Adhyaya 148
Varaha PuranaAdhyaya 14882 Shlokas

Adhyaya 148: The Greatness of Stutasvāmi: Varāha’s Disclosure of the Bhūtagiri Sacred Landscape and Its Ethical Discipline

Stutasvāmi-māhātmya (Bhūtagiri–Maṇipūra-giri-kṣetra-prasaṃśā)

Tīrtha-māhātmya (Sacred Geography) with Ethical-Discourse (Anti-mātsarya) and Ritual-Manual elements

本章以对话展开:大地女神Pṛthivī听闻goniṣkramaṇa的秘密功德后,请求野猪化身Varāha开示更隐密的教法,并指出更殊胜的圣域。Varāha自陈为那罗延Nārāyaṇa,强调进入正法与聆受其教的根本伦理前提,是远离mātsarya(嫉妒、妒害)。他预言将有五位具辨识力的圣仙(ṛṣi)承续其法,在世间建立其“法之形态”,并弘传“瓦拉哈”教说为诸经之精髓。随后他描绘位于Bhūtagiri/ Maṇipūra-giri的Stutasvāmi圣地,详述特定水池(kuṇḍa)、沐浴规程与修持法,尤重“五夜”守戒,并说明所得果报:净化罪垢与死后善趣归宿。最后Pṛthivī问及名号由来,Varāha解释诸天与圣贤曾在此赞颂他,故名“Stutasvāmi”,以圣地地理连结戒行纪律与现世净化。

Primary Speakers

VarāhaPṛthivī

Key Concepts

Stutasvāmi-kṣetra and Bhūtagiri/Maṇipūra-giri sacred topographyMātsarya (envy) as a dharma-destroying disposition and barrier to insightĀtmaśāstra as a framework for dharma and liberationTīrtha-snānāni with pañcakāla/pañcarātra observances and their soteriological claimsPurāṇic pedagogy: Earth (Pṛthivī) as the ethical/ecological interlocutor

Shlokas in Adhyaya 148

Verse 1

अथ स्तुतस्वामिमाहात्म्यम् ॥ सूत उवाच ॥ गोनिष्क्रमणमाहात्म्यं श्रुत्वा गुह्यमनुत्तमम् ॥ विस्मयं परमं गत्वा सर्वरत्नविभूषिता

今(始)赞颂斯图塔斯瓦明之功德。苏多曰:闻得无上而秘密的“goniṣkramaṇa”(引牛出行)之事迹后,她——佩饰众宝——进入至高的惊叹之境。

Verse 2

धरण्युवाच ॥ अहो गवां हि माहात्म्यं तव चैवं श्रुतं मया ॥ यच्छ्रुत्वा अहं जगन्नाथ जातास्मि परिनिर्वृता

大地女神达拉尼曰:啊!我已如是从汝处听闻诸牛之伟大;闻此之后,世间之主啊,我心深得满足而安宁。

Verse 3

एवमेव परं गुह्यं ब्रूहि नारायण प्रभो ॥ अस्मात्क्षेत्रात्परं देव यदि क्षेत्रं विशिष्यते

同样地,主那罗延啊,请宣说至上的秘密:若有胜过此圣域(kṣetra)之处,天神啊,请告知我此地之外的殊胜圣所。

Verse 4

श्रीवराह उवाच ॥ अहं नारायणो देवः सर्वधर्मव्यपाश्रयः ॥ मात्सर्यं चैव मे नास्ति तेनाहं परमः प्रभुः

圣野猪尊(Śrī Varāha)曰:我即那罗延之神,为一切法(dharma)所依之归依处。我心中无嫉妒;因此我为至上的主宰。

Verse 5

एतच्छास्त्रं महाभागे प्रयुक्तं लीलया मया ॥ वराहरूपमादाय सर्वभागवतप्रियम् ॥

噢尊贵者,我以从容之心宣说此论典;我取野猪神瓦拉哈之形,宣示一切奉行薄伽梵传统之信众所珍爱的教言。

Verse 6

धरण्युवाच ॥ यथा यथा भाषसि धर्मकारणमिदं वचो धर्मविनिश्चयं महत् ॥ तथा तथा देव वराहाप्रमेयं हृद्यं मनो भावयसे जनार्दन ॥

