
Malayārjuna-tīrtha-prāśaṃsā tathā Mathurā-Yamunā-māhātmya
Ritual-Manual; Sacred Geography (Tīrtha-māhātmya)
以对话体,婆罗诃(Varāha)向大地女神普利提毗(Pṛthivī)开示阎牟那河与摩图罗周边诸圣水、林苑与渡口的体系。经文宣说沐浴(snāna)、斋戒(upavāsa)、供奉礼拜(arcana)、布施(dāna)以及祖先祭仪(piṇḍa-dāna/śrāddha)能除重罪,并令亡后得往特定天界:日界(Sūryaloka)、鲁陀罗界(Rudraloka)、梵界(Brahmaloka)及“我之界”(mama loka)。并特别标举吉耶什塔月白分第十二日(Jyeṣṭha śukla-dvādaśī)与柴特罗月白分第十二日(Caitra śukla-dvādaśī)等时日。地理叙述系于黑天童年戏行(līlā)意象,如破车(śakaṭa)与双阿周那树(arjuna),并述马塔利(Mātali)建立戈毗湿伐罗(Gopīśvara)。借普利提毗之角色,强调对地上圣地的守护:以戒行与谨慎用水之道,构成合乎伦理秩序的朝圣生态。
Verse 1
अथ मलयार्जुनतीर्थादिस्नानादिप्रशंसा ॥ श्रीवराह उवाच ॥ यमुनापारमुल्लङ्घ्य तत्रैव च महामुने ॥ मलयार्जुनकं तीर्थं कुण्डं तत्र च विद्यते ॥
今当称赞在马拉亚尔朱那圣渡处(Malayārjuna-tīrtha)等地沐浴及诸般行持。圣瓦拉哈(Śrī Varāha)曰:越过亚穆纳河(Yamunā)至彼岸,就在那儿,伟大仙人啊,有马拉亚尔朱那的圣渡处,并且那里也有一处圣池(kuṇḍa)。
Verse 2
पर्यस्तं तत्र शकटं भिन्नभाण्डकुटीघटम् ॥ तत्र स्नानोपवासाभ्यामनन्तं फलमश्रुते ॥
彼处可见一辆翻覆的车,以及破碎的器皿——茅舍与陶罐。于彼处以沐浴与斋戒,据说可得无尽之果报(不可量之功德)。
Verse 3
द्वादश्यां शुक्लपक्षस्य ज्येष्ठमासे वसुन्धरे ॥ तत्र स्नानेन दानेन महापातकनाशनम् ॥
大地啊,于耶什塔月(Jyeṣṭha)明半月之第十二日(dvādaśī),在彼处以沐浴并行布施,即能消除大罪。
Verse 4
ज्येष्ठस्य शुक्लद्वादश्यां स्नात्वा सुनियतेंद्रियः ॥ मथुरायां हरिं दृष्ट्वा प्राप्नोति परमां गतिम् ॥
在耶湿吒月明半第十二日(Dvādaśī)沐浴,严持诸根者,于摩图罗得见诃利(Hari),便证得至上归趣。
Verse 5
यमुनासलिले स्नातः शुचिर्भूत्वा जितेंद्रियः ॥ समभ्यर्च्याच्युतं सम्यक् प्राप्नोति परमां गतिम् ॥
于阎牟那河水中沐浴,身心清净、克制诸根者,若如法恭敬礼拜阿周多(Acyuta),即得至上归趣。
Verse 6
अपि चास्मत्कुले जातः कालिन्दीसलिले प्लुतः ॥ अर्चयिष्यति गोविन्दं मथुरायामुपोषितः ॥
又复,即便生于我族之人,浸没于迦邻底(Kālindī,阎牟那)之水,并在摩图罗持斋者,也将礼拜瞿温达(Govinda)。
Verse 7
इति गायन्ति पितरः परलोकगताः सदा ॥ द्वादश्यां ज्येष्ठमासे तु समभ्यर्च्य जनार्दनम् ॥
往生彼世之祖先恒常歌咏曰:“诚然,于耶湿吒月第十二日,如法礼拜阇那尔达那(Janārdana)……”
Verse 8
धन्योऽसौ पिण्डनिर्वापं यमुनायां करिष्यति ॥ तत्रैव तु महातीर्थे वने बहुलसंज्ञके ॥
有福之人将于阎牟那行施食团(piṇḍa)之供献;就在彼处大圣地、名为婆呼罗(Bahulā)之林中。
Verse 9
तत्र स्नातो नरो देवि रुद्रलोके महीयते ॥ द्वादश्यां चैत्रमासे तु शुक्लपक्षे वसुन्धरे ॥
