
Aśvinaujanma–Mārtaṇḍa–Saṃjñā–Chāyā–stotra-pradāna
Genealogical-Theogony and Ritual Merit (Stotra/Phala)
在毗罗诃(Varāha)与大地女神(Pṛthivī)的教诲对话中,本章回答:prāṇa 与 apāna 如何化身为神圣的阿湿毗尼双神(Aśvins)。叙事追溯从摩利支(Marīci)到迦叶(Kaśyapa)及十二阿底提耶(Ādityas)的谱系,重点在摩尔坦达(Mārtaṇḍa,即苏利耶 Sūrya)。娑姆吉尼(Saṃjñā)难耐其光辉,离去并留下影身恰耶(Chāyā),由此又生子并引发纷争:阎摩(Yama)诉母爱不均,恰耶诅咒他;苏利耶则授予阎摩宇宙司法之职,并以严厉之视诅咒沙尼(Śani)。其后苏利耶与化作母马的娑姆吉尼结合,精种分裂,prāṇa 与 apāna 遂成阿湿毗尼。阿湿毗尼修苦行并诵以梵(brahman)为旨的赞颂(stotra);生主/梵天(Prajāpati/Brahmā)赐予美貌、疗愈之力与享受苏摩(Soma)之权,并宣说依 tithi(月日)而得福德之法,含示宇宙秩序与守则之行、以及维系大地的祭仪时间相互贯通。
Verse 1
प्रजापाल उवाच । एवमग्नेः समुत्पत्तिर्जाता ब्रह्मन् महात्मनः । प्राणापानौ कथं देवावश्विनौ सम्बभूवतुः ॥ २०.१ ॥
普罗阇波罗说道:“如是,婆罗门啊,那位大心者已阐明阿耆尼的起源。那么,两位神祇——阿湿毗尼——如何成为prāṇa与apāna(生命之入息与出息)呢?”
Verse 2
मरीचिर्ब्रह्मणः पुत्रः स्वयं ब्रह्मा द्विसप्तभिः । रूपैर्व्यवस्थितस्तेषां मरीचिः श्रेष्ठतामगात् ॥ २०.२ ॥
摩利支是梵天之子——实亦如同梵天自身——在他们之中以十四种形相而安立;于诸形相中,摩利支得至最胜。
Verse 3
तस्य पुत्रो महातेजाः कश्यपो नाम वै मुनिः । स्वयं प्रजापतिः श्रीमान् देवतानां पिता अभवत् ॥ २०.३ ॥
其子为名迦叶波(Kaśyapa)之圣仙,具大威光;他自身成为尊贵的生主(Prajāpati),并被奉为诸天之父。
Verse 4
तस्य पुत्रा बभूवुर्हि आदित्या द्वादश प्रभो । आदित्यपत्यानि ते सर्वे आदित्यास्तेन कीर्तिताः ॥ २०.४ ॥
诚然,主啊,他有十二位儿子,即诸阿底提耶(Āditya)。因此,他们的一切后裔都被称颂为阿底提耶。
Verse 5
तेषां मध्ये महातेजा मार्त्तण्डो लोकविश्रुतः । नारायणात्मकं तेजो द्वादशं संप्रकीर्तितम् ॥ २०.५ ॥
在他们之中,光辉无比、为诸世所闻名的摩尔坦达(Mārtaṇḍa),被宣说为第十二种光耀,其本质即那罗延那(Nārāyaṇa)。
Verse 6
ये ते मासास्त आदित्याः स्वयं संवत्सरो हरिः । एवं ते द्वादशादित्या मार्त्तण्डश्च प्रधानवान् ॥ २०.६ ॥
你的诸月本身就是诸阿底提耶(Āditya);而诃利(Hari)以其自身之相即为一年(saṃvatsara)。因此,这便是十二阿底提耶,而摩尔坦达(太阳)为其中之首。
Verse 7
तस्य त्वष्टा ददौ कन्यां संज्ञां नाम महाप्रभाम् । तस्यापत्यद्वयं जज्ञे यमश्च यमुना तथा ॥ २०.७ ॥
工匠神特瓦什特里(Tvaṣṭṛ)将其女儿赐与他,名为三智尼亚(Saṃjñā),光辉灿然。由她诞生一对儿女:阎摩(Yama)以及阎牟那(Yamunā)。
Verse 8
तस्य तेजोऽप्यसहती बभूवाश्वी मनोजवा । स्वां छायां तत्र संस्थाप्य सा जगमोत्तरान् कुरून् ॥ २०.८ ॥
她无法承受他的光辉,便化作一匹母马,疾如意念;将自己的影身(Chāyā)安置于彼处后,前往北俱卢(Uttara-Kuru)。
Verse 9
तद्रूपां तां सवर्णां तु भेजे मार्त्तण्डभास्करः । तस्याः अपि द्वयं जज्ञे शनिं तपतिमेव च ॥ २०.९ ॥
玛尔坦达——太阳神(婆斯迦罗)取了与她容貌相称的同一形相。由她又诞生一对:沙尼与塔帕蒂。
Verse 10
