
Naciketasya Yamālaya-gamana-nivṛttiḥ (Āgamanavarṇanam)
Ethical-Discourse (Afterlife, Karma, and Dharmic Causality)
本章以普拉那的教诲体例(为一致性而置于婆罗诃—大地女神对话框架)叙述那支迦多从阎摩之境归来。其父为苦行宝藏(tapo-nidhi),拥抱他并当众惊叹:少年竟至阎摩之宫(bhavana)而迅速返还,将重逢归因于父爱(pitṛ-sneha)、事师奉侍(guruśuśrūṣā)与天命(daiva)。诸苦行者与圣仙(ṛṣi)聚集,暂止苦修,询问他所见:法王/时神(Dharmarāja/Kāla)的本性、疾病与业报成熟(karmic vipāka)的机制,以及何种行持能令众生解脱。那支迦多开示:众生自受其业之果;此世所作,来世必得受用或受苦,皆在时间(kāla)之“幻力/秩序”(māyā)中运行。
Verse 1
अथ नचिकेतसो आगमनवर्णनम् ॥ वैशम्पायन उवाच ॥ गतश्च परमं स्थानं यत्र राजा दुरासदः ॥ अर्चितस्तु यथान्यायं दृष्ट्वैव तु विसर्जितः
现在叙述那支迦多(Naciketas)的到来。毗舍波耶那(Vaiśampāyana)说:他前往至高之处,那里有难以接近的王(阎摩,Yama);按礼受敬之后,仅仅被看见,便随即被遣退。
Verse 2
ततो हृष्टमना राजन्पुत्रं दृष्ट्वा तपोनिधिः ॥ परिष्वज्य च बाहुभ्यां मूर्द्धन्याघ्राय यत्नतः
于是,王啊,那位蕴藏苦行之德者见到儿子,心中欢喜;便以双臂拥抱,并郑重地在其头顶轻嗅亲吻。
Verse 3
दिवं च पृथिवीं चैव नादयामास हृष्टवत् ॥ स संहृष्टमनाः प्रीतस्तानुवाच तपोधनान्
他欢然使天与地都为之回响;随后心怀欣悦、满怀喜悦,便对那些苦行深厚的仙人们开口说道。
Verse 4
पश्यन्तु मम पुत्रस्य प्रभावं दिव्यतेजसः ॥ यमस्य भवनं गत्वा पुनः शीघ्रमिहागतः
“让他们见证我儿那具神圣光辉的威力:他已前往阎摩之居所,却又迅速回到此处。”
Verse 5
पितृस्नेहानुभावेन गुरुशुश्रूषयापि च ॥ दैवेन हेतुनाचायं जीवन्दृष्टो मया सुतः
“凭借孝爱之力,又因侍奉师长之功,并且亦有神圣因缘,我得以见到此子仍然活着。”
Verse 6
लोके मत्सदृशो नास्ति पुमान्भाग्यसमन्वितः ॥ एष मृत्युमुखं गत्वा मम पुत्र इहागतः
“世间无人如我这般有福:我儿曾至死神之口,却仍来到此处。”
Verse 7
कच्चित्त्वं न हतो वत्स नैव बद्धो यमालये ॥ कच्चित्ते स शिवः पन्था गच्छतस्तव पुत्रक
你确实没有受伤吧,亲爱的孩子,也没有在阎摩的居所被捆缚吧?我的小儿啊,你前行之时,确实走上了吉祥的湿婆之道吧?
Verse 8
कच्चित्ते व्याधयो घोरा नान्वगच्छन्यमालये ॥ किमपूर्वं त्वया दृष्टं कच्चित्तुष्टो महातपाः
在阎摩的居所里,可怕的疾病确实没有追随你吧?你看见了什么前所未见之事?那位大苦行者确实满意了吗?
Verse 9
कच्चिद्राजा त्वया दृष्टः प्रेतानामधिपो बली ॥ परुषेण न कच्चित्त्वां यमः पश्यति चक्षुषा
你确实见到了那位王者——阎摩,强大的亡者之主吧?阎摩确实没有以严厉的目光注视你吧?
Verse 10
कच्चिद्दौवारिकास्तत्र न रौद्रास्त्वां यमालये ॥ कच्चिद्राज्ञा विसृष्टं तु न बाधन्तेतरे जनाः
在阎摩的居所里,那些守门者确实没有对你凶暴吧?而当你奉王命被释放之后,其他众生也确实没有为难你吧?
