Adhyaya 147
Varaha PuranaAdhyaya 14767 Shlokas

Adhyaya 147: The Sacred Merit of Goniṣkramaṇa (the Tīrtha of the Cows’ Emergence/Release)

Goniṣkramaṇa-māhātmya

Tīrtha-māhātmya (Sacred Geography and Ritual Manual)

在对话中,大地女神Pṛthivī请求Varāha揭示一处比她所闻的Rurukṣetra与Hṛṣīkeśa更为隐秘、能净化罪垢的圣地。Varāha说明喜马拉雅高地名为Goniṣkramaṇa的tīrtha之隐因与伟力:它与Surabhī神牛及圣者Aurva长期苦行相连。叙事中Īśvara(Rudra)临近,其炽烈神威(tejas)焚毁Aurva的āśrama,引发Aurva发出足以动摇诸界的诅咒。为救治此患,经典规定以Surabhī群牛为Aurva沐浴,从而消解Rudra之咒。随后Varāha系统阐明此地的仪轨:沐浴、斋戒、绕行(pradakṣiṇā)与限期誓行,并将泉眼、榕树与瀑布等地景对应于戒制、净化,以及宇宙与环境秩序的复归。

Primary Speakers

VarāhaPṛthivī

Key Concepts

tīrtha-māhātmya and ritual efficacy (snāna, upavāsa, pradakṣiṇā)śāpa (curse) and prāyaścitta-like reversal through nonviolent, restorative actsAurva’s tapas and the politics of ascetic powersacred hydrology (dhārā, kuṇḍa, saras) as a model of purificationenvironmental-terrestrial balance framed through Pṛthivī-centered discourse

Shlokas in Adhyaya 147

Verse 1

अथ गोनिष्क्रमणमाहात्म्यम् ॥ धरण्युवाच ॥ अत्याश्चर्यं श्रुतं ह्येतद्रुरुक्षेत्रसमुद्भवम् ॥ हृषीकेशस्य महिमा त्वया य उपवर्णितः

于是,[开始叙述]“牛出行”(Goniṣkramaṇa)之圣迹赞(Māhātmya)。大地女神达拉尼说道:“诚然,这出自茹茹圣地(Ruru-kṣetra)的奇妙事迹,我已听闻。你所称述的赫利希凯沙(Hṛṣīkeśa)之伟大……”

Verse 2

अन्यच्च यत्परं गुह्यं क्षेत्रं परमपावनम् ॥ वक्तुमर्हसि देवेश परं कौतूहलं मम

此外,诸天之主啊,请为我宣说那另一处至为隐秘、最能净化的神圣圣地;因为我的求知之心极其强烈。

Verse 3

श्रीवराह उवाच ॥ शृणु भूमे प्रयत्नेन कारणं परमं मम ॥ गुह्यमस्त्यपरं चैव हिमशृङ्ग शिलोच्चये

圣瓦拉哈说道:大地啊,你当竭力专注聆听我的至上缘由。在名为“雪峰”(Himaśṛṅga)的高峻岩峰之上,也另有一桩秘密。

Verse 4

गोनिष्क्रमणकं नाम गावो यत्र प्रतारिताः ॥ यथा निष्क्रमणं प्राप्य सुरभीणां वसुन्धरे

此处名为“牛出道”(Goniṣkramaṇaka),大地女神啊,群牛曾在此被驱赶前行;并且在那里,抵达出口之后,苏拉毗(Surabhī)之牛得以脱出而行。

Verse 5

सप्ततिर्यत्र कल्पानि और्वो यत्र प्रजापतिः ॥ तपश्चचार परमं मम मायाबलान्वितः

在那里,奥尔瓦(Aurva)这位生主(Prajāpati)历经七十劫修行至高苦行(tapas),并具足我之幻力(māyā)的威能。

Verse 6

तस्यैवं वर्तमानस्य याति काले महत्तरे ॥ एवं हि तप्यमानस्य सर्वलोकस्य संशयः

当他如此持续修行之时,极其漫长的岁月流逝了。诚然,在他这样苦修之际,诸世界皆生疑惧与忧虑。

Verse 7

न वरं प्रार्थयत्येष लाभालाभसमन्वितः ॥ सूचकोऽपि न विद्येत बलिकर्मसु संयतः

他不求任何恩赐,于得失之间心境平等。于供献之仪中自持严谨,甚至连一丝私利的迹象也不见于他。

Verse 8

अथ दीर्घस्य कालस्य कश्चिद्ब्रह्मयतिस्तदा ॥ तपस्तपस्यति मुनौ तस्मिन्शैলোच्चये धरे

随后,经过漫长岁月,出现了一位梵行出家者(brahma-yati);在那高耸的山巅之上,那位牟尼修持苦行(tapas)。

Verse 9

ईश्वरोऽपि महाभागे तत्पार्श्वं समुपागतः ॥ गोनिष्क्रमेतिविख्याते तस्मिंस्तीर्थे महौजसि