女神啊,凡在彼处沐浴之人,必在鲁陀罗之界受尊崇。又于恰伊特罗月白半月之第十二日,大地啊,……
Verse 10
दृश्यन्तेऽहरहस्तत्र आदित्याः शुभकारिणः ॥ तत्र चार्कस्थले कुण्डे स्नानं यः कुरुते नरः ॥
彼处日日可见阿底提耶诸神,皆为吉祥之施者。又在阿尔卡斯塔拉之地,凡于池中沐浴之人……
Verse 11
सर्वपापविनिर्मुक्तः सूर्यलोकं व्रजेनरः ॥ तत्राथ मुञ्चते प्राणान्मम लोकं स गच्छति ॥
既脱离一切罪垢,此人便往太阳之界。其后若于彼处舍离命息,便归于我之世界。
Verse 12
अर्कस्थलसमीपे तु कूपं तु विमलोदकम् ॥ सप्तसामुद्रिकं नाम देवानामपि दुर्लभम् ॥
阿尔卡斯塔拉近旁有一井,水清净无垢,名为“萨普塔萨穆德里迦”,即使诸天亦难得。
Verse 13
तत्र स्नानेन वसुधे स्वच्छन्दगमनालयः ॥ अथात्र मुञ्चते प्राणान्मम लोकं स गच्छति ॥
大地啊,于彼处沐浴者,得成无碍往来之所依。其后若于彼处舍离命息,便归于我之世界。
Verse 14
यस्तत्र कुरुते स्नानमेक रात्रोषितो नरः ॥ स मत्प्रसादात्सुश्रोणि वीरलोके महीयते ॥
凡人在彼处住一夜,并于该地沐浴者——蒙我恩惠,善腰者啊,他将在英雄之界受尊崇。
Verse 15
अथात्र मुञ्चते प्राणान्ममलोकं स गच्छति ॥ कुशस्थलं च तत्रैव पुण्यं पापहरं शुभम् ॥
若他在彼处舍弃生命之气,便往我之世界。彼处亦有库沙斯塔拉(Kuśasthala)——具功德、吉祥,能除罪业。
Verse 16
तत्र स्नातो नरो देवि ब्रह्मलोके महीयते ॥ अथात्र मुञ्चते प्राणान्मम लोकं स गच्छति ॥
在彼处沐浴者,女神啊,将在梵天之界受尊崇;若又在彼处舍弃生命之气,便往我之世界。
Verse 17
तत्र वीरस्थलं नाम क्षेत्रं गुह्यं परं मम ॥ आसन्नसलिलं चैव पद्मोत्पलविभूषितम् ॥
彼处有一处名为毗罗萨他拉(Vīrasthala)的圣域,乃我隐秘而至上的境地;水泽近在旁,饰以莲花与睡莲。
Verse 18
तत्र पुष्पस्थलं नाम शिवक्षेत्रमनुत्तमम् ॥ तत्र स्नानेन मनुजः शिवलोके महीयते ॥
彼处有名为补湿帕斯塔拉(Puṣpasthala)之地,为无上湿婆圣域。于彼处沐浴者,将在湿婆之界受尊崇。
Verse 19
तत्र गोपीश्वरो नाम महापातकनाशनः ॥ कृष्णस्य रमणार्थं हि सहस्राणि च षोडश ॥
彼处有一处名为“Gopīśvara(牧女之主)”的圣所,据说能灭除重大罪业。为令克里希纳欢喜,确有一万六千种形相。
Verse 20
गोप्यो रूपाणि चक्रे च तत्र क्रीडनके हरिः ॥ यदा बालेन कृष्णेन भग्नार्जुनयुगं तथा ॥
并且在那里,嬉戏之间,诃利化现为诸牧女(gopī)的形相。又当童子克里希纳同样折断那一对阿周那树时……(叙事续下)。
Verse 21
शकटं च तदा भिन्नं घटभाण्डकुटीरकम् ॥ ताभिस्तत्रैव गोविन्दं क्रीडन्तं च यदृच्छया ॥
其时车辕车架被击碎,盛有罐、器的茅舍亦遭损坏。就在那处,偶然之间,他们见到戈文达正在嬉戏。
Verse 22
परिष्वज्य हि धर्मेण व्याजेन च सुगोपितम् ॥ मातलिस्तत्र चागत्य देवैरुक्तं यथोदितम् ॥
确然,依礼而拥抱(他),又以托辞将此事隐蔽;随后摩多利(Mātali)来到那里——正如诸天所言,皆如先前所宣示。
Verse 23
