧!你往哪里逃?”

Verse 32

किं त्वं वदसि दुर्बुद्धे एषोऽहं पारगो रणे ॥ मम बाहु विमुक्तस्तु यदि जीवस्यतो वद

“你这恶慧之人,说的是什么?我在此——战阵之中已达彼岸、精于征战。我的臂力已得解放;若欲求生,便开口(陈述归服)。”

Verse 33

तत्र ते सहसा घोरा राक्षसाः पिशिताशनाः ॥ मन्देहा नाम नाम्ना ते वध्यमानाः सहस्रशः

在那里,忽然出现了可怖的罗刹(Rākṣasa),食肉之徒;其名曰“曼德诃”(Mandeha),正被成千上万地诛杀。

Verse 34

ततो भग्ना यदा ते तु राक्षसाः कामरूपिणः ॥ प्रत्यपद्यन्त ते मायां तामसीं तमसावृताः

随后,当那些能随意变形的罗刹被击溃时,他们在黑暗笼罩之下,转而施展幽暗之幻术。

Verse 35

अदृश्याश्चैव दृश्याश्च तद्बलं तमसावृताः ॥ ततस्ते शरणं जग्मुर्ज्वरं परमभीषणम् ॥

无形者与有形者——那些被黑暗所覆的力量——于是前去投奔阇伐罗(Jvara),那位极其可怖者。

Verse 36

शूलपाणिं विरूपाक्षं सर्वप्राणिप्रणाशनम् ॥ मन्देहा नाम नाम्ना वै राक्षसाः पिशिताशनाः ॥

——(他们描述)执三叉戟者、异形之眼者、毁灭一切众生者;并提到那些食肉的罗刹,确实以“曼德诃”(Mandeha)之名而闻。

Verse 37

वयमद्य महाभाग त्रायस्व जगतः पते ॥ ततस्तेषां वचः श्रुत्वा दूतानां कामरूपिणाम् ॥

“今日,噢有福者,请救护我们;噢世界之主,请庇佑我们。”随后,他听闻那些能随意变形之使者的话语,……

Verse 38

ज्वरः क्रुद्धो महातेजा योधानां तु सहस्रशः ॥ कालो मुण्डः केकराक्षो लोहयष्टिपरिग्रहः ॥

阇伐罗(Jvara)震怒而光威炽盛,(召集)千千战士——其中有迦罗(Kāla)、蒙陀(Muṇḍa)、计迦罗阿叉(Kekarākṣa)与罗诃耶什底帕利格罗诃(Lohayaṣṭiparigraha)。

Verse 39

विविधान्सन्दिदेशात्र पुरुषानग्निवर्चसः ॥ बद्धाञ्जलिपुटान्सर्वानिदमाह सुरेश्वरः ॥

他在此差遣诸多男子,光辉如火。众人合掌恭立之时,诸天之主如此说道:

Verse 40

पच शीघ्रमिमान्पापान्योगेन च बलेन च ॥ ततस्ते त्वरितं गत्वा यत्र ते पिशिताशनाः ॥

“以瑜伽之力与威势,速速焚尽这些罪恶之徒。”随后他们疾行,前往那些食肉者所在之处。

Verse 41

ज्वराज्ञया च ते सर्वे जीमूतघननिःस्वनाः ॥ बहूंस्ते राक्षसान्घोरान्दर्पोत्सिक्तान् सहस्रशः ॥

又奉阇伐罗(Jvara)之令,众人如密布雷云般轰鸣,扑向成千上万骇人的罗刹,皆因傲慢而自满。

Verse 42

बहुशस्त्रप्रहारैश्च शस्त्रैश्च विविधोज्ज्वलैः ॥ तरसा राक्षसा विग्ना रुधिरेण परिप्लुताः ॥

在无数兵刃的击打与各色辉耀武器之下,罗刹被猛然遏止,周身为鲜血所淹没。

Verse 43

मोचयामास संग्रामं स्वयमेव यमस्ततः ॥ राक्षसान्मोचयित्वाऽथ हन्यमानान्समन्ततः ॥

其后,阎摩(Yama)亲自令战斗止息。解救了那些在四面八方被诛杀的罗刹之后,……

Verse 44

गत्वा ज्वरं महाभागं विनयात्सान्त्वयन्मुहुः ॥ पूजयन् वै ज्वरं दिव्यं गृहीय हस्ते महायशाः ॥

他走近尊贵的阇伐罗(Jvara),以谦恭屡屡安抚;礼敬神圣的阇伐罗,那位声名卓著者执其手。

Verse 45

प्रविवेश गृहं स्वं तु सम्भ्रमेणेदृशेन तु ॥ आननं तु समुत्प्रोष्छ्य सङ्ग्रामे स्वेदबिन्दुवत् ॥

他怀着如此的惊惶进入自己的居所;抬起面容时,仿佛置身战阵,宛如周身覆满汗珠。

Verse 46

रोषायासकरं चैव सर्वलोकनमस्कृतः ॥ अहं त्वं चैव देवेश इमं लोकं चराचरम् ॥

他能引发忿怒与劳苦,却为诸世界所礼敬。“我与你,噢诸神之主,(统御)此世间之动与不动。”

Verse 47

शासेमहि यथाकामं यथादृष्टं यथाश्रुतम् ॥ त्वया ग्राह्यो ह्यहं देव मृत्युना च सुसंवृतः ॥