而主宰伊湿伐罗(Īśvara)亦然,噢有福者,来到他身旁——在那威力宏大的圣渡处(tīrtha),名闻为“Goniṣkrama”。

Verse 10

तन्निर्गतं ततो ज्ञात्वा और्वं सर्वे तपस्विनः ॥ महेश्वरो महातेजाः सम्भ्रमात्समुपागतः

随后,得知奥尔瓦(Aurva)已现身,诸苦行者(tapasvin)尽皆聚集;而大自在天摩诃湿伐罗(Maheśvara)光辉炽盛,怀着急切而庄严之意趋近。

Verse 11

फलपुष्पसमाकीर्णा लक्ष्मीश्चैवोपजायते ॥ आश्रमं रूपसम्पन्नं फलपुष्पोपशोभितम्

并且吉祥与丰盛(Lakṣmī)随之生起,处处散布果实与花朵;那座修行林庵(āśrama)形貌庄美,以果与花而增辉。

Verse 12

तच्च वै भस्मसाद्भूतं महारुद्रस्य तेजसा॥ दग्ध्वा तं चाश्रमं पुण्यमौरवस्य सुमहत्प्रियम्॥

那处地方确已被大鲁陀罗(Mahārudra)的威光化为灰烬;他焚毁了欧尔瓦(Aurva)极其珍爱的那座神圣苦行林(āśrama)。

Verse 13

ईश्वरोऽपि ततः प्राप्तः शीघ्रमेव हिमालयम्॥ एतस्मिन्नन्तरे देवि गृह्य पुष्पकरण्डकम्॥

随后,主宰(Īśvara)也迅速抵达喜马拉雅。其间,女神啊(Devī),拿起一篮花朵,(……)

Verse 14

आश्रमं समनुप्राप्त और्वोऽपि मुनिपुङ्गवः॥ शान्तो दान्तः क्षमाशीलः सत्यव्रतपरायणः॥

欧尔瓦(Aurva)——诸牟尼中最卓越者——也来到苦行林(āśrama):安宁寂静,自制克己,天性忍辱,专心奉持真实之誓。

Verse 15

दृष्ट्वा स्वमाश्रमं दग्धं बहुपुष्पफलोदकम्॥ मन्युना परमाविष्टो दुःखनेत्रपरिप्लुतः॥

见到自己的苦行林被焚——昔日花繁果盛、水源充足——他被极大的愤怒所攫住,双眼因悲痛而盈满泪水。

Verse 16

उवाच क्रोधरक्ताक्षो वचनं निर्दहन्निव॥ येनैष चाश्रमो दग्धो बहुपुष्पफलोदकः॥

他怒目赤红,开口之言仿佛焚烧一般:“是谁焚毁了这座花多果丰、水源充足的苦行林(āśrama)?”

Verse 17

सोऽपि दुःखेन सन्तप्तः सर्वलोकान्भ्रमिष्यति॥ एवमौरवेन दत्ते तु शापे तस्मिन्महौजसि॥

“他也将被忧苦灼烧,漂泊于一切世界之间。”当奥尔瓦如此向那位大能者宣下诅咒时,(……)

Verse 18

महाभयात्तु लोकानां न कश्चित्पर्यवारयत्॥ तत्क्षणादेव देवेशि ईशोऽपि जगतो विभुः॥

然而诸世界因大恐惧,无人敢出面阻止。就在那一刹那,噢天女(Devī),连伊沙(Īśa)——宇宙之主——(……)

Verse 19

दह्यते स्म जगत्सर्वं स तु किञ्चिन्न चेच्छति॥ को वा प्रतिविधिस्तत्र यथा सर्वस्य सम्भवेत्॥

整个世界都将被焚烧;然而他却毫无所欲(不愿止息)。在那里又有什么对治之法,能使一切众生得以安稳?