大地女神达拉尼说:你如此宣说——此言为法之因,乃对正法的重大裁断——因此,噢神明,你愈发使心意趋向那不可度量的瓦拉哈;噢阇那尔达那,此教言悦人心怀。

Verse 7

ततो महीवचः श्रुत्वा धर्मश्रेष्ठी महामनाः ॥ वराहरूपी भगवान् प्रत्युवाच वसुन्धराम् ॥

于是,至德而大心者——法中最胜者——世尊以瓦拉哈之形,听闻大地(摩诃)之言后,便答复了婆孙陀罗。

Verse 8

श्रीवराह उवाच ॥ साधु भूमे महाभागे मम कर्मव्यवस्थिते ॥ कथयिष्याम्यहं ह्येवं गुह्यं लोकसुखावहम् ॥

圣瓦拉哈说道:善哉,噢大地,汝大有福德,安住于我之事业;我必为汝宣说此秘密教法,能为世间带来安乐。

Verse 9

स्तुतस्वामीति विख्यातं गुह्यं क्षेत्रं परं मम ॥ ह्यपरं युगमासाद्य तत्र स्थास्यामि सुन्दरि ॥

有一处属于我的秘密圣地,名闻为“斯图塔斯瓦弥”,至为殊胜;在后来的时代,我将于彼时到达,并居住于彼处,噢美丽者。

Verse 10

पञ्च तस्य शिष्यास्च भविष्यन्ति विचक्षणाः ॥ ऋषयो धर्मसंयुक्ता मत्प्रसादाद्बलाश्रिताः ॥

他的五位弟子将出现,皆为明辨的圣仙(ṛṣi),具足正法(dharma),因我的恩佑而得力量所依。

Verse 11

ते मां संस्थापयिष्य्पन्ति धर्ममूर्तिं महीगताम् ॥ शाण्डिल्यो जाजलिश्चैव कपिलश्चोपसायकः ॥

他们将把我——具足正法之形(dharma-mūrti)者——安立于大地:圣者商提利耶(Śāṇḍilya)、阇阇利(Jājali)、迦毗罗(Kapila),并有优波娑耶迦(Upasāyaka)。

Verse 12

भृगुश्चैव महाभागे मम मार्गानुसारिणः ॥ ते च प्रसन्नमनस आत्मदृष्टान्तदर्शिनः ॥

又有婆利古(Bhṛgu),尊贵者啊,亦随我道而行;这些圣贤心意澄明,于自身证悟中见诸譬喻之真。

Verse 13

स्वयं ज्ञानप्रभावेण भासयिष्यन्ति मां सदा ॥ सङ्कर्षणो वासुदेवो प्रद्युम्नो ह्यनिरुद्धकः ॥

他们将以知识自身之威力,恒常照显我:桑迦尔沙那(Saṅkarṣaṇa)、婆苏提婆(Vāsudeva)、钵罗堤优摩那(Pradyumna),以及阿尼卢陀(Aniruddha)。

Verse 14

गच्छता बहुकालेन मम कर्मपरायणः ॥ ततो दीर्घेण कालेन इज्यापूर्वस्थितेन च ॥

当岁月久远流逝之时,那专注于我之事业者;继而又经长久时日,并以先行安立祭祀礼敬(ijyā)为前提(下文续)。

Verse 15

वरं तेषां प्रदास्यामि यो यस्य हृदि संस्थितः ॥ ते प्रवक्ष्यन्ति मां देवि आत्मशास्त्रव्यवस्थिताः ॥

我将赐予他们诸般恩赐——各自心中所安立者。女神啊,他们安住于我我之学(ātmaśāstra)的修持与规矩之中,必将宣说我。

Verse 16

आत्मशास्त्रं प्रतिष्ठेत यत्र धर्मः सुनिष्ठितः ॥ भवत्वेतन्निश्चयेन न तु मिथ्या कदाचन ॥

