
Akrūratīrthaprabhāvaḥ
Ritual-Manual and Ethical-Discourse (Tīrthamāhātmya with Satya-Dharma exemplum)
在对大地女神毗地毗(Vasundharā)的持续教诲中,婆罗诃(Varāha)说明阿难多/阿克鲁拉圣渡口(Ananta/Akrūra Tīrtha)的稀有与恒常,并阐明其救度功德,尤以在历法交界时刻(ayana、viṣuva、viṣṇupadī)及日月食期间沐浴最为殊胜。随后讲述劝诫故事:富商苏达那(Sudhana)虔敬礼拜哈利(Hari),守持十一日斋(ekādaśī)并行夜间守夜(jāgara)。守夜时他被一位梵罗刹(brahmarākṣasa)擒住;苏达那请求完成誓愿后再赴约,并如实返回,以一连串“若不真实则自受其报”的条件自誓来护持真语(satya)。其诚信令局势转化:梵罗刹求取功德,揭示前世因缘,并因分得苏达那守夜之功德而得解脱。最后,婆罗诃又制定与圣地相关的修持(迦尔提迦月Kārttika仪轨、放牛供施vṛṣotsarga、祭祖施食śrāddha),以护持正法(dharma)并维系大地的道德与生态秩序。
Verse 1
अथाक्रूरतार्थप्रभावः ॥ श्रीवराह उवाच ॥ पुनरन्यत्प्रवक्ष्यामि मर्त्यलोके सुदुर्लभम् ॥ अनन्तं विदितं तीर्थमचलं ध्रुवमव्ययम् ॥
今说阿克鲁罗圣渡(Ākrūra-tīrtha)之威德。圣瓦拉哈(Śrī Varāha)曰:我将再宣说另一处在人间极难得遇的圣地——名为“无尽”(Ananta)之圣渡(tīrtha),不动、坚固、恒常而不坏。
Verse 2
तत्र नित्यं स्थितो देवि लोकानां हितकाम्यया ॥ मां दृष्ट्वा मनुजा देवि मुक्तिभाजो भवन्ति ते ॥
女神啊,我常住于彼处,唯愿诸世界得安乐。女神啊,众人于彼见我,即得分受解脱(mokṣa)。
Verse 3
अयने विषुवे चैव तथा विष्णुपदीषु च ॥ अनन्तं तं समासाद्य मुच्यते सर्वपातकैः ॥
于冬夏至与春秋分,亦于毗湿奴足日(Viṣṇupadī)之时,若至彼安anta圣地(tīrtha),便得脱离一切罪垢。
Verse 4
अक्रूरेति च विख्यातं मम क्षेत्रं वसुन्धरे ॥ तत्र स्नात्वा महाभागे राहुग्रस्ते दिवाकरे ॥
大地啊,我的圣域名为“阿克鲁拉”(Ākrūra)。有福者啊,当太阳为罗睺(Rāhu)所噬、即日食之时,于彼沐浴……
Verse 5
राजसूयाश्वमेधाभ्यां फलं प्राप्नोति मानवः ॥ तीर्थराजं हि चाक्रूरं गुह्यानां गुह्यमुत्तमम् ॥
人得其果,堪比罗阇苏耶与马祭(Aśvamedha)之功德。盖阿克鲁拉(Ākrūra)实为诸圣地(tīrtha)之王,乃秘密中最胜之秘密。
Verse 6
तत्स्नानात्फलमाप्नोति प्रयागस्नानजं फलम् ॥ अस्मिंस्तीर्थे पुरावृत्तं तच्छृणुष्व वसुन्धरे ॥
于彼沐浴,得如在普罗耶伽(Prayāga)沐浴之果报。大地啊,请听此圣地(tīrtha)往昔所发生之事。
Verse 7
नाम्ना तु सुधनो नाम मम भक्तः सदैव हि ॥ धनधान्यसमायुक्तः सुतयुक्तः सदैव हि ॥
他名为苏达那(Sudhana),确是恒常敬奉我的信徒;具足财富与谷粮,且常有子嗣,家族昌盛。
Verse 8
बन्धुपुत्रकलत्रैश्च गृहे प्रीतिरनुत्तमा ॥ पुत्रदारसमेतस्य मयि भक्तिर्वसुन्धरे ॥
与亲族、子女与妻相伴,他家中有无上和睦之爱;虽与儿女配偶同在,其虔敬仍归向于我,噢大地女神瓦孙达拉。
Verse 9
