
Mathurātīrtha-praśaṃsā
Ancient-Geography
本章以教诲式对话展开:大地女神Pṛthivī听闻野猪化身Varāha的伟大后,请求开示一处超越Lohārgala、至高而稀有的圣地(tīrtha)。Varāha宣示摩图罗Mathurā无与伦比,并将其功德与Puṣkara、Naimiṣa、Vārāṇasī、Prayāga等大朝圣地逐一对比,强调在Mathurā所行日常善业皆得倍增果报。叙事罗列Mathurā-maṇḍala内诸多具名tīrtha,多与沐浴、祭祖仪式śrāddha、布施dāna及“于此地终老/舍身得解脱”的信念相关,并配以Kārttika月、saṃkrānti节令与日月食等时令天象标记。Tiṃduka理发师以及Bali与Sūrya的故事示范业报因果;经文亦以生态—大地视角呈现:亚穆纳河Yamunā与地景成为伦理的依托,扶持忆念、节制与护持祖先延续。
Verse 1
अथ मथुरातीर्थ प्रशंसा ॥ सूत उवाच ॥ श्रुत्वा देवस्य माहात्म्यं लोहर्गलनिवासिनः ॥ त्रैलोक्यनाथाधिपतेर्विस्मयं परमं गता ॥
苏多说:听闻居于卢诃伽罗(Lohārgala)之主的伟大功德后,他们对三界之主、至上君王生起无上的惊叹。
Verse 2
धरन्युवाच ॥ पद्मपत्र विशालाक्ष लोकनाथ जगत्पते ॥ त्वत्प्रसादाच्च देवेश श्रुतं शास्त्रं महौजसम् ॥
大地说:噢,莲叶般广大的眼者,世间之主、众生之护者;蒙你恩德,诸神之主啊,我得闻具大威力的《圣典》(śāstra)教诲。
Verse 3
तव शिष्या च दासी च त्वामहं शरणङ्गता ॥ जगद्धाता जगज्ज्योतिर्जगत्प्रभुरतन्द्रितः ॥
我既是你的弟子,也是你的侍从;我已归依于你。你是世界的维系者、世界之光、永不懈怠的世间之主。
Verse 4
तव सम्भावनाद्देव जातास्मि कनकोज्ज्वला ॥ अलङ्कृता च शस्ता च सर्वशास्त्रेण मानद ॥
因你垂顾与尊崇,主啊,我变得如黄金般辉耀;凭诸般《圣典》(śāstra)的教导,我得以庄严并成为堪当者,赐荣者啊。
Verse 5
जगद्धातुर्जगच्छास्त्रकृते न हि परिश्रमः ॥ त्वय्यायत्तं जगत्सर्वं यच्च किंचित्प्रवर्त्तते ॥
对世界的维系者而言,为世间撰成教法并无劳苦;整个宇宙依止于你,凡一切有所运作、有所发动者,皆由你而起。
Verse 6
इति कृत्वा च मे देव त्वाह्लादो हृदि वर्त्तते ॥ लोहर्गलात् परं श्रेष्ठं गुह्यं परमदुर्लभम् ॥
说完这些,噢主啊,关于您的喜悦常住我心。越过罗诃伽罗(Lohārgala),还有更为殊胜之处——隐秘而极难得。
Verse 7
तीर्थं तद्वद कल्याणं तीर्थानामुत्तमोत्तमम् ॥ यदस्ति दुर्लभं तीर्थं तत्त्वं कथय मे प्रभो ॥
请宣说那吉祥的圣地(tīrtha),诸圣地中最上之最。凡是稀有难得的圣地,请为我阐明其真实义理,噢主。
Verse 8
श्रीवराह उवाच ॥ न विद्यते च पाताले नान्तरिक्षे न मानुषे ॥ समानं मथुराया हि प्रियं मम वसुन्धरे ॥
圣瓦罗诃(Śrī Varāha)说:无论在地下界(Pātāla),或在中空之域,或在人间诸界,都没有与摩图罗(Mathurā)相等者;因为摩图罗为我所钟爱,噢大地。
Verse 9