愿我我之教(ātmaśāstra)在正法(dharma)稳固安立之处坚然确立。愿此事决定无疑,永不在任何时候成为虚妄。

Verse 17

तव देव प्रसादेन इहलोकः प्रवर्तताम् ॥ तानप्येवं वदिष्यामि शिष्याय भवतां प्रियम् ॥

凭你之恩,神圣者啊,愿此世间得以正道运行。我也将如此告诫他们,为了弟子的利益——那为你所爱者。

Verse 18

भविष्यति न संशेहो यतो यूयं मम प्रियाः ॥ सुशिष्याः बाढमित्येवं भविष्यन्ति न संशयः ॥

必将如此,毫无疑虑,因为你们为我所爱。“确是善弟子”:他们必将如此成就,毫无疑虑。

Verse 19

एवं सर्वेषु शास्त्रेषु वाराहं घृतसम्मितम् ॥ वाराहं ज्ञानमुत्सृज्य महाभागं महौजसम् ॥

因此,在一切论典(śāstra)之中,瓦罗诃(Vārāha)之教如同酥油(ghee),为其精髓。若舍弃瓦罗诃之智——高贵而具大威力——……

Verse 20

एवं समं मया चैव ह्यात्मना परिभाषितम् ॥ ते प्रणामं करिष्यन्ति सिद्धिं प्राप्स्यन्ति वै पराम् ॥

因此,我以平等而一致的方式宣说此义——确由内在自我(Ātman)的直接权威而出。他们将行礼致敬,并获得至上的成就(siddhi)。

Verse 21

महाज्ञानमिदं सूक्ष्मं भूमे भक्तेषु दृश्यते ॥ शास्त्राणां परमं शास्त्रं सर्वसंसारमोक्षणम् ॥

这伟大而微妙的知识,哦大地,在奉献者之中可见。它是诸论典(śāstra)之最上者,能令众生从整个轮回(saṁsāra)中解脱。

Verse 22

किञ्चिदन्यत्प्रवक्ष्यामि तच्छृणुष्व वसुन्धरे ॥ शास्त्रमेतन्महाभागे स्थूलकर्म महौजसम् ॥

我还要再宣说一些;请听之,哦大地女神瓦孙达罗(Vasundharā)。此教法,哦有福的尊者,关乎粗显之业(sthūla-karma),具大威力。

Verse 23

केचित्तरन्ति ज्ञानेन केचित्कर्मणि निष्ठिताः ॥ केचिद्यथेष्टं सुश्रोणि केचिद्दानेन कर्मणा ॥

有人以智慧而渡越;有人安住于行持。有人随其所愿而行,哦美髋者;有人以布施之行而前进。

Verse 24

केचिद्योगबलं भुक्ता पश्यन्ति मम संस्थितम् ॥ विधिपूर्वं तु मे किञ्चिन्नराः पश्यन्ति निष्ठिताः ॥

有人运用瑜伽之力,得见我恒常安住的临在。亦有人坚住不移,依循法则而行,以次第的修持得见我之一分。

Verse 25

सर्वधर्मकराः केचित्सर्वाशाः सर्वविक्रयाः ॥ ते मां पश्यन्ति वै भूमे एकचित्त व्यवस्थिताः ॥

有人履行各种法(dharma)的义务;有人追逐诸欲,经营种种交易。然而,大地女神啊,那些一心安住、专注不二者,确实得见于我。

Verse 26

एवमेतन्महाशास्त्रं देवि संसारमोक्षणम् ॥ मम भक्तव्यवस्थायै प्रयुक्तं परमं प्रियम् ॥

因此,女神啊,此大论典(śāstra)乃出离轮回(saṃsāra)之方便;它被宣说出来——为我所至爱——以安立我信众之正当轨范。

Verse 27

ते तथा च प्रवक्ष्यन्ति यच्च यस्याभिरोचते ॥ अन्यथान्यस्य दृष्टानामृषिभिर्यत्प्रयोजितम् ॥

他们也将如此阐释——各随其所喜;因为诸仙(ṛṣi)所制定之法,在不同的人看来,所见各异。

Verse 28

मत्प्रसादेन ते सर्वे सिद्धिं यास्यन्ति मत्पराम् ॥ मम शिष्येषु येषां च मात्सर्योपहतात्मनाम् ॥

