
Mandāravanamahimānirūpaṇam
Tīrtha-Māhātmya (Sacred Geography and Ritual Manual)
婆罗诃对大地女神毗苏达罗(Pṛthivī/Vasundharā)宣说一处“至极秘密”的圣境——曼陀罗(Mandāra),为信众所爱,位于阇诃那毗河(Jāhnavī)南岸、近温陀耶山脉。大地女神询问:此处行何功业、得何果报与诸界(loka),以及其隐秘特征(guhya/rahasya)为何。婆罗诃遂条理分明地描绘圣地地貌:一株奇树在特定月相日期绽放;又有多处泉流、溪涧、库ṇḍa圣池与深湖分布于四方。对每一水域,经典规定简要苦行与戒行(如一食、五食、夜宿等),并宣示死后可往天界或与毗湿奴相关之境。全章以“可被描绘的圣地景观”呈现世间神圣:以自律与恭敬亲近水与林苑,积聚福德,趋向解脱之果。
Verse 1
अथ मन्दारमहिमनिर्णूपणम् ॥ श्रीवराह उवाच ॥ पुनरन्यत्प्रवक्ष्यामि एकान्तं शृणु सुन्दरि ॥ स्थानं मे परमं गुह्यं मद्भक्तानां सुखावहम्
今当宣说曼陀罗(Mandāra)之伟大。圣瓦拉哈曰:我将再宣一事;美丽者啊,当独处静听:我至上的秘密住处,能为我之奉献者带来安乐与吉祥。
Verse 2
जाह्नव्या दक्षिणे कूले विन्ध्यपृष्ठसमाश्रितम् ॥ मन्दारेति च विख्यातं सर्वभागवतप्रियम्
在阇诃那毗(恒河)南岸,依止于温陀耶山脉之上,有一处名闻遐迩之地,称为“曼陀罗”(Mandāra),为一切奉行薄伽梵传统的信众所敬爱。
Verse 3
तत्र त्रेतायुगॆ भूमे रामो नाम महाद्युतिः ॥ भविष्यति न सन्देहः स च मां स्थापयिष्यति
在那里,于特雷塔纪,哦大地,将出现一位大放光辉者,名为罗摩(Rāma)——毫无疑问——他将于彼处安立我。
Verse 4
नारायणमुखाच्छ्रुत्वा धर्मकामा वसुन्धरा ॥ उवाच मधुरं वाक्यं लोकनाथं जनार्दनम्
从那罗延(Nārāyaṇa)之口听闻之后,怀抱对法(dharma)之愿的婆苏恩达罗(大地)以甘美之言对世间之主阇那尔达那(Janārdana)说道。
Verse 5
धरण्युवाच ॥ देवदेव महादेव हरे नारायण प्रभो ॥ मन्दारेति त्वया प्रोक्तं देवधर्मार्थसंयुतम्
大地说道:噢诸神之神、伟大之主——噢哈利(Hari)、噢那罗延(Nārāyaṇa)、噢主宰——你所宣说的“曼陀罗”(Mandāra),具足神圣、法(dharma)与义利(artha)之德。
Verse 6
मन्दारे कानि कर्माणि कुर्वन्ति च ततो नराः ॥ कांश्च लोकान्प्रपद्यन्ते तत्र कर्मकृतो नराः
在曼陀罗(Mandāra),人们行何等业行?而在彼处作此业者,将得往生于哪些世界?