सूत उवाच ॥ तच्छ्रुत्वा वचनं तस्य प्रियं च वसुधा तदा ॥ प्रणम्य शिरसा देवी वराहं पुनरब्रवीत् ॥
苏多(Sūta)说:听闻他的话语后,毗苏陀(Vasudhā,大地女神)当时心生欢喜。她俯首致敬,又再次对瓦罗诃说道。
Verse 10
श्रीवराह उवाच ॥ शृणु कार्त्स्न्येन वसुधे कथ्यमानं मयानघे ॥ मथुरेति च विख्यातं तस्मान्नास्ति परं मम ॥
圣瓦罗诃说:噢毗苏陀,噢无垢者,请完整聆听我所宣说之事。那被称为“摩图罗(Mathurā)”的圣地——于我而言,再无高于此者。
Verse 11
सा रम्या च सुशस्ता च जन्मभूमिस्तथा मम ॥ शृणु देवि यथा स्तौमि मथुरां पापहारिणीम्
她美妙可爱,备受称颂;确然也是我的出生之地。女神啊,请听我赞颂摩图罗(Mathurā),那能除灭罪垢之城。
Verse 12
तत्र वासी नरो याति मोक्षं नास्त्यत्र संशयः ॥ महामाघ्यां प्रयागे तु यत्फलं लभते नरः
居住于彼处之人必得解脱,此事毫无疑虑。凡人在普拉亚伽(Prayāga)于“大摩伽”圣行期间所得之果报——
Verse 13
तत्फलं लभते देवि मथुरायां दिने दिने ॥ पूर्णे वर्षसहस्रं तु वाराणस्यां तु यत्फलम्
女神啊,同样的果报在摩图罗日日可得。至于在婆罗那西(Vārāṇasī)须满一千年方能获得的果报——
Verse 14
तत्फलं लभते देवि मथुरायां क्षणेन हि ॥ कार्त्तिक्यां चैव यत्पुण्यं पुष्करे तु वसुन्धरे
女神啊,那果报在摩图罗顷刻即得。又如在迦尔提迦月(Kārttika)于补湿迦罗(Puṣkara)所积之福德,哦大地——
Verse 15
तत्फलं लभते देवि मथुरायां जितेन्द्रियः ॥ मथुरां तु परित्यज्य योऽन्यत्र कुरुते रतिम्
女神啊,克制诸根、调伏感官之人,在摩图罗便能得此果报。然而若有人舍弃摩图罗,而将爱著转向他处——
Verse 16
मूढो भ्रमति संसारे मोहितो मम मायया ॥ यः शृणोति वरारोहे माथुरं मम मण्डलम्
被我的摩耶(māyā)所迷惑,愚者在轮回(saṃsāra)中漂泊。然而,凡聆听者——噢,丰臀的佳人——听闻我在摩图罗(Mathurā)的神圣境域——
Verse 17
अन्येनोच्चारितं शश्वत्सोऽपि पापैः प्रमुच्यते ॥ पृथिव्यां यानि तीर्थानि आसमुद्रं सरांसि च
即使由他人恒常诵读,此人亦能从罪垢与恶业中解脱。大地上所有的圣地渡口(tīrtha),以及直至大海的诸湖泊——
Verse 18
मथुरायां प्रयान्त्यत्र सुप्ते चैव जनार्दने ॥ मथुरामण्डलं प्राप्य श्राद्धं कृत्वा यथाविधि
他们也来到此处的摩图罗(Mathurā),即便阎那尔达那(Janārdana)安卧休憩之时亦然。既已抵达摩图罗境域,并依仪轨举行施祖祭(śrāddha)——
Verse 19
तेऽपि यान्ति परां सिद्धिं मत्प्रसादान्न संशयः ॥ कुब्जाम्रके सौकरवे मथुरायां विशेषतः
他们也将证得至上的成就(siddhi);凭我的恩赐,毫无疑虑。尤其在摩图罗(Mathurā),于库布迦阿姆拉迦(Kubjāmraka)与骚迦罗婆(Saukarava)之处——
Verse 20