Verse 20

एवमुक्ते मया क्रोधाद्दीक्षितस्तस्य चाश्रमः॥ दग्धोऽभवत्क्षणेनैव वयं तस्माद्विनिर्गताः॥

我如此说罢,他的精舍因愤怒而被“加持”(以致毁灭),顷刻间焚尽;我们便从那里退了出来。

Verse 21

एतद्दुःखेन सन्तप्तो मन्युना च परिप्लुतः॥ और्वः शशाप रोषेण तेन तप्ता वयं शिवे॥

他为此痛苦所煎迫,又被忿怒所淹没;奥尔瓦在盛怒中降下诅咒;因此我们也受其所苦,噢湿婆女神(Śivā)。

Verse 22

ततोऽभ्रमद्विरूपाक्षः शं न प्राप्नोति कर्हिचित् ॥ अहं च परितप्तोऽस्मि आत्मत्वादीश्वरस्य च ॥

于是毗卢帕叉(Virūpākṣa)四处漂泊,任何时候都未得安宁;我亦受煎迫,因为我与主宰具有亲密的同一性(ātmatva)。

Verse 23

तेन दाहेन संतप्तो न शक्नोमि विचेष्टितुम् ॥ पार्वत्या च ततः प्रोक्तः आवां नारायणं प्रति ॥

被那灼痛所炙,我无法有所作为。于是帕尔瓦蒂(Pārvatī)说道:“让我们前往那罗延那(Nārāyaṇa)。”

Verse 24

गच्छावस्तस्य वाक्येन सुखं यत्र भविष्यति ॥ ततो नारायणं गत्वा सह तेन तमौर्वकम् ॥

“让我们依他之言,前往将生起安乐之处。”随后他们与他一同前往那罗延那(Nārāyaṇa),并趋近那位奥尔瓦迦(Auvaka)。

Verse 25

विज्ञापयामो रुद्रस्य शापोऽयं विनिवर्त्तताम् ॥ संतप्ताः स्म वयं सर्वे तस्माच्छापं निवर्त्तय ॥

“我们谨呈请愿:愿鲁陀罗(Rudra)之诅咒得以回转消除。我们众人皆受煎迫;因此,请解除此咒。”

Verse 26

और्वोऽप्युवाच नोक्तं मे अनृतं तु कदाचन ॥ सुरभीगणमानिय गत्वैतं स्नापयन्तु वै ॥

奥尔瓦(Aurva)也说道:“我从未说过虚妄之言。带来苏拉毗(Surabhī)的牛群,前往那里,确实为他沐浴。”

Verse 27

रुद्रशापो निवृत्तः स्यात्तेनैव किल नान्यथा ॥ एतस्मिन्नन्तरे देवि मया गावोऽवतारिताः ॥

鲁陀罗的诅咒唯有以此法方能止息——确然无他。其间,女神啊,我使群牛降临于此。

Verse 28

तच्च गोनिष्क्रमं नाम तीर्थं परमपावनम् ॥ तत्र स्नानं तु कुर्वीत एकरात्रोषितो नरः ॥

此即名为“牛出行”(Go-niṣkrama)的圣地,至为清净。人若在彼处住一夜,当于其地沐浴。

Verse 29

गोलोकं च समासाद्य मोदते नात्र संशयः ॥ अथात्र मुञ्चते प्राणान्कृत्वा कर्म सुदुष्करम् ॥

既至牛界(Goloka),便得欢悦——此无疑也。继而在此处,既行极难之行,便舍离生命之气。

Verse 30

शंखचक्रगदायुक्तो मम लोके महीयते ॥ पञ्च धाराः पतन्त्यत्र मूले मूलवटस्य हि ॥

具足海螺、神轮与钉锤者,于我之界受尊崇。此处有五道水流,坠落于原初榕树(Mūlavaṭa)之根。

Verse 31

तत्र स्नानं प्रकुर्वीत पञ्चरात्रोषितो नरः ॥ पञ्चानामपि यज्ञानां फलमाप्नोति मानवः ॥

于彼处,住满五夜之人当行沐浴;此人亦得五种祭祀(yajña)之果报。

Verse 32

अथात्र मुञ्चते प्राणान्कृत्वा कर्म सुदुष्करम् ॥ पञ्चयज्ञफलं भुक्त्वा मम लोकं प्रपद्यते ॥

于是,在此完成极其艰难的修持后,此人舍离其生命之息;享受五种祭祀(五祭)的果报之后,便得以到达我的世界。

Verse 33

अस्ति पञ्चपदं नाम तस्मिन्क्षेत्रे परं मम ॥ मम पूर्वेण पार्श्वेण दृढाः पञ्च महाशिलाः ॥