गच्छन्ति दिवसास्तस्य मासाः संवत्सरास्तथा ॥ करोति गृहकृत्यानि धनोपायेन नित्यशः ॥
他的日子流逝,月与年亦复如是;他恒常以正当谋生之财,履行家宅诸务。
Verse 10
नित्यं कालं च कुरुते हरिपूजनमुत्तमम् ॥ पुष्पदीपप्रदानेन चन्दनेन सुगन्धिना ॥
在适当之时,他恒常奉行对哈利(Hari)的殊胜礼拜:供献花鬘与灯明,并以芬芳檀香。
Verse 11
उपहारॆण दिव्यॆन धूपॆन च सुगन्धिना ॥ एकादश्यां तु कुरुते पक्षयोरुभयोरपि ॥
以神圣供品与芬芳之香,他在两半月(上弦与下弦)之十一日——埃卡达希(Ekādaśī)——皆行此修持。
Verse 12
उपवासं तु कुरुते रात्रौ जागरणं तथा ॥ स गच्छति यथाकालमक्रूरं तीर्थमुत्तमम् ॥
他行持斋戒,又通宵守夜;到时便前往名为“阿克鲁拉”的殊胜圣地渡口(tīrtha)。
Verse 13
तत्रागत्य ममाग्रेऽसौ नृत्यते शुभदर्शनः ॥ सुधनस्तु वणिक्श्रेष्ठः कदाचिद्रात्रिजागरे ॥
他到达那里后,在我面前起舞,仪容吉祥。至于商人之首苏达那,曾有一次在守夜之时……
Verse 14
चलमानो गृहीतस्तु चरणे ब्रह्मरक्षसा ॥ कृष्णवर्णी महाकाय ऊर्ध्वकेशो भयंकरः ॥
他正行走间,被一名婆罗门罗刹(brahmarākṣasa)抓住了脚:肤色黝黑,身躯巨大,发竖如戟,令人怖畏。
Verse 15
पादे गृहीत्वा वसुधे इदं वचनमब्रवीत् ॥
它抓住他的脚,说出如下言辞,噢瓦苏达(大地女神)。
Verse 16
राक्षसोऽहं वणिक्श्रेष्ठ वसामि वनमाश्रितः ॥ त्वामद्य भक्षयिष्यामि तृप्तिं यास्यामि शाश्वतीम् ॥
“我是罗刹(rākṣasa),商人之首啊;我依止森林而居。今日我将吞食你,并得长久的满足。”
Verse 17
सुधन उवाच ॥ प्रतीक्षस्व क्षणं मेऽद्य दास्यामि तव पुष्कलम् ॥ भक्षयिष्यसि मे गात्रं मिष्टान्नपरिपोषितम् ॥
苏达那说:“今日请稍候片刻;我将丰厚地供与你。随后你可食我之身,此身已以甘美饮食滋养。”
Verse 18
जागरं देवदेवस्य कर्तुमिच्छामि राक्षस ॥ मम व्रतं सार्वकाळं यज्जागर्मि हरेः पुरः ॥
“罗刹啊,我愿为诸神之神行守夜之仪。这是我恒常之誓:在哈利面前常保持清醒不眠。”
Verse 19
ततः खादिष्यसे गात्रं विनिवृत्तस्य जागरात् ॥ विष्णुतुष्ट्यै व्रतमिदमारब्धं सर्वकामदम् ॥
“待我守夜圆满之后,你便可吞食我身。此誓为取悦毗湿奴而发起,据说能成就一切所愿之果。”
Verse 20
मा कुरु व्रतभङ्गं मे रक्षो नारायणस्य हि ॥ जागरे विनिवृत्ते तु मां भक्षय यथेप्सितम् ॥
“罗刹啊,莫令我誓愿破坏;此誓实属那罗延。待守夜既毕,你便可随意吞食我。”
Verse 21
सुधनस्य वचः श्रुत्वा ब्रह्मरक्षः क्षुधार्दितः ॥ उवाच मधुरं वाक्यं वणिजं प्रति सादरम् ॥
听闻苏达那之言,那受饥渴所逼的婆罗门罗刹,便以柔和之语,恭敬地对那商人说道。
Verse 22
मिथ्या प्रभाषसे साधो त्वं पुनः कथमेष्यसि ॥ को हि रक्षोमुखाद्भ्रष्टो मानुषो यो निवर्तते ॥
“善人啊,你说的是虚妄之言——你又怎能再回来?凡人一旦落入罗刹(rākṣasa)之口,谁还能返回?”