विना सांख्येन योगेन मत्प्रसादान्न संशयः ॥ मथुरायां महापुर्यां ये वसन्ति शुचिव्रताः
即使不依数论(Sāṃkhya)与瑜伽(Yoga),凭我的恩赐亦无疑。凡居住在摩图罗(Mathurā)大城之中、持守清净誓戒者——
Verse 21
बलिभिक्षाप्रदातारो देवास्ते नरविग्रहाः ॥ भविष्यामि वरारोहे द्वापरे युगसंस्थिते
那些赐予供献与施舍的诸天,将以人身示现。噢,腰胯优美者,当兜婆罗(Dvāpara)劫确立之时,我将于彼时显现。
Verse 22
ययातिभूपवंशाच्च क्षत्रियः कुलवर्द्धनः ॥ भविष्यामि वरारोहे मथुरायां न संशयः
并且我将出自耶耶提王(Yayāti)之族系,成为增盛家族的刹帝利。噢,腰胯优美者,我必在摩图罗(Mathurā)出生/示现,毫无疑问。
Verse 23
मूर्तिं चतुर्विधां कृत्वा स्थास्यामि ऋषिभिः स्तुतः ॥ वत्सराणां शतं तत्र युद्धेषु कृतनिश्चयः
我将造就四重之身而住于彼处,为诸仙(ṛṣi)所赞颂;并在彼地一百年间,于战阵之中意志坚定。
Verse 24
एका चन्दनसङ्काशा द्वितीया कनकप्रभा ॥ अशोकसदृशा चान्या अन्या चोत्पलसन्निभा
其一如檀香;其二光辉如黄金。其一又似无忧树(aśoka),其一则如青莲。
Verse 25
तत्र गुह्यानि नामानि भविष्यन्ति मम प्रिये ॥ पुण्यानि च पवित्राणि संसारच्छेदनानि च
在那里,噢, प्रिय者,我的名号将为秘密;它们具功德、能净化,并且(据说)能斩断轮回(saṃsāra)之系缚。
Verse 26
यत्राहं पातयिष्यामि द्वात्रिंशत्तु वसुन्धरे ॥ दैत्यान्घोरान्महाभागे कंसादीन् धर्मदूषकान्
在那里,我将击灭三十二位可怖的达底耶族(Daitya)——大地啊,吉祥者——以迦ṃ萨(Kaṃsa)等为首,皆为败坏达摩者。
Verse 27
यमुना यत्र सुवहा नित्यं सन्निहिता ध्रुवम् ॥ वैवस्वतसुता रम्या यमुना यत्र विश्रुता
在那里,阎牟那河(Yamunā)水流善美,恒常在此,确然不移;在那里,阎牟那——毗婆斯瓦特(阎摩,Yama)之美丽女儿——声名远播。
Verse 28
यमुना विश्रुता देवि नात्र कार्या विचारणा ॥ तत्र तीर्थानि गुह्यानि भविष्यन्ति ममानघे
阎牟那(Yamunā)已然闻名,女神啊;此处无需再作思量。于彼处,无垢者啊,将有隐秘的圣渡处(tīrtha)归属于我、与我相系。
Verse 29
येषु स्नाने नरो देवि मम लोके महीयते ॥ अथात्र मुञ्चते प्राणान्मम कर्मपरायणः
在那些地方沐浴者,女神啊,便在我的世界中受尊崇;而后若在此舍弃生命之息,专心奉行我的行持与仪轨者,便得彼等境界。
Verse 30
न जायते स मर्त्येषु जायते च चतुर्भुजः ॥ अविमुक्ते नरः स्नातो मुक्तिं प्राप्नोत्यसंशयम्
他不再于凡人之中复生;而四臂者亦于彼处显现。于阿毗穆克多(Avimukta)沐浴之人,必得解脱(mokṣa),无有疑惑。
Verse 31
तथात्र मुञ्चते प्राणान्मम लोकं स गच्छति ॥ विश्रान्तिसंज्ञकं नाम तीर्थं त्रैलोक्यविश्रुतम् ॥