गोपीमण्डलपातेन स्नापितो हेमकुण्डलः ॥ गोप्यो गायन्ति नृत्यन्ति कृष्ण कृष्ण इति ब्रुवन् ॥
由诸牧女环绕成圈、如流倾落之势,他这位佩金耳环者得以沐浴其间。牧女们歌唱起舞,口诵“克里希纳,克里希纳”。
Verse 24
तत्र गोपीश्वरं देवं मातलिः स्थाप्य पूजितम् ॥ कूपं च स्थापयामास माङ्गल्यैः कलशैः शुभैः ॥
在那里,摩多梨安置并礼拜了神祇“戈毗湿伐罗”(Gopīśvara),又以吉祥的祝福水罐建立了一口井。
Verse 25
सप्तसामुद्रिकं नाम कूपं तु विमलोदकम् ॥ देवस्याग्रे तु वसुधे गोपा यस्य महात्मनः ॥
一口名为“七海井”(Saptasāmudrika)的井,水清澈无垢;它立于神前——噢,大地女神瓦苏达(Vasudhā)——属于那位大心者,其相与牧牛者相应。
Verse 26
गोपीवेषधरं देवं अभिषेकं चकार ह ॥ आनीय सप्त कलशान् रत्नौषधिपरिप्लुतान् ॥
他为身着牧牛者衣饰的神祇行灌顶沐浴(abhiṣeka),并带来七只水罐,浸润着宝石与药草之精。
Verse 27
पितरश्चापि नन्दन्ति पानीयं पिण्डमेव च ॥ सप्तसामुद्रिके कूपे यः श्राद्धं सम्प्रदास्यति ॥
当人在名为“七海井”(Saptasāmudrika)的井边举行祭祖仪式(śrāddha)时,祖先也因献水与供团(piṇḍa)而欢喜。
Verse 28
पितरस्तस्य तृप्यन्ति कोटिवर्षशतान्यलम् ॥ गोविन्दस्य च देवस्य तथा गोपीश्वरस्य च ॥
他的祖先将得以圆满满足,长达数亿年之久;此说关乎神祇戈文达(Govinda),亦同样关乎戈毗湿伐罗(Gopīśvara)。
Verse 29
मध्ये तु मरणं यस्य शक्रस्यैति सलोकताम् ॥ तथा बहुलरुद्रस्य गोविन्दस्यैव मध्यतः ॥
凡在此圣域的中央舍身者,得往与释迦罗(Śakra)同一世界;同样,在戈文达(Govinda)最中心处舍身者,得往婆呼罗·鲁陀罗(Bahula-rudra)之界。
Verse 30
तद्वद्ब्रह्माणमाशास्य गोपीशस्यैव मध्यतः ॥ एतेषु स्नानदानेन पिण्डपातेन भामिनि ॥
同样,关于梵天(Brahmā),此亦从戈毗沙(Gopīśa)最中心处宣说;在这些地方以沐浴与布施(供献),并以奉献皮恩达(piṇḍa)祭团,啊,美丽者——
Verse 31
नरस्तारयते पुंसां दश पूर्वान्दशापरान् ॥ एषु स्नातो नरो देवि देवैश्च सह मोदते ॥
一人能度脱其前十代与后十代。女神啊,人在这些地方沐浴之后,便与诸天同欢。
Verse 32
तत्राथ मुञ्चते प्राणान्मम लोकं स गच्छति ॥ वसुपत्रं महातीर्थं पुण्यं परममुत्तमम् ॥
若其后在彼处舍离生命之气,便往我之世界。(名为)婆苏帕特罗(Vasupatra)者,是大圣地(tīrtha)——具大福德,至上殊胜。
Verse 33
मथुरादक्षिणे पार्श्वे क्षेत्रं फाल्गुनकं तथा ॥ तत्र स्नात्वा च पीत्वा च परलोके महीयते ॥
在摩图罗(Mathurā)之南侧,亦有名为法尔古那迦(Phālgunaka)的圣域。于彼沐浴并饮(其水)者,在后世之界受尊崇。
Verse 34
तत्र फाल्गुनके चैव तीर्थे परमदुर्लभे ॥ वृषभाञ्जनकं नाम क्षेत्रं मे दुर्लभं महत्
在那里,于名为“Phālgunaka”的极其难得的圣渡处,有一处伟大的圣域属于我,名为“Vṛṣabhāñjanaka”,极难得至。
Verse 35
तत्राभिषेकं यः कुर्यात्स देवैः सह मोदते ॥ तत्र यो मुञ्चते प्राणान्मम लोकं स गच्छति