Verse 23
राक्षसस्य वचः श्रुत्वा स वणिग्वाक्यमब्रवीत् ॥ सत्यमूलं जगत्सर्वं सर्वं सत्ये प्रतिष्ठितम् ॥
听了罗刹(rākṣasa)的话,商人答道:“整个世界以真实为根;一切都安立于真实之上。”
Verse 24
सिद्धिं लभन्ते सत्येन ऋषयो वेदपारगाः ॥ यद्यहं च वणिक् पूर्वं कर्मणा न हि दूषितः ॥
“凭借真实,诸圣仙(ṛṣi)——已渡至吠陀彼岸者——得成就。至于我这商人,先前并未因恶业而受染。”
Verse 25
प्राप्तश्च मानुषो भावो विहितेनान्तरात्मना ॥ शृणु मत्समयं रक्षो येनाहं पुनरागमम् ॥
“并且我得此人身,是由内在之我所命定。罗刹啊,请听我的约定——凭此我将再度归来。”
Verse 26
कृत्वा जागरणं तत्र नृत्यं कृत्वा यथासुखम् ॥ पुनरेष्याम्यहं रक्षो नासत्यं विद्यते मयि ॥
“我将在那里守夜行仪,并随心起舞;罗刹啊,我必再来,因为我身上并无虚妄。”
Verse 27
सत्येन दीयते कन्या सत्यं जल्पन्ति ब्राह्मणाः ॥ सत्योत्तीर्णा हि राजानः सत्येन वसुधा धृता ॥
凭借真谛,少女被许配出嫁;凭借真谛,婆罗门宣说言语。诚然,君王由真谛而得以维系;大地亦由真谛而被支撑。
Verse 28
यमः सत्येन हरति सत्यादिन्द्रो विराजते ॥ तत्सत्यं मम नश्येत यद्यहं नागमे पुनः ॥
凭借真谛,阎摩履行其职分;由真谛,因陀罗光辉显现。若我不再归来,愿我此真谛毁灭无存。
Verse 29
परदारांस्तु यो गच्छेत्काममोहप्रपीडितः ।
然而,凡逼近他人之妻者,受欲望与迷妄所压迫——
Verse 30
तस्य पापेन लिप्येऽहं यदि नायामि ते पुरः ॥
若我不至你面前,愿我为彼罪所染。
Verse 31
दत्त्वा च भूमिदानं यो ह्यपकारं करोति च ॥ तेन पापेन लिप्येऽहं यद्यहं नागमे पुनः ॥
又凡已施与土地之布施而仍行加害者——若我不再归来,愿我为彼罪所染。
Verse 32
पूर्वं भुक्त्वा स्त्रियां यस्तु सुखमाप्य विहृत्य च ॥ द्वेषात्तां यदि चेज्जह्यात्तस्यायं मे भवत्वलम् ॥
但若有人先与女子欢享,得其乐而嬉游,随后因憎恨而弃之,愿此举之全部果报尽归于我。
Verse 33
पङ्क्तिभेदं तु यः कुर्यादेकपङ्क्त्याशिनां ध्रुवम् ॥ तस्य पापेन लिप्येऽहं नागन्ता यदि ते पुरः ॥
凡使同席一列用餐者之食列破裂、扰乱其序者;若我不来至你前,愿我为其罪所染。
Verse 34
अमावस्यां महारक्षः श्राद्धं कृत्वा स्त्रियां व्रजेत् ॥ तेन पापेन लिप्येऽहं यद्यहं नागमे पुनः ॥
大护法啊,若有人于阿摩婆娑耶(新月日)行施罗陀(śrāddha)祭奠后又赴女子之处;若我不再来,愿我为其罪所染。
Verse 35
अष्टाष्टमी त्वमावास्या उभे पक्षे चतुर्दशी ॥ अस्नातानां गतिं यास्याम्यहं वै नागमे पुनः ॥
于第八日(tithi)、阿湿多弥(aṣṭamī)、新月日(amāvasyā),以及两半月之第十四日;若我不再来,愿我确实堕入未沐浴者之归趣。
Verse 36
गुरोर्भ्रातुः सुतस्यापि सख्युर्वै मातुलस्य च ॥ व्यवस्यति च यन्नारी यो मोहेन विमोहितः ॥