Verse 11
कच्चित्पन्थास्त्वया लब्धो निर्गमो वा यमालये ॥ अयं मम सुतः प्राप्तः प्रसन्ना मम देवताः
你确实找到了道路——从阎摩居所出去的出口吧?我的这个儿子已归来;诸天护佑之神明对我已显慈悦。
Verse 12
ऋषयश्च महाभागा द्विजाश्च सुमहाव्रताः ॥ यन्मे वत्स पुनः प्राप्तो यमलोकाद्दुरासदात् ॥
那些有大福德的圣仙与具二次出生之德的婆罗门,持守极大誓愿,(心念):“我的孩子竟又从难以到达的阎摩之界归来于我。”
Verse 13
एवमाभाषमाणं तु श्रुत्वा सर्वे वनौकसः ॥ त्यक्त्वा व्रतानि सर्वाणि नियमांश्च तथैव च ॥
听他如此言说,所有林居之人便暂且放下他们的一切誓愿,也同样放下诸般戒律行持。
Verse 14
जपन्तश्चैव जाप्यानि पूजयन्तश्च देवताः ॥ ऊर्ध्वबाहवः केचित्तिष्ठन्तोऽन्ये सुदारुणम् ॥
有人诵持应诵之真言,有人礼敬诸天;有人举臂上举而立,另有人则保持严酷的苦行姿势。
Verse 15
एकपादेन तिष्ठन्तः पश्यन्तोऽन्ये दिवाकरम् ॥ एवमेव परित्यज्य नियमान्पूर्वसञ्चितान् ॥
有人独足而立,有人凝视日轮。就这样,他们把先前积累的诸般戒行暂且搁置。
Verse 16
वैश्वानरा महाभागास्तपसा संशितव्रताः ॥ आगतास्त्वरितं द्रष्टुं नाचिकेतं सुतं तदा ॥
那些尊贵的苦行者,以苦行之火砥砺其誓愿,当时迅速前来,只为瞻见那其子那支迦多(Nāchiketa)。
Verse 17
दिग्वाससश्च ऋषयो दन्तोलूखलिनस्तथा ॥ अश्मकूटाश्च मौनाश्च शीर्णपर्णाम्बुभोजनाः ॥
有披四方为衣、以苍穹为裳的圣仙;有以牙为臼以备食者;亦有以石捣碎者;有守默然之戒者;并有以枯叶与清水为食而住者——
Verse 18
धूमदाश्च तथा चान्ये तप्यमानाश्च पावके ॥ परिवर्य तथा दृष्ट्वा तस्य पुत्रं तपोनिधिम् ॥
又有他者为“食烟者”,又有他者在烈火中修苦行——众人环绕聚集,瞻见其子,乃苦行威力之宝藏。
Verse 19
तं नाचिकेतसं दृष्ट्वा यमलोकादिहागतम् ॥ भीतास्तत्र स्थिताः हृष्टाः केचित्कौतूहलान्विताः ॥
见到从阎摩之界来到此处的那支迦多(Nāchiketa),有人惧而立;有人欢喜;亦有人满怀好奇。
Verse 20
केचिद्विमनसश्चैव केचित्संशयवादिनः ॥ तमूचुः सहिताः सर्वे ऋषिपुत्रं तपोधनम् ॥
有人神色沮丧,有人以疑论言;于是众人齐声对他说——那位圣仙之子,富于苦行之财。
Verse 21
ऋषय ऊचुः ॥ भो भो सत्यव्रताचार गुरुशुश्रूषणे रत ॥ नाचिकेतः सुत प्राज्ञ स्वधर्मपरिपालक ॥
诸圣仙曰:“噫!噫!汝以真实之誓为行,乐于奉事师长——那支迦多啊,慧明之子,守持自家之法(dharma)者——”
Verse 22
ब्रूहि सत्यं त्वया दृष्टं श्रुतं च सविशेषकम् ॥ ऋषीणां श्रोतुकामानां पितुश्चैव विशेषतः ॥
请说出真实:你所见与所闻,并连同其特别的细节;为愿闻的诸仙人之故,尤其也为(我)父亲之故。
Verse 23
अपि गुह्यं च वक्तव्यं पृष्टे सति विशेषतः ॥ सर्वस्यापि भयं तीव्रं यद्द्वारा प्रतिदृश्यते ॥
即使是隐秘之事,在被询问时也应当说出;因为藉由那(教示),一切众生所感知的强烈恐惧便得以显明并可理解。
Verse 24
मृतं नैव परं तात दृश्यते कालमायया ॥ स्वकर्म भुज्यते तात प्रयत्नेन च मानवैः ॥
亲爱的啊,由于时间所造之幻(kāla-māyā),人并不能真正“看见”死亡彼岸之境。然而,人类仍以自身的努力(及其所引发的因缘)受用自业之果。
Verse 25
इह चैव कृतं यत्तु तत्परत्रोपभुज्यते ॥ करोति यदि तत्कर्म शुभं वा यदि वा अशुभम् ॥
此处所作,彼处受报(于他界/他态)。若人造作诸业,无论吉祥或不吉祥,其果报皆随之而受。
Verse 26
तथात्र दृश्यते काले कालस्यैव तु मायया ॥ म्रियते च यथा जन्तुर्यथा गर्भे च तिष्ठति ॥
因此在此世之时中,凭时间自身之幻而显现:众生如何死亡,又如何住于胎中(受孕孕育)。
Verse 27
तस्य पारं न गच्छन्ति बहवः पारचिन्तकाः ॥ तत्र स्थिते जगत्सर्वं लोभमोहतमोवृतम् ॥
许多思量“彼岸”的人,并不能抵达其尽头。只要那种境况仍在,整个世界便被贪欲、迷妄与黑暗所覆蔽。
Verse 28
धर्मराजस्य किं रूपं कालो वा कीदृशो मुने ॥ किंरूपा व्याधयश्चैव विपाको वापि कीदृशः ॥
圣者啊,法王(Dharma-rāja)具何形相?时间又是何等模样?诸病之性如何?业报之成熟(vipāka)又具何种特征?