凡在此舍弃生命之气者,便往我之世界。此为名“毗湿兰提”(Viśrānti)之圣地(tīrtha),闻名于三界。
Verse 32
यस्मिन्स्नातो नरो देवि मम लोकं प्रपद्यते ॥ सर्वतीर्थेषु यत्स्नानं सर्वतीर्थेषु यत्फलम् ॥
女神啊,人在彼处沐浴,便得至我之世界。凡诸圣地(tīrtha)所行之沐浴,以及诸圣地所获之一切功果——
Verse 33
तत्फलं लभते देवि दृष्ट्वा देवं गतश्रमः ॥ न च यज्ञैर्न तपसा न ध्यानैर्न च संयमैः ॥
女神啊,此等果报,为那疲劳已息、得见神祇者所获;而非(如此易得)由祭祀(yajña)、苦行(tapas)、禅观,或诸般自制之行——
Verse 34
तत्फलं लभते स्नातो यथा विश्रान्तिसंज्ञके ॥ कालत्रयं तु वसुधे यः पश्यति गतश्रमः ॥
此果报为沐浴者所得,正如在名“毗湿兰提”(Viśrānti)之处所得一般。又,大地啊,凡疲劳已息而得见三时(过去、现在、未来)者……
Verse 35
कृत्वा प्रदक्षिणे द्वे तु विष्णुलोकं स गच्छति ॥ अस्ति चान्यत्परं गुह्यं सर्वसंसारमोक्षणम् ॥
行两次绕行礼敬(pradakṣiṇā)之后,他便往毗湿奴之界。且另有更高之密义:从整个轮回(saṃsāra)中解脱。
Verse 36
यस्मिन्स्नातो नरो देवि मम लोकं प्रपद्यते ॥ प्रयागं नाम तीर्थं तु देवानामपि दुर्लभम् ॥
女神啊,凡人在那里沐浴,便得以到达我的世界。此圣地名为普拉雅伽(Prayāga)之渡口,连诸天神也难得一遇。
Verse 37
अथात्र मुञ्चते प्राणान्मम लोके स गच्छति ॥ तथा कनखलं नाम तीर्थं गुह्यं परं मम ॥
如今,若有人在此舍弃生命之气,便往我的世界而去。同样,这里有名为迦那迦罗(Kanakhala)的圣地——我至高而隐秘的圣处。
Verse 38
स्नानमात्रेण तत्रापि नाकपृष्ठे स मोदते ॥ अस्ति क्षेत्रं परं गुह्यं तिन्दुकं नाम नामतः ॥
即便仅仅在彼处沐浴,他也在天界之巅欢喜安乐。另有一处更高而隐秘的圣域,名号为丁杜迦(Tinduka)。
Verse 39
तस्मिन्स्नातो नरो देवि मम लोके महीयते ॥ अस्मिंस्तीर्थे पुरा वृत्तं तच्छृणुष्व वसुन्धरे ॥
女神啊,凡人在那处沐浴,便在我的世界中受尊崇。在此圣地,久远以前曾发生一事——大地啊,请听我说。
Verse 40
पाञ्चालविषये देवि काम्पिल्यं च पुरोत्तमम् ॥ धनधान्यसमायुक्तं ब्रह्मदत्तेन पालितम् ॥
女神啊,在般遮罗(Pāñcāla)之境,有一座最胜之城名为甘毗利耶(Kāmpilya),财宝与谷粮充盈,由梵摩达多(Brahmadatta)统治。
Verse 41
तस्मिंस्तु वसते देवि तिन्दुको नाम नापितः॥ तस्मिंस्तु वसतस्तस्य नापितस्य पुरोत्तमे॥
女神啊,当他住在那里时,有一位名叫廷杜迦(Tinduka)的理发师也居于那座殊胜之城;并且在那里,当那理发师居住之时……
Verse 42
कालेन महता तस्य कुटुम्बं च क्षयं गतम्॥ क्षीणे कुटुम्बे तु तदा सुभृशं दुःखपीडितः॥
经过漫长岁月,他的家业也走向衰败。家眷凋零之时,他便被深重的忧苦所折磨。