यदा त्वसदृशं भेजे पुत्रान् प्रति नरोत्तम । संज्ञां प्रोवाच भगवान् क्रोधसंरक्तलोचनः । असमत्वं न कर्त्तव्यं स्वेष्वपत्येषु भामिनि ॥ २०.१० ॥
然而当那至善之人对诸子显出不当之态时,世尊双目因忿怒而赤,告诫三智尼(Saṁjñā)曰:“汝性情炽烈者,不可对自己的子女行不平等之事。”
Verse 11
एवमुक्ता यदा सा तु असमत्वं व्यरोचत । तदा यमः स्वपितरं प्रोवाच भृशदुःखितः ॥ २०.११ ॥
她虽受如此告诫,却仍显出偏私不均之心。于是阎摩(Yama)悲痛至极,对自己的父亲诉说。
Verse 12
नेयं माता भवेत् तात अस्माकं शत्रुवत् सदा । सपत्नीव वृत्ताचाराः स्वेष्वपत्येषु वत्सला ॥ २०.१२ ॥
“父亲啊,此女并非我们的真母;对我们她常如仇敌——行止如同共妻——却只怜爱她自己的孩子。”
Verse 13
एवं यमवचः श्रुत्वा सा छाया क्रोधमूर्च्छिता । शशाप प्रेतराजस्त्वं भविष्यस्यचिरादिव ॥ २०.१३ ॥
听罢阎摩之言,恰雅(Chāyā)为怒潮所制,遂发诅咒曰:“不久之后,你必成为亡灵之主——普雷塔罗阇(Pretarāja)。”
Verse 14
एवं श्रुत्वाऽथ मार्त्तण्डस्तदा पुत्रहितैषया । उवाच मध्यवर्ती त्वं भविता धर्मपापयोः । लोकपालश्च भविता त्वं पुत्र दिवि शोभसे ॥ २०.१४ ॥
玛尔坦达(太阳神)闻此之后,出于对儿子福祉的关怀而说道:“你将成为居于中间者,处在达摩(功德)与帕帕(罪业)之间。你也将成为护世者(Lokapāla);而你,我的儿子,将在天界熠熠生辉。”
Verse 15
शनिं शशाप मार्त्तण्डश्छायाकोपप्रधर्षितः । त्वं क्रूरदृष्टिर्भविता मातृदोषेण पुत्रक ॥ २०.१५ ॥
玛尔坦达因恰雅之怒而受激,遂诅咒沙尼:“由于你母亲的过失,孩子啊,你将成为目光凶厉、带来不祥之兆者。”
Verse 16
एवमुक्त्वा समुत्थाय योगं भानुर्दिदृक्षया । तामपश्यत्त्वसौ साश्वी उत्तरेषु कुरुष्वथ ॥ २०.१६ ॥
说罢,婆奴起身,欲以瑜伽之力观见(她);随即他看见那位永恒的女神,正在北方库鲁之地——乌塔拉库鲁。
Verse 17
ततोऽश्वरूपं कृत्वा स गत्वा तत्रोत्तरान् कुरून् । प्राजापत्येन मार्गेण युयोजात्मानमात्मना ॥ २०.१७ ॥
随后他化作马形,前往北方库鲁;循普拉阇帕提亚(Prajāpatya)之道,他以自身之力自我系缚、使之相应。
Verse 18
तस्यां त्वाष्ट्र्यामश्वरूप्यां मार्त्तण्डस्तीव्रतेजसः । बीजं निर्वापयामास तज्ज्वलन्तं द्विधा अपतत् ॥ २०.१८ ॥
在她——具马形的特瓦什特丽(Aśvarūpī)——之中,光辉炽盛的玛尔坦达安置其种子;而那炽燃的种子坠落为两部分。
Verse 19
तत्र प्राणस्त्वपानश्च योनौ चात्मजितौ पुरा । वरदानेन च पुनर्मूर्तिमन्तौ बभूवतुः ॥ २०.१९ ॥
在那里,普拉那与阿帕那——昔日于胎中自制——因蒙赐福,复又得具形体而成身。
Verse 20
तौ त्वाष्ट्र्यामश्वरूपिण्यां जातौ येन नरोत्तमौ । ततस्तावश्विनौ देवौ कीर्त्येते रविनन्दनौ ॥ २०.२० ॥
那两位至善之人由化作母马的特瓦什特丽所生;因此这两位天神被称颂为阿湿毗那双神,乃拉维(太阳)之子。
Verse 21
प्रजापतिः स्वयं भानुस्त्वाष्ट्रॄ शक्तिः परापरा । तस्याः प्राग्वच्छरीरस्थावमूर्त्तौ मूर्तिमाश्रितौ ॥ २०.२१ ॥
生主(Prajāpati)即是婆奴(Bhānu)自身;而特瓦什特丽之力(śakti)既超越亦内在。如同先前,从她——住于身中——两种虽未显现的原理,依止而现为有形。
Verse 22
ततस्तावश्विनौ देवौ मार्त्तण्डमुपतस्थतुः । उचतुः स्वरुचिं तावत् किं कर्तव्यमथावयोः ॥ २०.२२ ॥
随后,两位阿湿毗那天神趋近摩尔坦达(太阳)。他们对斯瓦鲁奇说道:“如今我们当作何事?”
