
Dharmarājapuravarṇanam
Ancient-Geography (Otherworld Topography) / Ethical-Discourse (Karmic Vision)
在婆罗诃与大地女神(Pṛthivī)的教诲框架中,毗舍波耶那向诸仙(ṛṣi)转述那支迦多(Nāciketa)所见阎摩法王(Dharmarāja,Yama)之城。经文描绘一座广袤坚固、金饰辉煌的都城,遍布宫殿、楼阁、河流、湖泊、水井、林苑与众多生类。其间诸有情身魂呈现喜乐、苦恼、嬉戏、睡眠、系缚等不同境况,皆被说明为自作业力之可见果报,粗细(sthūla、sūkṣma)众生“随其业而见”。全景的中轴为普施波陀迦/毗婆斯瓦提河(Puṣpodakā/Vaivasvatī),水清香洁,莲土遍布,具天界游乐之境,作为教化之地,彰显道德因果与如人间般环境秩序的治理。
Verse 1
अथ धर्मराजपुरवर्णनम् ॥ वैशम्पायन उवाच ॥ तेषां तद्वचनं श्रुत्वा ऋषीणां भावितात्मनाम् ॥ उवाच वाक्यं वाक्यज्ञः सर्वं निरवशेषतः ॥
现在讲述法王(阎摩,Dharmarāja/Yama)之城的描写。毗舍波耶那(Vaiśampāyana)说:听闻那些自心调御的圣仙之言后,那位善于言辞者将一切无遗地陈述出来。
Verse 2
नाचिकेत उवाच ॥ श्रूयतां द्विजशार्दूलाः कथ्यमानं मया द्विजाः ॥ योजनानां सहस्रं तु विस्ताराद्द्विगुणायतम् ॥
那支计多(Nāciketa)说:“请听吧,诸位二次生中的雄杰;我将为诸位婆罗门(dvija)述说。其宽一千由旬(yojana),其长为其二倍。”
Verse 3
द्विगुणं परिवेषेण तद्वै प्रेतपतेः पुरम् ॥ भवनैरावृतं दिव्यैर्याम्बूनदमयैः शुभैः ॥
其外又以加倍尺度之围垣环绕;那确是亡者之主(Preta-pati,阎摩)之城。城中四周皆为吉祥神圣的宫第,皆以阎浮檀金(jāmbūnada)铸成。
Verse 4
हर्म्यप्रासादसंबाधमहाट्टालसमन्वितम् ॥ सौवर्णेनैव महता प्राकारॆणाभिवेष्टितम् ॥
楼阁宫殿鳞次栉比,并具宏大的瞭望高塔;又以巨大的金色城墙(prākāra)环绕围护。
Verse 5
कैलासशिखराकारैर्भवनैरुपशोभितम् ॥ तत्र वै विमला नद्यस्तोयपूर्णाः सुशोभनाः ॥
其间以形如凯拉萨(Kailāsa)峰峦之宅邸为饰;那里又有清净明丽的河流,水量充盈,极其庄严可观。
Verse 6
दीर्घिकाश्च तथा कान्ता नलिन्यश्च सरांसि च ॥ तडागाश्चैव कूपाश्च वृक्षषण्डाः सुशोभनाः
那里有绵长的池塘、可爱的莲林与湖泊;又有蓄水池、井泉,以及装点得极其秀美的成片树丛。
Verse 7
नरनारीसमाकीर्णा गजवाजिसमाकुलाः ॥ नानादेशसमुत्थानैर्नानाजातिभिरेव च
城中挤满了男女,象马成群;又有来自诸多国土、属于诸多族类与社群的人们居住其间。
Verse 8
सर्वजीवैस्तथाकीर्णं तस्य राज्ञः पुरोत्तमम् ॥ क्वचिद्युद्धं क्वचिद्द्वन्द्वं तेन बद्धो यमालये
那位国王的殊胜之城就这样充满了各类众生。此处有战斗,彼处有决斗;因此他被系缚于阎摩之所。
Verse 9
क्वचिद्गायन् हसांश्चैव क्वचिद्दुःखेन दुःखितः ॥ क्वचित्क्रीडन् यथाकर्म क्वचिद्भुञ्जन् क्वचित्स्वपन्
有时他歌唱而欢笑;有时又因受苦而忧伤。或依其业而嬉戏;或进食,或安眠。
Verse 10
स्वकर्मभिः प्रदृश्यन्ते स्थूलाः सूक्ष्माश्च जन्तवः ॥ मया दृष्टा द्विजश्रेष्ठास्तस्य राज्ञः पुरोत्तमे