Verse 29
किं च कुर्वन्प्रमुच्येत किं वा कर्म समाचरेत् ॥ आस्पदं सर्वलोकस्य तत्कर्म दुरतिक्रमम् ॥
又当行何事而得解脱,或应当修何种业行?此业行为一切世界之所依,亦非轻易可逾越。
Verse 30
क्रोधबन्धनजं क्लेशं कर्षणं छेदनं तथा ॥ येन गच्छन्ति विप्रेन्द्र लोके कर्मविदो जनाः ॥
由嗔怒之系缚而生的苦恼——牵引与割裂亦然——凭此,婆罗门中最胜者啊,知业之人于彼世间循其道而行。
Verse 31
जितात्मानः कथं यान्ति कथं गच्छति पापकृत् ॥ यथाश्रुतं यथादृष्टं यथा चैवावधारितम् ॥
自制者如何离去?作恶者又如何前往?请依所闻、所见与所确定者而宣说。
Verse 32
वैशम्पायन उवाच॥ ऋषिभिस्त्वेवमुक्तस्तु नाचिकेतो महामनाः ॥ यदुवाच महाराज शृणु तज्जनमेजय
毗舍摩波耶那说:诸仙如是发问后,大心的那支计多开口说道。大王啊——阇那弥阇耶,请听他所言。
Verse 33
प्रणयात्सौहृदात्स्नेहादस्माभिरभिपृच्छितम् ॥ वद सर्वं महाभाग याथातथ्येन विस्तरम्
出于爱敬、友谊与深情,我们向你请问。福德之人啊,请依如实之真理,详尽地说出一切。
Verse 34
कच्चिन्न तुष्टो भगवान्स्त्वां दृष्ट्वा स्वयमागतम् ॥ कच्चिच्छीघ्रं विसृष्टोऽसि धर्मराजेन पुत्रक
你既自愿前来,世尊见到你时可曾欢喜满足?亲爱的孩子啊,法王(阎摩)是否很快就放你回去?
Verse 35
उपविष्टास्तथा चान्ये स्थिताश्चान्ये सुयन्त्रिताः ॥ ते सर्वे तं तु पृच्छन्ति ऋषयो वेदपारगाः
有的坐下,有的站立,皆端肃自持。那些通达吠陀的诸仙人,全都向他发问。
Verse 36
चिन्तयेत न चिन्ताऽत्र मृगयन्ति च यद्धितम् ॥ करोति चित्रगुप्तः किं किं च जल्पत्यसौ पुनः
让他在此不必忧虑;他们所求的是有益之事。奇多罗笈多在做什么?他又一再说些什么?
The text foregrounds karmic causality: what a person does (śubha or aśubha karma) is experienced as consequence, and post-mortem conditions are described as structured by Dharmarāja/Kāla rather than arbitrary fate. The narrative uses Naciketas’ return to prompt inquiry into what conduct leads to release, implying disciplined, dharmic action and accountability.
No explicit tithi, māsa, pakṣa, or seasonal markers appear in the provided verses. The chapter instead uses conceptual time (kāla) as a governing principle, discussed in relation to birth, death, and karmic fruition.
While this passage does not directly mention rivers, forests, or conservation acts, it frames dharma and karma as regulatory forces that maintain order in the world. In a Pṛthivī-centered reading typical of the Varāha Purāṇa, ethical restraint and responsible action function as indirect ‘stewardship’ by preventing disorder (adharma) that destabilizes social and terrestrial equilibrium.
The passage names Vaśiṣṭha’s student-narrator figure Vaiśaṃpāyana (speaker frame), the exemplary youth Naciketas, Dharmarāja/Yama, Kāla, and Citragupta. It also references communities of ṛṣis and forest-dwelling ascetics (vanaukasaḥ) characterized by distinct austerity practices (e.g., digvāsaḥ, mauna, dhūmadāśa).