Verse 23
मार्त्तण्ड उवाच । पुत्रौ प्रजापतिं देवं भक्त्याराधयतां वरम् । नारायणं स वो दाता वरं नूनं भविष्यति ॥ २०.२३ ॥
摩尔坦达说道:“孩子们,当以虔敬礼拜生主这位至上神祇。那罗延——唯有他——必定将赐予你们恩愿。”
Verse 24
एवं तावश्विनौ प्रोक्तौ मार्त्तण्डेन महात्मना । तेपतुस् तीव्रतपसौ तपः परमदुष्चरम् । ब्रह्मपारामयं स्तोत्रं जपन्तौ तु समाहितौ ॥ २०.२४ ॥
如是,承大心之玛尔坦达(太阳神)开示,双阿湿毗尼在严峻苦行中修持,行极难行之大苦行;并以专注之心诵念一首趋向至上梵(Brahman)的圣赞。
Verse 25
तयोः कालेन महता ब्रह्मा नारायणात्मकः । तुतोष परमप्रीत्या वरं चैतं ददौ तयोः ॥ २०.२५ ॥
经由漫长岁月,梵天(Brahmā)——其本性与那罗延(Nārāyaṇa)相应——对他们极为欢喜,并以深厚慈爱赐予二者此一恩赐。
Verse 26
प्रजापाल उवाच । अश्विभ्यामीरितं स्तोत्रं ब्रह्मणोऽव्यक्तजन्मनः । श्रोतुमिच्छाम्यहं ब्रह्मंस्त्वत्प्रसादान्महामुने ॥ २०.२६ ॥
护生主(Prajāpāla)说道:“噢,婆罗门、大牟尼,承汝恩许,我愿聆听那由双阿湿毗尼所宣说之圣赞;此赞关乎梵天(Brahmā),其出生本源为不显(avyakta)。”
Verse 27
महातपा उवाच । शृणु राजन् यथा स्तोत्रमश्विभ्यां ब्रह्मणः कृतम् । ईदृशं च फलं प्राप्तं तयोः स्तोत्रस्य चानघ ॥ २०.२७ ॥
摩诃塔帕(Mahātapā)说道:“听吧,国王啊,双阿湿毗尼为梵天所作之赞歌是如何;又,清净无垢者啊,也当听闻他们因那赞歌而获得何等果报。”
Verse 28
ॐ नमस्ते निष्क्रिय निष्प्रपञ्च निराश्रय निरपेक्ष निरालम्ब निर्गुण निरालोक निराधार निर्जय निराकार । ब्रह्मन् महाब्रह्मन् ब्राह्मणप्रिय पुरुष महापुरुषोत्तम । देव महादेवोत्तम स्थाणो स्थितस्थापक । भूत महाभूत भूताधिपति यक्ष महायक्ष यक्षाधिपते । गुह्य महागुह्याधिपते सौम्य महासौम्य सौम्याधिपते । पक्षि महापक्षिपते दैत्य महादैत्याधिपते । रुद्र महारुद्राधिपते विष्णु महाविष्णुपते । परमेश्वर नारायण प्रजापतये नमः । एवं स्तुतस्तदा ताभ्यामश्विभ्यां स प्रजापतिः । तुतोष परमप्रीत्या वाक्यं चेदमुवाच ह ॥ २०.२८ ॥
“唵。敬礼于汝——无为者,超越诸相之展开者,无所依者,无所待者,无所凭者,无德相者(nirguṇa),无可见境界者,无所基者,不可胜者,无形者。梵啊,大梵啊;喜爱婆罗门者;普鲁沙(Purusha),诸大丈夫中之最上。天神啊,诸大神中之最上;常住者(Sthāṇu),安住并建立安住者。众生啊,大众生啊;众生之主;夜叉啊,大夜叉,夜叉之主;隐秘众(Guhya)之主;温和者啊,至温和者,温和之主;鸟啊,大鸟之主;阿修罗族(Daitya)啊,大阿修罗之主;鲁陀罗啊,大鲁陀罗之主;毗湿奴啊,大毗湿奴之主;至上主啊,那罗延(Nārāyaṇa)——敬礼于生主(Prajāpati)。”当时双阿湿毗尼如是赞颂,生主极为欢喜,遂宣说如下言辞。
Verse 29
वरं वरयतां शीघ्रं देवैः परमदुर्लभम् । येन मे वरदानेन चरतस्त्रिदिवं सुखम् ॥ २०.२९ ॥
请迅速赐我一项恩赐——即使诸天也极难获得的恩赐——凭此赐福,我得以往来行走之时,享受三重天界的安乐。
Verse 30
अश्विनावूचतुः । आवयोऱ्यज्ञभागं तु देहि देव प्रजापते । सोमपत्वं च देवानां सामान्यत्वं च शाश्वतम् ॥ २०.३० ॥
阿湿毗双神说道:“噢,神圣的生主(Prajāpati)啊,请赐予我们在祭祀中的应得份额;并赐予我们在诸天之中共饮苏摩的权利,以及恒常不变的同等地位。”
Verse 31
ब्रह्मोवाच । रूपं कान्तिरनौपम्यं भिषक्त्वं सर्ववस्तुषु । सोमपत्वं च लोकेषु सर्वमेतद् भविष्यति ॥ २०.३१ ॥
梵天说道:“美貌、光辉、无比的卓越、于一切事物皆具医治之巧,以及在诸世界中为苏摩之主的地位——这一切都将实现。”