凡在彼处行阿毗湿迦(abhiṣeka,灌顶/奉献之礼)者,与诸天同欢;凡在彼处舍离命息者,便往我之世界。
Verse 36
अस्ति तालवनं नाम धेनुकासुररक्षितम् ॥ मथुरापश्चिमे भागे अदूरादर्धयोजनम्
有一片名为“Tālavana”的森林,由阿修罗德奴迦(Dhenuka)守护;它在摩图罗(Mathurā)西侧,不远,约半由旬之距。
Verse 37
अस्ति संपिठकं नाम अस्मिन् क्षेत्रे परं मम ॥ तत्र कुण्डं विशालाक्षि प्रसन्नसलिलं शुभम्
在这属于我的圣域中,有一处至胜之地名为“Saṃpīṭhaka”。又有一方圣池(kuṇḍa),广目者啊,其水清澈宁静,吉祥殊胜。
Verse 38
तत्र स्नानं च ये कुर्युरेकरात्रोषिता नराः ॥ अग्निष्टोमफलं चैव लभन्ते नात्र संशयः
凡在彼处沐浴并住留一夜之人,必得阿耆尼湿多摩(Agniṣṭoma)祭之功德果报;对此毫无疑虑。
Verse 39
अथात्र मुञ्चते प्राणान्मम लोकं स गच्छति ॥ देवकीगर्भसंभूतो वसुदेवगृहे शुभे
此外,凡在此舍弃生命之气者,皆往我之世界。(此处开始叙述:)由提婆姬(Devakī)之胎而生,于婆苏提婆(Vasudeva)吉祥之家……
Verse 40
तत्र पुण्येन हि मया रविराराधितः शुभः ॥ लब्धः प्राज्ञो मया पुत्रो रूपवांश्च गुणान्वितः
在那里,确因功德(puṇya),我礼敬了吉祥的太阳神罗毗(Ravi)。由此我得一子——聪慧、容貌端严,且具诸德。
Verse 41
तत्रैवं तु ततो दृष्टः पद्महस्तो दिवाकरः ॥ मासि भाद्रपदे देवी तिग्मतेजा विभावसुः
随后,如是,在彼处见到太阳神提婆迦罗(Divākara),手持莲华。于婆陀罗钵陀月(Bhādrapada),女神啊,锐光炽烈的毗婆婆苏(Vibhāvasu)显现。
Verse 42
सप्तम्यां कृष्णपक्षस्य रविस्तिष्ठति सर्वदा ॥ तस्मिन्नहनि यः स्नानं कुर्यात्कुण्डे समाहितः
在黑半月(kṛṣṇa-pakṣa)的第七日(saptamī),对太阳的仪轨恒常安立。于彼日,凡以摄心之态在池中沐浴者……
Verse 43
न तस्य दुर्लभं लोके सर्वदाता दिवाकरः ॥ आदित्येऽहनि संप्राप्ते सप्तम्यां तु वसुन्धरे
对他而言,世间无有难得之物,因为太阳神提婆迦罗(Divākara)乃施与一切者。当太阳之日到来——于第七日(saptamī),大地啊……
Verse 44
नरो वाप्यथवा नारी प्राप्नोत्यविकलं फलम् ॥ तत्रैव तु तपस्तप्तं राज्ञा शन्तनुना पुरा ॥
无论男子或女子,皆能获得不减之果报;而就在此处,往昔圣王商檀奴(Śantanu)曾修行苦行(tapasyā)。
Verse 45
आदित्यं तु पुरः स्थाप्य प्राप्तो भीष्मो महाबलः ॥ शन्तनुः प्राप्य तं पुत्रं गतोऽसौ हस्तिनापुरम् ॥
先以前置阿底提耶(Āditya,太阳神)为礼敬之所缘,遂得大力者毗湿摩(Bhīṣma);商檀奴(Śantanu)得此子后,便前往象城(Hastināpura)。
Verse 46
तत्र स्नातो नरो याति मम लोकं न संशयः ॥ अस्ति भाण्डह्रदं नाम परपारेषु दुर्लभम् ॥
人在彼处沐浴,必往我之世界,无有疑虑。彼有一湖名为婆难陀赫罗陀(Bhāṇḍahrada),在彼岸难得寻见。
Verse 47
ख्याता एते पञ्च देशा महापापविनाशनाः ॥ तेषु स्नानेषु वसुधे ब्रह्मणा सह मोदते ॥
此五处圣地以能灭除大罪而著称。噢大地女神瓦苏达(Vasudhā),于彼处沐浴者,与梵天(Brahmā)同享欢喜。