又如师之妻、兄之妻、子之妻,以及友之妻与母舅之妻;凡因迷妄而迷乱,竟对如此女子起意并决意者,
Verse 37
तस्य पापेन लिप्येऽहं यद्यहं नागमे पुनः ॥ यस्तु कन्यां सकृद्दत्त्वा अन्यस्मै चेत्पुनर्ददेत ॥
“若我不再回来,愿我被那罪业所染。至于那人,既已将一位少女许配一次,却又转而再许给他人——”
Verse 38
तेन पापेन लिप्येऽहं यद्यहं नागमे पुनः ॥ राजयाजकयाज्याश्च ये च वै ग्रामयाजकाः ॥
“若我不再回来,愿我被那罪业所染——(如同)王家祭司及其代行祭祀者之罪,以及担任村社祭司者之罪。”
Verse 39
तेषां पापेन लिप्येऽहं यद्यहं नागमे पुनः ॥ ब्रह्मघ्ने च सुरापे च चोरे भग्नव्रते शठे ॥
“若我不再回来,愿我被他们的罪业所染——即杀害婆罗门者之罪、饮酒沉醉者之罪、盗贼之罪、破戒失誓者之罪,以及奸诈欺诳者之罪。”
Verse 40
या गतिस्तां प्रपद्येऽहं यद्यहं नागमे पुनः ॥ श्रीवराह उवाच ॥ सुधनस्य वचः श्रुत्वा सन्तुष्टो ब्रह्मराक्षसः ॥
“若我不再回来,愿我就堕入那般归宿。”圣瓦拉哈说道:听闻苏达那之言后,那婆罗门罗刹心生满足。
Verse 41
उवाच मधुरं वाक्यं गच्छ शीघ्रं नमोऽस्तु ते ॥ ब्रह्मराक्षसमुक्तोऽसौ वणिक् तु दृढनिश्चयः ॥
他以柔和之语说道:“速速前行,向你致敬。”那商人既从婆罗门罗刹处得解脱,便仍坚定其决心。
Verse 42
पुनर्नृत्यति चैवाग्रे मम भक्तो व्यवस्थितः ॥ अथ प्रभातसमये नृत्यचित्तोऽति कोविदः ॥
他又在我面前起舞,端立为我的奉者。至黎明时分,他心专于舞,技艺尤为精妙。
Verse 43
पुनः पुनर्वै उच्चार्य नमो नारायणाय च ॥ निवृत्ते जागरे सोऽथ कालिन्दीसलिलाप्लुतः ॥
他确实一遍又一遍诵念“南无那罗延那”(礼敬那罗延那)。待守夜结束后,便浸浴于迦邻底河(阎牟那)的水中。
Verse 44
दृष्ट्वा मां दिव्यरूपं तु गतोऽसौ मथुरां पुरीम् ॥ दृष्टश्चाग्रे त्वहं तेन पुरुषो दिव्यरूपवान् ॥
见我显现为神圣之相后,他前往摩图罗城。在那里,我又在他面前被见到——以具神圣形相之人身。
Verse 45
स च पृष्टो मया देवि क्व भवान्प्रस्थितो द्रुतम् ॥ पुरुषस्य वचः श्रुत्वा सुधनो वाक्यमब्रवीत् ॥
我问他:“噢,天女(Devī),你为何如此匆匆,将往何处?”听了那人的话,苏达那答道。
Verse 46
जीवतो धर्ममाहात्म्यं मृते धर्मः कुतो यशः ॥ पुरुषस्य वचः श्रुत्वा स वणिग्वाक्यमब्रवीत् ॥ (५१) ॥ तत्र सत्यं वदिष्यामि यास्ये राक्षससन्निधौ ॥ आगतोऽहं महाभाग नर्तयित्वा यथासुखम् ॥
“人在世时,方能体悟法(dharma)的伟大;一旦身亡,法安在,又何来名声?”听了那人的话,商人说道:“在那里我将说出真实;我将前往罗刹(rākṣasa)面前。我已到来,尊贵者啊,先随心而舞。”
Verse 47
विष्णवे लोकनाथाय चागतो हरिजागरात् ॥ इदं शरीरं मे रक्षो भक्षयस्व यथेप्सितम्
我从为哈利守的通宵斋戒而来,来到毗湿奴——诸世界之主之前。噢罗刹啊,请随你所愿吞食我的此身。
Verse 48