众生——粗显与微细者——皆随其自业而显现。噢,最胜的二次生者,我在那位国王的殊胜之城中亲见此景。
Verse 11
अङ्गानि चैव सीदन्ति मनो विह्वलतीव मे ॥ दिव्यभावाः स्पृशन्त्येते चिन्तयानस्य तत्फलम्
我的肢体确实渐渐无力,我的心神仿佛迷惘。正当我观想其果报之时,这些神圣的境界触及于我。
Verse 12
तथापि कथयिष्यामि यथादृष्टं तथाश्रुतम् ॥ पुष्पोदका नाम तत्र नदीनाṃ प्रवरा नदी
即便如此,我仍将如实叙述所见所闻。彼处有一条诸河之冠的河流,名为“普湿波乌达迦”(Puṣpodakā)。
Verse 13
दृश्यते न च दृश्येत नानावृक्षसमाकुला ॥ सुवर्णकृतसोपाना दिव्यकाञ्चनवालुका
它显现——却又似乎不可见,奇妙难思;其间繁茂诸般树木,阶梯以黄金铸成,沙砾亦为神圣的金色之沙。
Verse 14
प्रसन्नेन च तोयेन शीतलेन सुगन्धिना ॥ पुष्प्यत्फलवनाकीर्णा नाना पक्षिसमाकुला
其水澄澈,清凉而芬芳;两岸遍布开花结果之林,群集着种种飞鸟。
Verse 15
भ्राजते सरितां श्रेष्ठा सर्वपापप्रणाशिनी ॥ तस्यास्तीरे मया दृष्टाः पादपाश्च सहस्रशः
它光辉灿然,为诸河之最,能灭尽一切罪业。在它的河岸上,我见到成千上万的树木。
Verse 16
अमराः क्रीडमानाश्च जलक्रीडां पुनःपुनः ॥ विशालजघना यस्यां गन्धर्वाः सामगा इव
在那里,不死者一再于水中嬉戏;在那条河里,有丰臀的女子相伴,而乾闼婆歌唱,宛如诵唱《娑摩》圣歌的歌师。
Verse 17
भुजङ्गावनताङ्ग्यश्च किन्नर्यश्च सुगायनाः ॥ दिव्यभूषणसम्भोगैः क्रीडन्त्यत्र समागताः
此处,肢体如蛇般柔美回旋的女子,以及善歌的紧那罗女众,聚集而来,佩享天界妙饰,嬉戏作乐。
Verse 18
एवं नारीसहस्राणि तत्र दिव्यानि नित्यशः ॥ क्रीडन्ति सलिले तत्र प्रासादेषु शुभेषु च
如是,那里成千上万的天女恒常嬉戏:或在水中,或在吉祥的宫殿楼阁之内。
Verse 19
प्रमदाश्च जले तत्र कामरूपाः सुमेखलाः ॥ रमयन्त्यो नरास्तत्र यथाकामं यथासुखम्
又在那水中,有可爱之女——能随意变现形貌,佩以精美腰带——依众人所欲、所安,娱悦彼处男子。
Verse 20
तां नदीं क्षोभयन्त्यस्ताः क्रीडन्ति सहिताः प्रियैः ॥ गायन्ति सलिले काश्चिन्मधुरं मधुविह्वलाः
她们搅动那条河流,与所爱之伴同戏;其中一些沉醉于甘美(如春蜜),在水中婉转歌唱。
Verse 21
जलतूर्यनिनादेन भूषणानां स्वनेन च ॥ भाति सा निम्नगा दिव्या दिव्यरत्नैरलंकृता
伴随水中乐器的回响与饰物的叮当声,那神圣的河流熠熠生辉,点缀着天界宝珠。
Verse 22
वैवस्वती नाम महानदी सा शुभा नदीनां प्रवरा अतिरम्या ॥ प्रयाति मध्ये नगरस्य नित्यं मातेव पुत्रं परिपालयन्ती
那条大河名为“Vaivasvatī”,吉祥而为诸河之首,极其悦人。她恒常流经城邑中央,如母护子般守护着它。
Verse 23
तोयानुरूपा च मनोहरा च दिव्येन तोयेन सदैव पूर्णा ॥ यस्यास्तु हंसाः पुलिनेषु मत्ताः कुन्देन्दुवर्णाः प्रचरन्ति नित्यम्
她与其水势相称而妩媚,常满盈着神圣之水。其岸边,天鹅因喜悦而沉醉,洁白如茉莉与明月,恒常徘徊游行。
Verse 24
रथाङ्गसाह्वैः प्रवरैश्च पद्मैः प्रतप्तजाम्बूनद कर्णिकाभिः ॥ या दृश्यते चैव मनोज्ञरूपा सुवर्णसोपानयुता सुकान्ता