凭借我的恩赐,他们众人都将获得成就(siddhi)——以我为归向的成就。然而,那些因嫉妒我的弟子而使心灵受损者,(其果报则不然)。

Verse 29

मच्छास्त्रे च भवेद्दोषस्तेषामत्र पुनर्भवः ॥ मात्सर्यं ये च कुर्वन्ति मद्धर्मपरमे जने ॥

在我的教典(śāstra)上,他们便生起过失,并在此处招致再生。凡对奉行我之法(dharma)的人起嫉妒者——

Verse 30

तेषां नायं परो लोको मात्सर्योपहतात्मनाम् ॥ अन्यच्च ते प्रवक्ष्यामि तच्छृणुष्व वसुन्धरे ॥

对于被嫉妒所伤的心识之人,不能获得更高的世界。我还要再告诉你一事——请听吧,大地女神瓦孙达罗。

Verse 31

मम मार्गानुसारेण परं गुह्यं मम प्रिये ॥ शास्त्रवन्तो विनीताश्च बहुदोषविवर्जिताः ॥

依循我的道路,亲爱的啊,此乃至上的秘密。那些通达经典(śāstra)、自律谦恭、远离诸多过失的人——

Verse 32

यस्तु मात्सर्यसंयुक्तो न स पश्यति मां क्वचित् ॥ बहुकर्मसमायुक्ता दानाध्ययननिष्ठिताः ॥

然而与嫉妒相应之人,处处都见不到我。(即便有人)从事诸多事业,安住于布施与研习——

Verse 33

तपसा ज्ञानयुक्ता वा नित्यं कर्मसु चोद्यताः ॥ अनेन हि स्वभावेन मात्सर्यं चैव कुर्वते ॥

无论具足苦行(tapas)与智慧,或恒常被驱使而趋于诸业——由于这种本性倾向,他们确实在行嫉妒。

Verse 34

न ते पश्यन्ति मां भूमे मायया परिदूषिताः ॥ न कर्त्तव्यं ततः सर्वैर्मात्सर्यं धर्मघातकम् ॥ मम शास्त्रपरेणेह यदीच्छेत्परमां गतिम् ॥

他们见不到我啊,大地,因为他们被幻力(māyā)所染污。因此,嫉妒——摧毁正法(dharma)——任何人都不应行之;若此世有人依止我的教法而欲求至上归趣。

Verse 35

ते तु मात्सर्यार्दोषेण नष्टाचाराः पतन्त्यधः ॥ मात्सर्यं सर्वनाशाय मात्सर्यं धर्मनाशकम् ॥

然而那些被嫉妒之过所缠、失却正行的人,便堕落向下。嫉妒导致彻底毁灭;嫉妒能摧坏达摩(正法)。

Verse 36

एतद्गुह्यं महाभागे न जानन्ति मनीषिणः ॥ मात्सर्यस्य तु दोषेण बहवो निधनं गताः ॥

这是一个隐秘而微妙的真理,吉祥者啊,连智者也未必知晓:由于嫉妒之过,许多人走向毁灭。

Verse 37

तत्राश्चर्यं महाभागे शृणु भूतगिरौ मम ॥ आयसी प्रतिमा तत्र ह्यभेद्या चैव दृश्यते ॥

现在听我说吧,吉祥者啊,在我的布胡塔山(Bhūta-giri)那里有一奇迹:那里确实可见一尊铁像,而且不可破坏。

Verse 38

ब्रुवन्ति केचित्कांस्येति आयसीत्यपरेऽब्रुवन् ॥ पाषाणीत्यपरे केचिदन्ये वज्रमयीति च ॥

有人说它是青铜的;也有人说它是铁的。还有人说它是石制的;另一些则说它由金刚(vajra,坚不可摧之质)所成。

Verse 39

ऊर्ध्वं वा यदि वाऽधो वा ये कुर्वन्ति ममार्चनम् ॥ तथापि मां संस्पृशन्ति शिरोमध्ये तु सुन्दरी ॥