यथान्यायं विधानॆन यथा वा तव रोचते ॥ नोक्तपूर्वं मया।असत्यं कदाचिदपि राक्षस
或依正法之理、依应行之仪轨——或随你所喜——我从未在任何时候说过虚妄之言,噢罗刹。
Verse 49
तेन सत्येन मां भुङ्क्ष्व ब्रह्मराक्षस दारुण ॥ वणिजस्तु वचः श्रुत्वा ततोऽसौ ब्रह्मराक्षसः
凭此真实之言,请吞食我吧,噢可怖的婆罗门罗刹。那罗刹听罢商人的话语,便作出回应并继续行事。
Verse 50
उवाच मधुरं वाक्यं सुधनं तदनन्तरम् ॥ साधु तुष्टोऽस्मि भद्रं ते सत्यं धर्मश्च पालितः
于是他对苏达那说了柔和甘美之语:“善哉!我已满足;愿你安吉。真实与达摩已得守护。”
Verse 51
वणिक् त्वं चातिविज्ञस्तु यस्य ते गतिरीदृशी ॥ जागरस्य समस्तस्य मम पुण्यं प्रयच्छ वै
商人啊,你实在极其明达,因为你的行持竟如此。请确实将这整夜守戒之功德赐与我。
Verse 52
सत्यपुण्यप्रभावेन यथाहं मुक्तिमाप्नुयाम् ॥ सुधन उवाच॥ नाहं दास्यामि ते पुण्यं नृत्यस्य नरभोजन
“愿我凭借真实与福德之力而得解脱。”苏达那说:“我不会把我的功德给你——你这舞者、食人者。”
Verse 53
अर्द्धं वाथ समस्तं वा प्रहरं चार्द्धमेव वा ॥ सुधनस्य वचः श्रुत्वा अब्रवीद्ब्रह्मराक्षसः
“或一半,或全部;或一更(夜间的一段时辰),或仅半更。”听了苏达那的话,婆罗门罗刹开口说道。
Verse 54
केन त्वं कर्मदोषेण राक्षसत्वमुपागतः ॥ यत्ते गुह्यं महाभाग सर्वं तत्कथयस्व मे
“你因何种业过而堕为罗刹之身?你的一切隐秘,吉祥者啊,都请尽数告诉我。”
Verse 55
सुधनस्य वचः श्रुत्वा विहसित्वाह राक्षसः ॥ किं त्वं मां च विजानासि प्रतिवासी ह्यहं तव
听了苏达那的话,罗刹笑着说:“你不认得我吗?我确是你的邻人,住在你近旁的人。”
Verse 56
अग्निदत्तस्तु वै नाम छान्दसो ब्राह्मणोत्तमः ॥ इष्टकांस्तु हरन्नित्यं परकीयांश्च सर्वदा
“我名阿耆尼达多(Agnidatta),为《歌咏》支系之人,乃上等婆罗门。然而我却常常偷取砖块——总是偷他人之物。”
Verse 57
मृतस्सुगृहकामेन राक्षसत्वमुपागतः ॥ मया त्वं हि यथा प्राप्त उपकारं कुरुष्व मे ॥
我因渴求华美居所而死,遂堕为罗刹之身。既然你如今落入我手,请为我行一件恩惠。
Verse 58
एकविश्रामपुण्यं मे देहि त्वं वणिगुत्तम ॥ कृपया तु समायुक्तो वणिग्वचनमब्रवीत् ॥
“最上等的商人啊,请赐我一次歇息之功德(福德)。”商人心生慈悲,便说出了这些话。
Verse 59
साधु राक्षस दत्तं ते एकनृत्यं मया तव ॥ एकनृत्यप्रभावेण राक्षसो मुक्तिमागतः ॥
“善哉,罗刹!我已赐你一舞。”凭借这一舞之力,罗刹得以解脱。
Verse 60
श्रीवराह उवाच ॥ सुधनस्तु ततो देवि विश्वरूपं जनार्दनम् ॥ अग्रतस्तु स्थितं देवं दृष्ट्वाऽसौ धरणीं गतः ॥
圣瓦罗诃说道:“于是,女神啊,苏达那见到具宇宙之相的阇那尔达那立于面前,便俯伏于地。”
Verse 61
उवाच मधुरं वाक्यं देवदेवो जनार्दनः ॥ चतुर्भुजो दिव्यतनुः शङ्खचक्रगदाधरः ॥