在那属于我的至上圣域中,有一处名为“般遮跋陀”(Pañchapada)之地。其东侧矗立着五块巨石,坚固而不动。

Verse 34

मत्पूर्वां दिशमाश्रित्य तत्र ब्रह्मपदद्वयम् ॥ मध्ये तु तस्य कुण्डस्य शिला विस्तीर्णसंश्रिता ॥

面向与我相应的东方方向,那里有两处“梵天足迹”。而在那水池的中央,有一块宽阔而安置稳妥的石板。

Verse 35

ऊर्ध्वं नालपरिणाहं तत्र विष्णुपदं मम ॥ तत्र स्नानं तु कुर्वीत पञ्चरात्रोषितो नरः ॥

在上方,约一“那罗”(nāla)的范围处,有我的毗湿奴足迹。凡在此停留五夜之人,应当在那里行沐浴之仪。

Verse 36

यान्ति शुद्धांस्तु लोकांस्ते ये च भागवतप्रियाः ॥ अथात्र मुञ्चते प्राणान्युक्तः पञ्चपदे नरः ॥

凡为薄伽梵信众(bhāgavata,主之奉献者)所敬爱者,皆往清净诸界。随后,在此般遮跋陀之地,持戒自律之人舍离生命之息。

Verse 37

यत्र धारा पतत्येका पश्चिमां दिशमाश्रिता ॥ तत्र स्नानं तु कुर्वीत एकरात्रोषितो नरः ॥

在一股水流下落、朝向西方之处——凡停留一夜之人,应于彼处行沐浴之仪。

Verse 38

ब्रह्मलोकमवाप्नोति ब्रह्मणा सह मोदते ॥ कौमुदस्य तु मासस्य शुक्लपक्षस्य द्वादशी ॥

彼得至梵天之界,与梵天同欢。此事关联于名为“考牟陀”(Kaumuda)之月、白分第十二日。

Verse 39

यज्ञानां वाजपेयानां फलं प्राप्नोति मानवः ॥ अथात्र मुञ्चते प्राणान्मम कर्मसु निष्ठितः ॥

人得享诸祭,尤其婆阇佩耶(Vājapeya)之果报。继而在此,安住于与我相关之行仪者,舍离其生命之气。

Verse 40

वाजपेयफलं भुक्त्वा मम लोकं प्रपद्यते ॥ अस्ति कोटिवटं नाम तस्मिन्क्षेत्रे परं मम ॥

既受用婆阇佩耶(Vājapeya)之果,便得至我之世界。在我至上的圣域中,有一处名为“拘提伐吒”(Koṭivaṭa)之地。

Verse 41

पञ्चक्रोशं ततो गत्वा वायव्यां दिशि संस्थितः ॥ तत्र स्नानं तु कुर्वीत षष्ठकालोषितो नरः ॥

自彼处行五拘舍(krośa),至西北方位而住;凡停留六时段(ṣaṣṭhakāla)之人,应于彼处行沐浴之仪。

Verse 42

बहुयज्ञस्य कोटीनां फलं प्राप्नोति निष्कलम् ॥ अथात्र मुंचते प्राणान्भूमे कोटिवटे शुभे ॥

人能圆满无余地获得无量亿次祭祀(yajña)的果报。若在此处,噢大地,于吉祥的科蒂瓦塔(Koṭivaṭa)舍弃生命之息,亦得同等功德。

Verse 43

यज्ञकोटिफलं भुक्त्वा मम कोटिं प्रपद्यते ॥ अस्ति विष्णुसरो नाम तस्मिन्क्षेत्रे परं मम ॥

享受与亿万次祭祀等同的果报之后,便证得我的至上境界。在那片圣域中有一处名为毗湿奴萨罗(Viṣṇusara)之地,与我最为相应。

Verse 44

पूर्वोत्तरेण पार्श्वेन पञ्चक्रोशं न संशयः ॥ मत्सरः पद्मपत्राक्षि अगाधं परिसंस्थितम् ॥

在东北一侧,它延展五拘舍(krośa),毫无疑问。莲瓣眼者啊,名为摩蹉罗(Matsara)之处安置其间,深邃而不可测。

Verse 45

पञ्चक्रोशश्च विस्तारः पर्वतः परिमण्डलः ॥ तत्र भ्रमति यो भद्रे कुर्याच्चैव प्रदक्षिणम् ॥