无论向上或向下,凡行我之礼拜者——即便如此——都会在头顶中央触及我,丽人啊。

Verse 40

ये तु पश्यन्ति मां भूमे मणिपूरगिरौ स्थितम् ॥ स्तुवन्त्याचार्यवन्तश्च मत्प्रसादत्सु संयताः ॥

然而,那些见到我——大地啊——我安住于摩尼补罗山(Maṇipūra-giri)之上,并赞颂我者;在师长引导下,克己守持、求我恩典者,皆为可称许。

Verse 41

आचार्याणां गुणान्भुक्त्वा मम कर्मपथे स्थिताः ॥ सर्वकिल्बिषमुक्ताश्च यान्ति ते परमां गतिम् ॥

他们领受师长之德,安住于我所示的修行之道;解脱一切罪垢,便趋向至高的归宿。

Verse 42

तस्मिन्क्षेत्रे महाभागे अस्ति गुह्यं परं मम ॥ पञ्चारुमेति विख्यातमुत्तरां दिशमाश्रितम् ॥

在那吉祥圣域中,福德者啊,有我至上的隐秘处,名闻为“般遮卢摩”(Pañcāruma),位于北方。

Verse 43

तत्र स्नानं प्रकुर्वीत पञ्चकालोषितो नरः ॥ मोदते नन्दने दिव्ये ह्यप्सरोभिः समाकुले ॥

在那里,人应当行沐浴之仪;住满五个时段之后,便在充满天女(apsaras)的神圣难陀那林苑(Nandana)中欢喜。

Verse 44

अथात्र मुञ्चते प्राणान्कृतकृत्यो भवेन नरः ॥ नन्दनं वनमुत्सृज्य मम लोकं च गच्छति ॥

随后,他就在此舍离生命之气;此人遂成“所作已办”者。离开难陀那林苑(Nandana),他亦前往我的世界。

Verse 45

भृगुकुण्डेति विख्यातमत्र गुह्यं परं मम ॥ मम दक्षिणपार्श्वे तु अदूरादर्धयोजनात् ॥

此处有一圣池,名闻为“婆利古池”(Bhṛgu-kuṇḍa)——乃我至上的秘奥。它在我南侧不远处,距此半由旬。

Verse 46

ध्रुवो यत्र तु तिष्ठेत मेरुशृङ्गे शिलोच्चये ॥ तत्र मोदति सुश्रोणि अप्सरोभिर्यथासुखम् ॥

在德鲁瓦(Dhruva)所住之处——于须弥山(Meru)高耸的岩峰之巅——在那里,噢腰胯姣美者,他与天女(apsarā)随意安乐而欢悦。

Verse 47

अथात्र मुञ्चते प्राणान् मम कर्मपथे स्थितः ॥ ध्रुवलोकं परित्यज्य मम लोके महीयते ॥

于是,若有人安住于我所示的业行之道,在此舍离生命之气,他将离开德鲁瓦之界,而在我之世界中受尊崇。

Verse 48

मणिकुण्डेति विख्यातं तत्र गुह्यं परं मम ॥ मणयो यत्र दृश्यन्ते अनेकालयसंस्थिताः ॥

彼处有一圣池,名为“摩尼池”(Maṇi-kuṇḍa)——乃我至上的秘奥。其间可见诸宝珠,安置于众多器处与居所之中。

Verse 49

अगाधं तं हृदं भद्रे देवानामपि दुर्लभम् ॥ विस्मयं किं पुनस्तत्र मलयश्चञ्चलः स्थितः ॥

那湖深不可测,噢贤淑者——即使诸天亦难得一至。既如此,马拉雅之风(Malaya)在彼处不息摇动,又有何可惊异?