诸神之神阇那尔达那——四臂、神圣光耀之身,执螺、轮与杵——说出了柔和甘美之语。
Verse 62
विमानवरमारुह्य मम लोकं व्रजस्व च ॥ इत्युक्त्वा माधवो देवस्तत्रैवान्तरधीयत ॥
“登上这上妙的天车,前往我的世界。”说罢,神祇摩陀婆(Mādhava)就在原地隐没不见。
Verse 63
एष तीर्थप्रभावो वै कथितस्ते वसुन्धरे ॥ अक्रूराच्च परं तीर्थं न भूतं न भविष्यति ॥
“大地女神瓦孙达罗啊,我已向你宣说此圣渡处(tīrtha)的威德。没有任何圣地胜过阿克鲁罗(Akrūra)之处,将来也不会有。”
Verse 64
तस्य तीर्थप्रभावेण सुधनो मुक्तिमाप्तवान् ॥ द्वादशी शुक्लपक्षे तु कुमुदस्य च वा भवेत् ॥
“凭借那圣渡处的威德,苏达那(Sudhana)得证解脱(mokṣa)。此事可在明半月第十二日(dvādaśī)——于库穆达(Kumuda)之月/时节,或另有其说……”
Verse 65
तस्मिन्स्नातस्य वसुधे राजसूयफलṃ भवेत् ॥ कार्त्तिकीं समनुप्राप्य तत्तीर्थे तु वसुन्धरे ॥
“大地啊,凡在彼处沐浴者,将得如同王祭(Rājasūya)之果报。及至迦尔蒂迦月(Kārttikā)来临,于那同一圣渡处,瓦孙达罗啊,……”
Verse 66
वृषोत्सर्गं नरः कुर्वंस्तारयेत्सकुलोद्भवान् ॥ श्राद्धं यः कुरुते सुभ्रु कार्तिक्यां प्रयतो नरः ॥
“行施牛礼(vṛṣotsarga)之人,能度脱其全族所生之众。又若有人于迦尔蒂迦月(Kārttikā)克己专注而行祭祖供养(śrāddha),美眉者啊,……”
Verse 67
पितरस्तारितास्तेन सदैव प्रपितामहाः
因他之力,诸父祖(Pitṛ,祖灵)确已得度;同样,恒常地,连曾祖亦皆得度。
Verse 68
मानकूटं तुलाकूटं न करोति स कर्हिचित् ॥ एवं च वसतस्तस्य बहवो वत्सरा गताः
他从不在量器上作伪,也不在称重上欺诈。如此而居,许多年岁便在他身上流逝。
Verse 69
तत्र जागरणं कृत्वा प्रभाते तव सन्निधौ ॥ आगमिष्याम्यहं शीघ्रमादित्योदयनं प्रति
我将在彼处守夜;至黎明,于你面前,我将迅速前来——趋向日出之时。
Verse 70
स्वर्गमिच्छन्ति सत्येन मोक्षः सत्येन लभ्यते ॥ सत्येन सूर्यस्तपति सोमः सत्येन राजते
凭真实而求天界;凭真实而得解脱(mokṣa)。因真实,太阳施热;因真实,月亮辉耀。
Verse 71
अभिगच्छति मन्दात्मा तत्पापं मे भवेत् तदा ॥ राजपत्नीं ब्रह्मपत्नीं विधवां योऽभिगच्छति
若有愚昧之人前来亲近(她们),则彼时那罪将落在我身上。凡亲近国王之妻、婆罗门之妻或寡妇者……
Verse 72
अहं गच्छामि त्वरितो ब्रह्मराक्षससन्निधौ ॥ निवारयामास तदा न गन्तव्यं त्वयानघ
“我将迅速前往婆罗门罗刹(Brahmarākṣasa)之近处。”当时有人拦阻他说:“无过者啊,你不应前往。”
Verse 73
एकनृत्यस्य मे पुण्यं दद त्वं वणिगुत्तम ॥ सुधन उवाच ॥ नाहं दास्यामि ते पुण्यं यथोक्तं च समाचर
“商贾之最啊,把一次舞蹈所得的功德(puṇya)给我吧。”苏达那(Sudhana)说:“我不把我的功德给你;你应依所规定而行。”
Verse 74
सुधनः सशरीरोऽपि सकुटुम्बो दिवं ययौ ॥ विमानवरमारुह्य विष्णोर्लोकं जगाम ह