其广度为五拘舍(krośa),而此山呈圆环之形。温柔者啊,凡在彼处行走者,也应当行右绕礼(pradakṣiṇa)。

Verse 46

तावद्वर्षसहस्राणि ब्रह्मलोके महीयते ॥ अथात्र मुंचते प्राणान्स्वकर्मपरिनिष्ठितः ॥

在同样数量的千年之中,他在梵天界(Brahmaloka)受尊崇。其后,若在此处舍弃生命之息,安住于自身所行之业,[即如是所说]。

Verse 47

ब्रह्मलोकं समुत्सृज्य मम लोके महीयते ॥ तस्मिन्क्षेत्रे महाभागे आश्चर्यं शृणु सुन्दरि ॥

离开梵天界(Brahmaloka)之后,便在我的世界中受尊崇。在那吉祥的圣地里,美女啊,请听一件奇妙之事。

Verse 48

गवां वै श्रूयते शब्दो मम कर्मसुखावहः ॥ अथात्र ज्येष्ठमासस्य शुक्लपक्षस्य द्वादशी ॥

确实能听到牛群之声——为与我相应的仪轨带来喜乐。并且在此,于耶什陀月(Jyeṣṭha)白半月的第十二日,此事尤为显著。

Verse 49

श्रूयते सुमहान्छब्दः स्वयमेतन्न संशयः ॥ एवं गोस्थलके पुण्ये महाभागवतः शुचिः ॥

能听到极其宏大的声音——此事自然而然发生,毫无疑问。于是,在功德殊胜的瞿斯塔拉迦(Gosthalaka),一位清净而大福的奉献者[依之而行]。

Verse 50

करोति शुभकर्माणि शीघ्रं मुच्येत किल्बिषात् ॥ एवं तेन महाभागे ईश्वरेण यशस्विनि ॥

在那里行诸吉祥之业,便能迅速解脱罪过。如此,极其有福而声名卓著者啊,由那位主宰,如是宣说。

Verse 51

शापदाहो विनिर्मुक्तः सर्वैः सह मरुद्गणैः ॥ एतद्गोस्थलकं नाम सर्वशान्तिकरं परम् ॥

从诅咒的灼烧之力中解脱——并与一切风神众(Maruts)同在,[此事得以成就]。此处名为瞿斯塔拉迦(Gosthalaka),至上的普遍安宁之所。

Verse 52

कथितं देवि कार्त्स्न्येन तवानुग्रहकाम्यया॥ एषोऽध्यायो महाभागे सर्वमङ्गलकारकः॥

女神啊,我已为赐汝恩惠之愿而详尽宣说。此章,尊贵的夫人,能成就一切吉祥。

Verse 53

मम मार्गानुसाराणां मम च प्रीतिवर्धनः॥ श्रेष्ठानां परमं श्रेष्ठं मङ्गलानां च मङ्गलम्॥

对随我之道者,此亦增长我之欢悦。它是至上之至上,亦是吉祥中的最吉祥。

Verse 54

लाभानां परमो लाभो धर्माणां धर्म उत्तमः॥ लभन्ते पठमानाः वै मम मार्गानुसारिणः॥

它是诸利之中最高之利,诸法之中最胜之法。诵持者——确然,随我之道者——得此果报。

Verse 55

तावद्वर्षसहस्राणि मम लोके महीयते॥ पतनं च न विद्येत पठमानो दिने दिने॥

如是千千年间,此人于我之界受尊崇;而日日诵持者,必无堕落之患。

Verse 56

तारितानि कुलान्येभिः सप्त सप्त च सप्त च॥ पिशुनाय न दातव्यं न मूर्खाय शठाय च॥

由此教法,诸族得以度脱——七族、又七族、复七族。不可授与诽谤者,亦不可授与愚者与奸诈之人。

Verse 57

देयं पुत्राय शिष्याय यश्च जानाति सेवितुम्॥ एतन्मरणकाले तु न कदाचित्तु विस्मरेत्॥

应当传授给儿子、弟子,以及懂得奉行修持之人。临终之时,切莫有片刻忘失此教。

Verse 58

श्लोकं वा यदि वा पादं यदीच्छेत् परमां गतिम्॥ तत्क्षेत्रं तु महाभागे पञ्चयोजनमण्डलम्॥

无论诵持整首偈颂,或仅四分之一偈——若欲求至上归趣——那圣域啊,尊贵的女士,其范围为五由旬之环。

Verse 59

तिष्ठामि परया प्रीत्या दिशं पूर्वामुपाश्रितः॥ पश्चिमेन वहेद्गङ्गां निष्कामेन वसुन्धरे॥