她形貌可爱,映入眼帘:以名为rathāṅga的上妙莲华为饰,其莲房如炽热的阎浮那陀金;又妍丽动人,并设有金色阶梯。
Verse 25
यस्यास्तु तोयं विमलं सुगन्धि स्वादु प्रसन्नं त्वमृतोपमं च ॥ वृक्षास्तु यस्या वनखण्डजाताः सदा शुभैः पुष्पफलैरुपेताः
她的水清澈芬芳,甘甜澄静,实可比于甘露(amṛta)。她林苑中所生之树,常具吉祥花果,终年不绝。
Verse 26
नार्यः सुरूपा मदविह्वलाश्च क्रीडन्ति ता यत्र मनोज्ञरूपाः ॥ यस्यां जनः क्रीडनताडनाद्यैर्विवर्णतां याति न वै कदाचित् ॥
在那里,容貌姣好的女子,微醉于欢悦,嬉戏游乐,形姿可爱。在那处,人们无论何时都不会面色苍白、失去光泽,即使在游戏、击打等种种嬉乐之中亦然。
Verse 27
या देवतानामपि पूजनीया तापनिधीनां च तथा मुनीनाम् ॥ या दृश्यते तोयभरेण कान्ताकृतिः कवीनामिव निर्मलार्था ॥
她/那光辉的存在,连诸天神也应当礼敬;同样也为积聚苦行之力者与诸牟尼所当崇奉。她/那被见为水量充盈、形貌可爱——如诗人之言,义理澄明。
Verse 28
वादित्रगीतस्वनतालयुक्ता गायन्ति नार्यः सहिताः सदा हि ॥ कन्याकुलानां मृदुभाषितानि मनोहराणां च वनेषु तेषु ॥
伴随着乐器与歌声的音响与节拍,众女子相聚,恒常歌唱。并且在那些林苑之中,回荡着少女群体柔和而动人的言语。
Verse 29
कुर्वन्ति संहर्षमिव स्वनेन मनोज्ञरूपा दिवि देवतानाम् ॥ मृदङ्गनादश्च सुतन्त्रियुक्तगीतध्वनिश्चैव सुवंशयुक्तः ॥
凭其声响,她们仿佛激起欢欣,形姿可爱,宛如为天界诸神而奏。其间亦有mṛdaṅga鼓的浑厚回响,有弦乐相伴的歌声之音,并有与suvaṃśa(竹笛)相和的音调。
Verse 30
प्रासादकुञ्जेषु विहार्यमाणा न तृप्तिमेवं बहु ताः प्रयान्ति ॥ गन्धः सुगन्धोऽगुरुचन्दनानां वातः शुभो वाति सुशीतमन्दः ॥
在宫苑的林园中游乐,她们纵经多般享受亦不觉餍足。其处弥漫着沉香(aguru)与檀香(chandana)的妙香,吉祥之风徐徐吹拂,清凉而柔和。
Verse 31
क्वचित् सुगन्धः प्रचचार भूयः प्रासादरोधं प्रविरूढमार्गः ॥ क्वचिज्जनाः क्रीडनकावसक्ताः क्वचिच्च नारीनरगीतशब्दाः ॥
在某些地方,芬芳一再弥漫,沿着宫墙旁滋生的小径寻得通路;在某些地方,人们沉浸于嬉戏;在某些地方,又传来男女合唱的歌声。
Verse 32
तथाऽपरे क्रीडनकाः सकान्ताः सुवर्णवेदीकृतसानुशोभाः ॥ विमानभूताः प्रचरन्ति तोये प्रमत्तनारीनरसं्कुलाश्च ॥
同样,另一些人嬉游作乐,偕同所爱之人,台阶露台如金台般装饰华美;他们在水上往来,宛如化作空中楼阁;其间挤满了欢醉的男女。
Verse 33
शक्यो विभागो न हि रम्यताया ह्यसौ दिनैर्वा बहुभिः प्रवक्तुम् ॥ नैषा कथा कर्मसमाधियुक्ता शक्त्या प्रवक्तुं दिवसैरनल्पैः ॥
诚然,那般美妙之全貌,纵使历经多日也难以尽述。此一叙述与持戒之行与专注之定相连,即便耗费长久时日与巨大心力,也难以充分宣说。
Verse 34
क्वचिन्नृत्यन् क्वचित्तिष्ठन् क्वचिद्बन्धनसंस्थितः ॥ एवं शतसहस्राणि तस्य राज्ञः पुरोत्तमे ॥