Verse 32
एतत् सर्वं द्वितीयायामश्विभ्यां ब्रह्मणा पुरा । दत्तं यस्मादतस्तेषां तिथीनामुत्तमा तिथिः ॥ २०.३२ ॥
由于这一切在往昔由梵天于月相第二日(dvitīyā,二日月)赐予阿湿毗双子,因此在诸月日(tithi)之中,此一月日被尊为最上。
Verse 33
एतस्यां रूपकामास्तु पुष्पाहारो भवेन्नरः । संवत्सरं शुचिर्नित्यं सुस्वरूपी भवेन्नरः । अश्विभ्यां ये गुणाः प्रोक्तास्ते तस्यापि भवन्ति च ॥ २०.३३ ॥
在此日,欲求美貌者当以花为食。若能一年之中恒常清净,此人将得殊胜端严之形;而所宣说属于阿湿毗双神的诸德,也将同样降临于他。
Verse 34
य इदं शृणुयान्नित्यमश्विभ्यां जन्म चोत्तमम् । सर्वपापविनिर्मुक्तः पुत्रवान् जायते नरः ॥ २०.३४ ॥
凡恒常聆听此叙述——关于与阿湿毗那双神相关的殊胜诞生——之人,皆能脱离一切罪业,并得子嗣之福,具足儿子而生。
The chapter models dharma as regulated impartiality and role-based responsibility: unequal treatment within kinship produces social suffering, while curses and boons function as narrative tools to assign stable cosmic offices (e.g., Yama’s juridical role). Tapas and disciplined praise (stotra) are presented as legitimate means to obtain recognized rights within the sacrificial order, implying that orderly conduct and authorized ritual participation uphold broader cosmic—and by extension terrestrial—stability.
A specific lunar marker is emphasized: dvitīyā-tithi is called “uttamā tithiḥ” because boons were granted to the Aśvins on that day. The text adds a merit instruction that observances on this tithi (including purity and regulated diet such as puṣpāhāra) yield bodily beauty and the Aśvins’ qualities, indicating a calendrical discipline rather than a seasonal rite.
Environmental balance is implicit rather than explicit: the narrative links cosmic governance (solar lineage, time-keeping via months/Ādityas, and tithi-based observance) to a stable order that supports life on Earth. By presenting prāṇa and apāna as divine agents (Aśvins) and tying their social recognition to disciplined ritual time, the chapter frames terrestrial well-being as dependent on regulated cosmic rhythms and ethically managed roles.
The chapter references Purāṇic lineages and figures: Marīci (son of Brahmā), Kaśyapa (as prajāpati), the twelve Ādityas, Mārtaṇḍa (Sūrya), Tvaṣṭṛ, Saṃjñā, Chāyā, Yama, Yamunā, Śani, and the Aśvinau. It also identifies Prajāpati/Brahmā with a Nārāyaṇa-oriented identity in the stotra context, reflecting theological syncretism within genealogical narration.