Verse 50

तत्र स्नानं प्रकुर्वीत पञ्चकालोषितो नरः ॥ रत्नभागी भवेद्वीरो राजलक्षणसंयुतः ॥

在那里,停留满五个时段的人应当行圣浴。勇士将得分受珍宝,并具足王者之相(主权之征)。

Verse 51

अथात्र मुञ्चते प्राणान् मम कर्मपथे स्थितः ॥ छित्त्वा वै सर्वसंसारं मम लोकं प्रपद्यते ॥

若有人安住于我所示的持戒行事之道,而在此舍弃生命之息,他确能斩断一切轮回流转,得至我的世界。

Verse 52

सुगुह्यं पूर्वपार्श्वेन मम क्षेत्रस्य सुन्दरि ॥ अदूरतस्त्रिक्रोशेन परिमाणं विधीयते ॥

在我圣域(kṣetra)的东方一侧,佳丽啊,有一处极为隐秘之地。离此不远,其范围定为三拘舍(krośa)。

Verse 53

तत्र स्नानं तु कुर्वीत मम लोकं स गच्छति ॥ धूतपापेति विख्यातं तत्र गुह्यं परं मम ॥

在那里确应行圣浴;他将前往我的世界。彼处有我至上的秘密,名闻为“Dhūta-pāpa”(涤罪者)。

Verse 54

पञ्चक्रोशाददूराद्वै मम क्षेत्रस्य पश्चिमे ॥ तत्र कुण्डं महाभागे मम तद्रोचते जलम् ॥

在我圣域的西侧,距此不远——约五拘舍(krośa)——福德者啊,有一处水池;那池水为我所喜悦。

Verse 55

धुन्वानो दुष्करं कर्म पञ्चभूतात्मनिष्ठितम् ॥ कृतोदकस्तत्र भद्रे धूतपापो यशस्विनि

他修行一项艰难的仪轨,安住于由五大元素构成的具身之我;并在彼处完成水仪。吉祥而显赫的女士啊,他的罪垢得以洗净。

Verse 56

गत्वेन्द्रलोकं सुश्रोणि देवैः सह स मोदते ॥ अथात्र मुञ्चते प्राणान्मम कर्मपरायणः

他前往因陀罗之界,纤腰美髋者啊,与诸天同享欢喜;随后,在此世,奉行我法令者舍离其生命之气。

Verse 57

इन्द्रलोकं परित्यज्य मम लोकं प्रपद्यते ॥ तत्राश्चर्यं महाभागे धूतपापे शृणुष्व मे

他舍离因陀罗之界而趋入我的国土。大福德者啊,那里有一件奇妙之事;罪垢已净者啊,请听我说。

Verse 58

वर्त्तते च विशालाक्षि मणिपूरे गिरौ मम ॥ तावन्न पतते धारा यावत्पापं न धूयते

广目者啊,在我位于摩尼补罗的山上有一道溪流:只要罪垢未被洗净,其水流便不坠落。

Verse 59

धूते पापे च सुश्रोणि धारा च पतति क्षितौ ॥ एवं तत्र विशालाक्षि वृक्षमश्वत्थमिश्रितम्

当罪垢洗净之时,纤腰美髋者啊,那溪流便落于大地。又如是,广目者啊,彼处有一株与阿湿婆他(圣榕/菩提无花果)相连的树。

Verse 60

धूतपापं न प्रविशेत्प्रविशत्यामले नरे ॥ तस्मिन्क्षेत्रे वरारोहे समन्तात्पञ्चयोजने

未涤除罪垢者不应进入;唯有清净无瑕之人方可入内。在那神圣之地,哦美腿者,其范围四周各延伸五由旬。

Verse 61

यत्र तिष्ठाम्यहं देवि पश्चिमां दिशमाश्रितः ॥ तत्र चामलकं भद्रे अदूरादर्धयोजनात्

我所居之处,女神啊,依止于西方——在那里,吉祥者啊,有一株阿摩勒迦树在近旁,距此半由旬。

Verse 62

मम चैव प्रभावेण सर्वकालफलोदयम् ॥ तत्र कश्चिन्न जानाति पापकर्मा नराधमः

确然,由于我的威力,它在一切时节皆能结果。然而在那里,有某个造罪之人——人中下劣者——竟不识其妙。

Verse 63

भक्तं भागवतं शुद्धं मम कर्मव्यवस्थितम् ॥ उपोष्य च त्रिरात्राणि श्रद्धधानो जितेन्द्रियः