我以至深欢喜安住,依止于东方之位。西方一侧则有恒河流淌,大地啊,为那无欲之求道者而在。

Verse 60

एवं रहस्यं गुह्यं च सर्वकर्मसुखावहम्॥ एतत्ते परमं भद्रे गुह्यं धर्मसमन्वितम्॥

如是,此乃秘中之秘,能令一切事业得安乐。此为赐予汝之至上密教,吉祥的女士,具足法义。

Verse 61

मम क्षेत्रं महाभागे यत्त्वया परिपृच्छितम्॥

尊贵的女士啊,我的圣域——即你所询问的那一处。

Verse 62

तत्र त्वौर्वो महाभागे तप्यते समदर्शनः ॥ पद्मानां कारणादौर्वो गङ्गाद्वारमुपागतः

在那里,尊贵的女神啊,奥尔瓦(Aurva)以平等无偏之见修行苦行。为成就莲华之因缘,奥尔瓦来到恒河之门——冈伽门(Gaṅgādvāra)。

Verse 63

महादाहेन सन्तप्तः शम्भुर्देवीमुवाच ह ॥ और्वस्य तु तपो दृष्ट्वा भीतैर्देवैरुदाहृतम्

被巨大的热焰所灼,商婆(Śambhu)对女神说道。见到奥尔瓦的苦行,诸天因恐惧而发声陈告、祈请。

Verse 64

सप्तसप्ततिः कल्याणि सौरभेया महौजसः ॥ तेनाप्लावितदेहाश्च परां निर्वृतिमागताः

吉祥的女神啊,七十七位具大威力的娑罗婆耶(Saurabheya)众生,因其所浴润其身,得至最上安息。

Verse 65

विमुक्तः सर्वसंसारान्मम लोकं च गच्छति ॥ ततो ब्रह्मपदं नाम क्षेत्रं गुह्यं परं मम

解脱一切轮回系缚者,亦得往至我之界域。其后有一圣地名为“梵足”(Brahmapada),隐秘而至上,属于我。

Verse 66

उपवासं त्रिरात्रं तु कृत्वा कर्म सुदुष्करम् ॥ यावन्ति भ्रममाणस्य पदानि ननु सुन्दरि

美丽的女神啊,若行三夜斋戒——此事甚难——其功德,诚如行旅漂泊者所踏之步数那般无量。

Verse 67

तेजः श्रियं च लक्ष्मीं च सर्वकामान्यशस्विनि ॥ यावन्ति चाक्षराणि स्युरत्राध्याये मनस्विनि

光辉、福泽、吉祥天女拉克什米,以及一切所愿之果,尊贵者——其所得之数,等同于此章中诸音节之数,坚心之女神啊。

Frequently Asked Questions

The text frames ascetic power (tapas) and divine power (tejas) as potentially destabilizing when expressed through anger or curse, and it emphasizes restoration through regulated ritual action and restraint. The prescribed remedy—bringing Surabhī cattle to bathe Aurva—functions as a nonviolent, reparative act that re-stabilizes the worlds, presenting purification as a socially and environmentally harmonizing process rather than mere personal merit.

The chapter specifies observances tied to Dvādaśī (12th lunar day): (1) in Kaumuda month (kaumudasya māsyasya), Śukla-pakṣa Dvādaśī, linked with Brahmapada bathing and vājapeya-like merit; and (2) in Jyeṣṭha month, Śukla-pakṣa Dvādaśī, when an auspicious spontaneous sound of cows is said to be heard in the sacred area. Durational markers include ekarātra (one night), pañcarātra (five nights), ṣaṣṭha-kāla (a six-period stay), and trirātra upavāsa (three-night fast).

Through Pṛthivī as interlocutor and through the tīrtha’s hydrological features (dhārā, kuṇḍa, saras), the narrative links moral disturbance (krodha, śāpa) to world-burning imagery and then resolves it via water-based purification and regulated movement across the landscape (bathing, circumambulation, timed residence). Sacred groves/trees (e.g., Mūlavaṭa, Koṭivaṭa) and waters are presented as stabilizing nodes, implying an early ethic where terrestrial sites are maintained through disciplined human conduct.

Key figures include the sage Aurva (an archetypal tapasvin), Īśvara/Rudra (Śambhu, Mahārudra), Nārāyaṇa (invoked as an authority to negotiate the curse’s reversal), Surabhī cattle (saurabheya-gaṇa), and Marut-gaṇas. A prajāpati named Aurva is also mentioned in connection with extended austerities, and the narrative situates these figures within a mythic-sacral history anchored to Gaṅgādvāra and Himalayan geography.