Verse 48
पितरस्तारितास्तेन कुलानां सप्तसप्ततिः ॥ सोमवारे त्वमायां वै पिण्डदानं करोति यः ॥
由此,祖灵得以度脱,七十七族亦蒙其利。凡于星期一、值新月之日行供团(piṇḍa)者,确实获得此等功德。
Verse 49
तत्र कुण्डं स्वच्छजलṃ नीलोत्पलविभूषितम् ॥ तत्र स्नानेन दानेन वाञ्छितं फलमाप्नुयात् ॥
彼处有一清澈之池,饰以蓝莲。于彼处沐浴并行布施(dāna),即可获得所愿之果报。
Verse 50
तत्र स्नानेन दानेन वाञ्छितं फलमाप्नुयात् ॥
于彼处沐浴并行布施(dāna),即可获得所愿之果报。
The chapter frames pilgrimage as disciplined, socially ordered conduct: bodily restraint (niyama, jitendriya), responsible ritual use of water sites (kuṇḍa/kūpa/hrada), and reciprocal obligations to ancestors through piṇḍa-dāna/śrāddha. The narrative logic links ethical self-regulation and careful engagement with terrestrial places to purification and communal continuity.
Key timings include Jyeṣṭha-māsa śukla-dvādaśī (noted for bathing, gifting, and seeing Hari in Mathurā), Caitra-māsa śukla-pakṣa dvādaśī (bathing linked to attaining Varāha’s loka), and Bhādrapada-māsa kṛṣṇa-pakṣa saptamī (a Sūrya-focused bathing observance). The text also mentions a Monday (somavāra) context for piṇḍa-dāna in connection with ancestral satisfaction.
By presenting multiple named water bodies and groves as morally charged landscapes, the chapter encourages regulated access—bathing, drinking, and offerings performed with restraint and timing—implicitly promoting preservation of shared freshwater resources. Pṛthivī’s presence as interlocutor positions these tīrthas as Earth’s managed ecologies, where correct practice functions as a cultural mechanism for protecting and sustaining sacred hydroscapes.
The narrative references Kṛṣṇa’s childhood setting in Mathurā/Vraja motifs (including the broken śakaṭa and arjuna pair), the charioteer Mātali (who installs and consecrates Gopīśvara and establishes the Saptasāmudrika well), and royal genealogy motifs involving King Śantanu and Bhīṣma in connection with Sūrya worship and tapas.