此处有人起舞,此处有人伫立,此处有人处于拘束与约束之中;如是种种,成百上千、乃至十万之多,皆在那位国王最胜之城中呈现。
Verse 35
तत्रापरे वृक्षषण्डा नित्यपुष्पफलान्विताः ॥ ते च कामप्रदा नित्यं तथा द्विजसमायुताः ॥
此外,那里还有成片的树丛,常年具足花与果。它们不断赐予人们所愿之物,也同样为诸“二生者”(dvija,受过吠陀教养的贤者)所往来。
Verse 36
जलं च दत्तं बहुभिर्नरैश्च तस्याः स्वरूपप्रतिमा च निष्ठा ॥ प्रासादपङ्क्तिर्ज्वलनप्रकाशा तस्यास्तु तीरे बहुभक्तिरम्याः ॥
许多人献上清水;并且也坚定地安立了她的形相之像。她的岸边排列着如宫殿般的殿宇,光辉如火焰之明,因众多虔敬而格外庄严可爱。
The chapter presents karmaphala as empirically legible: beings are “seen” in diverse states (bondage, joy, suffering, leisure) as outcomes of their own actions (svakarma). The narrative uses the orderly city and river landscape of Dharmarāja to externalize moral causality, implying that governance—cosmic or social—operates through structured accountability rather than arbitrary reward or punishment.
No explicit calendrical markers (tithi, nakṣatra, māsa, or seasonal rites) are specified in this adhyāya. The emphasis is spatial and observational—describing locations, populations, and conditions—rather than prescribing time-bound ritual practice.
Although set in an otherworldly city, the text models environmental order through integrated waterways, groves, and clean, fragrant river systems (Puṣpodakā/Vaivasvatī) that sustain recreation, settlement aesthetics, and social life. Read through an environmental-stewardship lens, the chapter treats well-managed rivers, banks, and plant habitats as core infrastructure of a stable realm—an implicit template for how “earth-like” spaces (Pṛthivī’s domain) are preserved through cleanliness, abundance, and regulated use.
The narrative frame names Vaiśampāyana (as narrator to the ṛṣis) and Nāciketa (as the eyewitness speaker). Dharmarāja/Yama (also implied by terms like pretapati and yamālaya) is the central administrative figure of the described realm. No terrestrial royal dynasties or historical genealogies are provided in this chapter.