Verse 43
सर्वसङ्गं परित्यज्य सोऽगच्छन्मथुरां तदा॥ ब्राह्मणावसथे सोऽपि वसमानो वसुन्धरे॥
舍弃一切执著之后,他便前往摩图罗(Mathurā)。大地啊,他也住在那里,寄居于与婆罗门相关的住处。
Verse 44
तस्य कर्मशतं कृत्वा स्नात्वैव यमुनां नदीम्॥ नित्यं स यमुनां स्नाति चिरकालं दृढव्रतः॥
完成一百次侍奉与仪轨之行后,他在亚穆纳河(Yamunā)中沐浴。坚守誓愿的他,长久以来每日都在亚穆纳河沐浴。
Verse 45
ततः कालेन महता पञ्चत्वं समुपागतः॥ स च तीर्थप्रभावेण जातोऽसौ ब्राह्मणोत्तमः॥
随后,经过漫长岁月,他走向死亡。并因那圣地(tīrtha)的威力,他转生为一位卓越的婆罗门。
Verse 46
तत्तीर्थस्य प्रभावेण जाता मुक्तिः सुदुर्लभा॥ ततः परं सूर्यतीर्थं सर्वपापप्रमोचनम्॥
凭借那处圣渡(tīrtha)的威力,得到了极难获得的解脱。其后是苏利耶圣渡(Sūryatīrtha),被称为能解除一切罪业之地。
Verse 47
विरोचनेन बलिना सूर्यस्त्वाराधितः पुरा॥ भ्रष्टराज्येन हि तथा धनकामेन सुन्दरि॥
往昔,苏利耶(Sūrya)曾受毗卢遮那之子巴利(Bali)礼敬。美丽者啊,他失去王国而渴求财富,遂行此崇拜。
Verse 48
ऊर्ध्वबाहुर्निराहारस्तताप परमं तपः॥ साग्रं संवत्सरं देवि ततः काममवाप्तवान्॥
他高举双臂,断食而行,修习至上的苦行(tapas)。整整一年,女神啊,随后便得到了所愿之果。
Verse 49
तस्य प्रसन्नो भगवान् द्युमणिः प्रत्यभाषत॥ किं कारणं बले ब्रूहि तपस्यसि महत्तपः॥
圣者迪尤摩尼(Dyumaṇi,太阳神)对他心生欢喜,便说道:“巴利啊,告诉我,你为何修行如此宏大的苦行?”
Verse 50
बलिरुवाच॥ भ्रष्टराज्योऽस्मि देवेश पाताले निवसाम्यहम्॥ वित्तेनापि विहीनस्य कुटुम्बभरणं कृतः॥
巴利说道:“诸神之主啊,我已失去王国;我居于帕塔拉(Pātāla)。纵然缺乏财物,我仍不得不承担供养家眷之责。”
Verse 51
मुकुटात्तस्य वै सूर्यॊ ददौ चिन्तामणिं ततः ॥ चिन्तामणिं समासाद्य पातालमगमद्बलिः ॥
随后,苏利耶(Sūrya)确从其王冠中赐下如意宝珠——真多摩尼(Cintāmaṇi)。婆利(Bali)得此真多摩尼后,便下至帕塔拉(Pātāla)。
Verse 52
तस्मिंस्तीर्थे नरः स्नातः सर्वपापैः प्रमुच्यते ॥ तत्राथ मुञ्चते प्राणान्मम लोकं स गच्छति ॥
人在那圣洁渡口沐浴,便能解脱一切罪业。若又在彼处舍离命息,则往生于我的世界。
Verse 53
आदित्याहनि संक्रान्तौ ग्रहणे चन्द्रसूर्ययोः ॥ तस्मिन्स्नातो नरो देवि राजसूयफलं लभेत् ॥
在日曜日(阿底提耶之日)、于太阳入宫之时(saṃkrānti),以及月食或日食之际——若有人在彼处沐浴,女神啊,便可获得罗阇苏耶(Rājasūya)祭的功德果报。
Verse 54
ध्रुवेण यत्र सन्तप्तं स्वेच्छया परमं तपः ॥ तत्र वै स्नानमात्रेण ध्रुवलोके महीयते ॥