若有虔敬之人,清净的薄伽梵信徒,安住于我所规定的行持——并且斋戒三夜,具足信心,调伏诸根——

Verse 64

एकचित्तेन गन्तव्यं धृतिं कृत्वा सुपुष्कलाम् ॥ यत्तत्र लभते भद्रे फलमामलकं शुभम्

当以一心前往,培育充足而坚固的定力。无论在那里获得何等吉祥之果——阿摩勒迦之福益——吉祥者啊,皆极为殊胜。

Verse 65

पञ्चरात्रेण लभते तस्मिन्भूतगिरौ मम ॥ ततो हरिवचः श्रुत्वा सा मही संहितव्रता ॥

“在五夜之内,便能在我那座 Bhūtagiri(众生之山)上获得所求之果。”大地听闻哈利(Hari)之言,守持誓愿而坚定,遂作回应。

Verse 66

पुनर्नारायणं तत्र प्रोवाच विनयान्विता ॥ स्तुतस्वामी श्रुतोऽसि त्वं तत्र स्थानानि यानि च ॥

随后,她又以谦恭之心在彼处对那罗延(Nārāyaṇa)说道:“你被称为‘Stutasvāmin(受赞之主)’,也请述说那里的诸处圣地。”

Verse 67

एतन्नामनिर्वुक्तिं त्वं वक्तुमर्हसि साम्प्रतम् ॥

“你现在应当阐明此名的词源解释(nirukti)。”

Verse 68

श्रीवराह उवाच ॥ भूमे हित्वा तु संसारान्ये चान्ये देवकण्टकाः ॥ द्वापरे युगमासाद्य यत्र स्थास्यामि सुन्दरि ॥

圣瓦拉哈(Śrī Varāha)说道:“大地啊,我将舍离轮回(saṃsāra)的缠缚,也舍离那些‘为诸天之刺’者;待到二婆罗纪(Dvāpara-yuga)来临,我将安住于彼处,佳丽者。”

Verse 69

ततोऽमरैश्च ब्रह्माद्यैर्बहुभिर्मन्त्रवादिभिः ॥ स्तुतिं कर्त्तुं समारब्धं मणिपूराश्रितस्य मे ॥

于是,诸不死者——梵天(Brahmā)等——其中多为持诵真言之士,开始为我献上赞颂;彼时我安住于摩尼补罗(Maṇipūra)。

Verse 70

ततो मां नारदो देवि असितो देवलस्तथा ॥ पर्वतश्च महाभागे मम भक्त्या व्यवस्थितः ॥

于是,女神啊,那罗陀、阿悉多、提婆罗,以及帕尔瓦塔,福德具足者,都以虔敬之心在我前侍立随侍。

Verse 71

नाम कुर्वन्ति मे तत्र मणिपूरगिरौ ततः ॥ स्तुतस्वामीति विख्यातं मम कर्मव्यपाश्रितम् ॥

在那里,于摩尼补罗山上,他们为我立名;因此我以“斯图塔斯瓦明”(Stutasvāmin)之名而闻名,此称号依凭我在彼处的行迹而立。

Verse 72

एतत्ते कथितं भद्रे निरुक्तिकरणं मया ॥ त्वया पृष्टं हि यद्भद्रे सर्वभागवतप्रियम् ॥

吉祥者啊,我已为你说明此名之语源与由来。因为你所问之事,吉祥者啊,为一切奉行薄伽梵(Bhāgavata)传统的信众所珍爱。

Verse 73

एतानि भूमे गुह्यानि तत्र भूतगिरौ मम ॥ श्रद्धधानेन मर्त्येन श्रोतव्यं नात्र संशयः ॥

大地啊,这些事在我之布胡塔吉里(Bhūtagiri)处为秘要之法。唯有具信之凡人当聆听之——对此毫无疑虑。

Verse 74

एतत्ते कथितं भद्रे सर्वधर्मव्यपाश्रयम् ॥ श्रीस्तुतस्वामिमाहात्म्यं किमन्यत्परिपृच्छसि ॥

吉祥者啊,我已向你宣说此事——能成就一切法(dharma)之所依——即圣者室利·斯图塔斯瓦明(Śrī Stutasvāmin)之伟大功德(māhātmya)。你还想详问什么呢?