苏达那——连同其色身,并与家眷一起——升往天界。登上殊胜的天车(vimāna),他确实前往毗湿奴(Viṣṇu)之世界。
The narrative foregrounds satya (truthfulness) as a foundational ethical principle: Sudhana’s insistence on keeping his vow—even when threatened with death—functions as the chapter’s central ethical demonstration. The text frames satya as socially stabilizing and spiritually efficacious, capable of transforming a predatory encounter into liberation, while also positioning disciplined vow-practice (vrata, jāgaraṇa) as a means of sustaining dharma.
The chapter specifies ayana (solstitial turning points), viṣuva (equinox), and viṣṇupadī days as auspicious times to approach Ananta/Akrūra Tīrtha. It also highlights bathing during a solar eclipse (rāhugraste divākare). Further markers include ekādaśī observance in both fortnights (ubhayapakṣa), dvādaśī in the bright half (śuklapakṣa), and Kārttika-month rites such as vṛṣotsarga and śrāddha.
Pṛthivī (Vasundharā) is the explicit addressee, allowing the text to present tīrtha practice as a dharmic regulation of human behavior that indirectly supports terrestrial order. The emphasis on disciplined conduct (truthfulness, controlled desire, calendrically regulated rites, and respectful engagement with river-water tīrthas such as the Kālindī) can be read as a normative framework that curbs social harm and promotes responsible interaction with sacred landscapes.
The narrative centers on Sudhana (a vaṇikśreṣṭha, ‘leading merchant’) and a brahmarākṣasa who identifies a prior identity as Agnidatta, described as a Chāndasa brāhmaṇa. Royal-sacrificial paradigms are referenced as merit-comparators (rājasūya, aśvamedha), and the setting includes Mathurā and the Kālindī riverine region, indicating a North Indian sacred-geographic horizon rather than a detailed dynastic genealogy.