在德鲁瓦(Dhruva)凭自身誓愿而修行至上苦行之处——确然只需在彼处沐浴,便在德鲁瓦之界受到尊崇。
Verse 55
पितॄंस्तारयते सर्वं पितृपक्षे विशेषतः ॥ दक्षिणे ध्रुवतीर्थस्य तीर्थराजं प्रकीर्तितम् ॥
它能度脱一切祖先,尤其在祭祖半月——毕特利帕克沙(Pitṛpakṣa)之时。德鲁瓦圣渡(Dhruva-tīrtha)之南,被称颂为“诸圣渡之王”。
Verse 56
तस्मिन् स्नाते नरो देवि मम लोकं प्रपद्यते ॥ तद्दक्षिणे महादेवि ऋषितीर्थं परं मम ॥
若有人在彼处沐浴,女神啊,便得至于我的世界。其南方,伟大女神啊,有我至上的圣贤渡口(Ṛṣi-tīrtha)。
Verse 57
तत्र स्नातो नरो देवि ऋषिलोकं प्रपद्यते ॥ अथात्र मुञ्चते प्राणान्मम लोके महीयते ॥
人在彼处沐浴,女神啊,便得至圣贤之界。若又在彼处舍离气息(生命),则在我的世界中受尊崇。
Verse 58
दक्षिणे ऋषितीर्थस्य मोक्षतीर्थं परं मम ॥ तत्र वै स्नानमात्रेण मोक्षमेव प्रपद्यते ॥
在圣贤渡口(Ṛṣi-tīrtha)之南,有我至上的解脱渡口(Mokṣa-tīrtha)。在那里,确然仅凭沐浴便得解脱本身。
Verse 59
तत्र वै कोटितीर्थं हि देवानामपि दुर्लभम् ॥ तत्र स्नानेन दानेन मम लोके महीयते ॥
彼处确有俱胝圣渡(Koṭi-tīrtha),即使诸天也难得。于彼处以沐浴并行布施(dāna),便在我的世界中受尊崇。
Verse 60
कोटितीर्थे नरः स्नात्वा सन्तर्प्य पितृदेवताः ॥ तारिताः पितरस्तेन तथैव प्रपितामहाः ॥
在俱胝圣渡(Koṭi-tīrtha),人沐浴已毕,并以供献使祖灵诸神得满足;由此功德,其父祖得度,亦复其高祖之父同得解脱。
Verse 61
कोटितीर्थे नरः स्नात्वा ब्रह्मलोके महीयते ॥ तत्रैव वायुतीर्थं तु पितॄणामपि दुर्लभम् ॥
人在科提提尔塔(Koṭitīrtha)沐浴后,便在梵天(Brahmā)之界受尊崇。彼处亦有风神圣渡(Vāyutīrtha),据说连祖灵(pitṛ)也难得亲近。
Verse 62
पिण्डदानात्तु तत्रैव पितृलोके स गच्छति ॥ गया पिण्डप्रदानेन यत्फलं लभते नरः ॥ तत्फलं लभते देवि ज्येष्ठे दानान्न संशयः ॥
在彼处供献祭团(piṇḍa)者,即往祖灵之界。凡人在伽耶(Gayā)供献祭团所得之果报,女神啊,于耶什塔月(Jyeṣṭha)行布施(dāna)亦得同等果报;对此毫无疑惑。
Verse 63
द्वादशैतानि तीर्थानि देवानां दुर्लभानि च ॥ स्नानं दानं जपं होमं सहस्रगुणितं भवेत् ॥
这十二处圣地(tīrtha)据说连诸天神也难以得至。在彼处所行之沐浴、布施、持诵(japa)与火供(homa),其功德皆增至千倍。
Verse 64
पृथिव्युवाच ॥ पुष्करं नैमिषं चैव पुरीं वाराणसीं तथा ॥ एतान् हित्वा महाभाग मथुरां किं प्रशंसति ॥
大地女神(Pṛthivī)说道:“普什卡拉(Puṣkara)、奈弥沙(Naimiṣa)以及瓦拉纳西城(Vārāṇasī)亦然——舍此诸处不论,尊贵者啊,为何独称赞摩图罗(Mathurā)?”