Verse 75

पुत्रोऽहं वसुदेवस्य देवक्या गर्भसम्भवः॥ वासुदेव इति ख्यातः सर्वदानवसूदनः॥

我是婆苏提婆之子,出自提婆姬之胎。世人称我为婆苏提婆,我恒常摧灭达那婆之众。

Verse 76

तदेतॆ प्रवदिष्यन्ति सर्वभागवतप्रियम्॥ यथा च मथ्यमानाद्वै दध्नश्चोद्ध्रियते घृतम्॥

他们将宣说此事——为一切奉信者所爱——正如确然地,搅拌凝乳之时,便能提取澄清酥油。

Verse 77

तद्युगस्य प्रभावेण भूमे कुर्वन्ति मानवाः॥ तैः स्वशिष्यैः समं देवि ये शास्त्रविनियोजिताः॥

由于那一时代的影响,噢大地女神(Bhūmī),人们便如此行事——噢女神(Devī),那些依诸《圣典》(śāstra)而被安置于正当戒律者,并与其弟子同在。

Verse 78

एतच्छास्त्रं महाभागे प्रयुक्तं विधिना मया॥ वराहरूपमादाय सर्वभागवतप्रियम्॥

此教法,噢大福者,我已依正当仪则而宣说——我取野猪化身(Varāha)之形——此教法为一切奉信者所爱。

Verse 79

तत्र स्नानं तु कुर्वीत मम मार्गानुसारकः॥ भूपृष्ठे न तु जायेत कालेन विजितेन्द्रियः॥

在那里,循我之道者确应行沐浴之仪。经由时日而制伏诸根者,便不再于地表复生。

Verse 80

सुवर्णाभं मारकतमगाधं निर्मितं मया॥ तत्र स्नानं प्रकुर्वीत पञ्चभक्तोषितो नरः॥

我造作了一处金色光辉、如翡翠般碧绿而深不可测的水域。人在此以五重虔敬而心满意足,应当行圣浴。

Verse 81

तत्र गत्वा वरारोहे उदिते च दिवाकरे॥ अथ मध्याह्नवेलायां यदि वा अस्तंगतेऽपि वा॥

到达那里吧,噢腰胯优美者——无论在日出之时,或在正午时分,乃至在日落之后——

Verse 82

एतत्स्तुतगिरेर्देवि माहात्म्यं कथितं मया॥ द्वापरं युगमासाद्य यत्र स्थास्यामि सुन्दरि॥

天女啊,我已述说了赞颂山(Stutagiri)的伟大功德。待到兜婆罗时代来临,我将居于彼处,噢美丽者。

Frequently Asked Questions

The text repeatedly frames mātsarya (envy/resentful rivalry) as dharma-nāśaka (destroyer of dharma) and as a cognitive-moral obstruction that prevents perceiving the divine or grasping the intended meaning of the teaching. It presents ethical self-regulation—non-enviousness, disciplined intent (ekacitta), and adherence to an Ātmaśāstra-grounded dharma—as prerequisites for benefiting from sacred geography and ritual practice.

The chapter does not specify tithi, nakṣatra, or season; instead it emphasizes durational observances such as pañcakāla/pañcarātra-style stays (e.g., ‘pañcakāloṣita’ and ‘pañcarātreṇa’) and temporal windows within a day (morning at sunrise, midday, or even at sunset) for approaching the āmalaka-related practice with focused attention.

By placing Pṛthivī as the questioner, the narrative treats the land itself as a participant in ethical reasoning and purification. The tīrtha descriptions focus on removing pāpa (pollution/ethical residue) through water, regulated conduct, and restraint, implying a model where moral discipline and landscape sanctity mutually reinforce a ‘cleansed’ terrestrial order (e.g., Dhūtapāpa imagery of washing away impurity before water flows).

Varāha identifies himself in a Vāsudeva/Kṛṣṇa idiom (son of Vasudeva and Devakī) and names a group of five future disciples/ṛṣis, including Śāṇḍilya, Jājali, Kapila, Upasāyaka, and Bhṛgu, as disseminators/establishers of the teaching. The naming of Nārada, Asita, Devala, and Parvata as praising figures also situates the kṣetra within a recognizable Purāṇic-sage network.