“让我们随心施行裁断与统治——依所见、依所闻。然而我必被你所擒,噢神明;我亦被死亡牢牢围裹。”

Verse 48

लोकान्सर्वानहं हन्मि सर्वघाती न संशयः ॥ गच्छ गच्छ यथास्थानं युद्धं च त्यजतु स्वयम् ॥

“我能击灭一切世界;我乃屠戮万有者——毫无疑问。去吧,去吧,回到你应在之处,让他自己舍弃战斗。”

Verse 49

राक्षसानां हतास्तत्र षष्टिकोट्यो रणाजिरे ॥ अमराश्चाक्षयाश्चैव न हि त्वां प्रापयन्ति वै ॥

在那里,在战场之上,六十俱胝罗刹被诛;即便是不死者、即便是不坏者,确实也不能及你(亦不能胜你)。

Verse 50

ततो ह्युपरतं युद्धं धर्मराजो यमः स्वयम् ॥ दूतानां चित्रगुप्तेन सख्यमेकमकारयत् ॥

于是战斗确实止息;法王阎摩亲自就诸使者之事,促成与赤多罗笈多的一项盟约。

Verse 51

सम्भाषन्ते ततो दूताश्चित्रगुप्तं तथैव च ॥ नियुञ्जस्व मया पूर्वं सर्वकर्माणि जन्तुषु ॥

随后诸使者也与赤多罗笈多交谈道:“如我先前所行,当为众生分派并记载一切业行。”

Verse 52

स्वकर्मगुणभूतानि ह्यशुभानि शुभानि च ॥ रुद्रं दूताः समागम्य चित्रगुप्तस्य पार्श्वतः ॥

确应审察:由自身业力所成之诸行,化为德性,或不祥或吉祥。诸使者趋近鲁陀罗,立于赤多罗笈多之侧。

Verse 53

उपस्थानं च कुर्वन्ति कालचिन्तकमब्रुवन् ॥ यथा लोका यथा राजा यथा मृत्युḥ सनातनः ॥

他们行侍立之礼,并对那思惟时间者说道:“世界如何,君王如何,死亡亦如是——恒常不灭。”

Verse 54

तदैवोत्तिष्ठ तिष्ठेति क्षम्यतां क्षम्यतां प्रभो

就在那时他们说道:“起身!站立!”——“愿蒙宽恕,愿蒙宽恕,主啊。”

Verse 55

बद्धगोधाङ्गुलित्राणा नानायुधधरास्तथा ॥ अग्रतः किंकराः कृत्वा तिष्ठन्पादाभिवन्दनम् ॥

他们穿着以捆缚的蜥蜴趾套制成的护具,手持种种兵器;又令随从立于前方,自己站立在彼足下,恭敬顶礼。

Verse 56

परित्रायस्व नो वीर किंकराणां महाबलान् ॥ हन्यमानान्हि रक्षोभिरस्मानद्य रणाजिरे ॥

勇士啊,请护佑我们——我们这些强力的随从;今日在战场上,我们正被罗刹所击杀。

Verse 57

बाहुभिः समनुप्राप्तः केशाकेशि ततः परम् ॥ अयुक्तमतुलं युद्धं तेषां वै समजायत ॥

他们以臂相逼而至;继而便是揪发对揪发。于是他们之间确实爆发了一场不受约束、无与伦比的争斗。

Verse 58

खादन्ति चैव घ्नन्ति स्म चित्रगुप्तेन चोदिताः ॥ व्याधीनां च सहस्राणि दूतानां च महाबलाः ॥

在吉多罗笈多(Citragupta)的驱使下,他们吞噬并击打;又有成千上万的疾病,以及强大的使者。

Verse 59

धर्मराजोऽथ विश्रान्तं कालभूतं महाज्वरम् ॥ किंकिं वृत्तमिदं देव व्यापिनस्त्वं महातपाः ॥

于是法王(Dharmarāja)对那歇息着、宛如时间化身的“大热病”摩诃阇伐罗(Mahājvara)说道:“这、这究竟发生了什么,神啊?你遍一切处,伟大的苦行者啊。”

Frequently Asked Questions

The narrative models cosmic governance as an accountability system: agents (dūtāḥ/kiṅkarāḥ) enforce order, Citragupta functions as an impartial administrator, and Yama ultimately restrains escalation. The text’s internal logic frames violence and punishment as instruments to re-stabilize dharmic order when predatory forces (rākṣasas) disrupt communal well-being.

No tithi, nakṣatra, māsa, or seasonal markers are specified in this adhyāya; it is structured as a continuous mythic episode rather than a ritual calendar instruction.

Although Pṛthivī is not explicitly foregrounded through ecological sites in this passage, the chapter frames “balance” as systemic regulation of harm across beings. By depicting Citragupta’s even-handed stance toward bhūtas and Yama’s de-escalation, the text can be read as extending an ethic of restraint and maintenance of a stable living order—an indirect analogue to preserving terrestrial equilibrium.

The chapter references primarily mythic-administrative figures: Citragupta, Yama (Dharmarāja), and Jvara. A narrator figure, Ṛṣiputra, appears, but no royal dynasties, historical kings, or named sage lineages are developed within this adhyāya’s content.

Read Varaha Purana in the Vedapath app

Scan the QR code to open this directly in the app, with audio, word-by-word meanings, and more.

Continue reading in the Vedapath app

Open in App