Verse 65
तृप्तिं प्रयान्ति पितरो यावत्स्थित्यग्रजन्मनः ॥ ये वसन्ति महाभागे मथुरामितरे जनाः ॥
当他人居住于摩图罗(Mathurā)时,尊贵者啊,祖灵便得满足;其满足延续之久,直至最先出生者(始祖)之存续为止。
Verse 66
गङ्गां प्राप्य प्रयागे या वेणीति प्रथिता भुवि ॥ गङ्गाशतगुणा पुण्या माठुरे मम मण्डले ॥
那条水流到达普拉亚伽(Prayāga)后,在世间被称为“韦尼”(Veṇī);在我摩图罗(Mathurā)的境域中,它被说成比恒河(Gaṅgā)功德胜百倍。
Verse 67
यस्मिन् स्नातो नरो देवि अग्निष्टोमफलं लभेत् ॥ इन्द्रलोकं समासाद्य नरोऽसौ देवि मोदते ॥
在彼处沐浴者,女神啊,得获阿耆尼什托摩(Agniṣṭoma)祭的果报;抵达因陀罗之界后,那人,女神啊,欢喜安乐。
Verse 68
तस्मिन् वरगृहे देवि ब्राह्मणो योगिनां वरः ॥ जातिस्मरो महाप्राज्ञो विष्णुभक्तो वसुन्धरे ॥
在那殊胜之所,女神啊,有一位婆罗门——诸瑜伽行者之最——能忆前生,具大智慧,并为毗湿奴(Viṣṇu)之虔信者,哦大地。
Verse 69
तत्राथ मुञ्चते प्राणान् मम लोके महीयते ॥ ध्रुवतीर्थे तु वसुधे यः श्राद्धं कुरुते नरः ॥
随后,若在彼处舍弃生命之气,便在我的世界中受尊崇。又在德鲁瓦圣渡(Dhruva-tīrtha),哦大地,凡行施祖祭(śrāddha)之人……
Verse 70
येषां स्मरणमात्रेण सर्वपापैः प्रमुच्यते ॥ तीर्थानां चैव माहात्म्यं श्रुत्वा कामानवाप्नुयात् ॥
仅凭忆念它们,便能解脱一切罪垢;又听闻诸圣渡的伟大功德者,得以成就所愿之目标。
The text presents sacred geography as an ethical pedagogy: disciplined conduct (jitendriya, śucivrata), remembrance, and low-impact ritual acts (snāna, dāna, śrāddha) performed within a defined landscape (Mathurā-maṇḍala) are described as intensifying moral outcomes (puṇya) and supporting liberation (mokṣa). The narrative logic ties human behavior to place-based responsibility, where rivers and tīrthas function as structured environments for self-regulation and ancestral continuity.
The chapter explicitly references Kārttikā (as a high-merit ritual season), Adityāhāni (Sunday), saṃkrānti (solar transition), and grahaṇa of Candra and Sūrya (lunar/solar eclipses) as times when bathing at specified tīrthas yields heightened results (e.g., rājasūya- or agniṣṭoma-phala analogies).
By centering Pṛthivī as the questioner and presenting Mathurā’s landscape—especially the Yamunā river system—as a network of tīrthas, the text frames terrestrial features as moral infrastructures that sustain social memory (pitṛ-tarpaṇa, śrāddha) and personal discipline. The implied stewardship theme is that the sanctity and efficacy of rites depend on maintaining the integrity of rivers, bathing sites, and groves/fields that constitute the Mathurā-maṇḍala.
The narrative references Yayāti’s royal lineage (as the future kṣatriya embodiment in Dvāpara), Kaṃsa (as a dharma-dūṣaka adversary), Bali (Virocana’s son) in relation to Sūrya worship and the cintāmaṇi episode, Dhruva as an ascetic exemplar linked to Dhruva-tīrtha, and a local social figure Tiṃduka (a nāpita) whose rebirth as a brāhmaṇa is attributed to tīrtha-prabhāva; it also mentions Brahmadatta as ruler of Kāmpilya in Pāñcāla.
Read Varaha Purana in the Vedapath app
Scan the QR code to open this directly in the app, with audio, word-by-word meanings, and more.