Verse 7
मन्दारे कानि गुह्यानि रहस्यं किञ्च तत्र वै ॥ वक्तुमर्हस्यशेषेण परं कौतूहलं मम ॥
“曼陀罗(Mandāra)之处有何隐秘之事?其中确有何秘密教法?请为我详尽宣说,因为我的求知之心极为深切。”
Verse 8
श्रीवराह उवाच ॥ शृणु सुन्दरि यत्नेन यन्मां त्वं परिपृच्छसि ॥ कथयिष्यामि ते गुह्यां मन्दारस्य महाक्रियाम् ॥
圣瓦拉哈(Śrī Varāha)说道:“美丽者啊,谨慎聆听你向我所问之事。我将为你宣说与曼陀罗相关的隐秘大仪轨。”
Verse 9
क्रीडमानोऽस्महं तत्र मन्दारे पुष्पिते तदा ॥ मन्दारपुष्पमादाय मनोज्ञं न्यस्य वै हृदि ॥
“当我在花开之时于曼陀罗嬉游之际,取了一朵可爱悦意的曼陀罗花,安置于我心间。”
Verse 10
विन्ध्ये च मत्प्रभावेण मन्दारश्च महाद्रुमः ॥ स्थितोऽहं तत्र सुभगे भक्तानुग्रहकाम्यया ॥
“在温提耶(Vindhya)之地,凭借我的威力,伟大的曼陀罗树安住其间。我亦停驻于彼,吉祥者啊,为欲施恩于诸信众。”
Verse 11
दर्शनीयतमं स्थानं मनोज्ञं च शिलातलम् ॥ यत्र तिष्ठाम्यहं देवि मन्दारद्रुममाश्रितः ॥
“那是最为可观之胜地,亦有悦意的石台;女神(Devī)啊,我便依止曼陀罗树而立于其处。”
Verse 12
विस्मयं शृणु सुश्रोणि मन्दारेऽस्मिन्महाद्रुमे ॥ द्वादश्यां च चतुर्दश्यां स पुष्पति महाद्रुमः ॥
请听一件奇事,腰肢婀娜者:在这株伟大的曼陀罗树上,于月相第十二日与第十四日,那大树便开花。
Verse 13
तत्र मध्याह्नवेलायां वीक्ष्यमाणो जनैस्ततः ॥ ततोऽन्यदिनमासाद्य दृश्यते न कदाचन ॥
在那里,于正午之时,人们得以目睹;但一旦到了另一天,便再也看不见(如先前那般)。
Verse 14
अथ प्राणान्प्रमुच्येत कुण्डे मन्दारसंस्थिते ॥ तपः कृत्वा वरारोहे मम लोकं स गच्छति ॥
随后,若有人在曼陀罗之地的池中舍身,并修行苦行(tapas),端严肢体者啊,此人便往我之界域。
Verse 15
तस्य चोत्तरपार्श्वे च प्रापणं नाम वै गिरिः ॥ तिस्रो धाराः पतन्त्यत्र दक्षिणां दिशमाश्रिताः ॥
其北侧确有一山,名为普罗帕那(Prāpaṇa)。此处有三道水流倾落,趋向南方。
Verse 16
स्नानकुण्डमिति ख्यातं तस्मिन्क्षेत्रे परं मम ॥ दक्षिणे पतते धारा स्रवते चोत्तरामुखम् ॥
在那片地域,我至上的圣地(tīrtha)名为“沐浴池”(Snāna-kuṇḍa)。水流自南侧倾落,而其水口朝北而流。
Verse 17
तस्मिन् मन्दारकुण्डे तु एकभक्तोषितो नरः ॥ स्नानं करोति शुद्धात्मा स गच्छेत् परमां गतिम् ॥
在那曼陀罗池中,若有人守持一日一食之行,并以清净心在彼沐浴,便得至于最高归趣(无上归宿)。
Verse 18
तत्र स्नातो वरारोहे एकरात्रोषितो नरः ॥ मोदनं दक्षिणे शृङ्गे तस्मिन् मेरौ शिलोच्चये ॥
美髋者啊,若有人在彼沐浴并停留一夜,便在那石质高耸的须弥山之南峰得享欢悦。
Verse 19
तस्य पूर्वोत्तरे पार्श्वे गुह्यं वैकुण्ठकारणम् ॥ यत्र धारा पतत्येका हरिद्रावर्णसन्निभा ॥
在其东北侧有一处隐秘之地,称为“通往毗昆他之因”;彼处唯有一股水流飞落,色如姜黄。
Verse 20
यस्तत्र कुरुते स्नानम् एकरात्रोषितो नरः ॥ नाकपृष्ठं समासाद्य मोदते सह दैवतैः ॥
凡在彼处沐浴并住一夜之人,得至天界之上层(那迦),与诸天同欢喜。
Verse 21
तथात्र मुञ्चते प्राणान् कृतकृत्यः सुनिश्चितः ॥ तारयित्वा कुलं सर्वं मम लोकं प्रपद्यते ॥
同样地,若有人在此舍弃生命之气,既已成办所当作之事且意志坚定,便能度脱其全族,而归入我的世界。
Verse 22
तस्य दक्षिणपूर्वेण समस्रोतो वराङ्गने ॥ पतते विन्ध्यशृङ्गेषु अगाधश्च महाह्रदः ॥
在其东南方,噢肢体端严者,有一条水流平缓的溪流在温提耶山脉诸峰间倾泻而下;其处又有一座宏大而深不可测的湖泊。
Verse 23
तत्र स्नानं तु कुर्वीत एकभक्तोषितो नरः ॥ मोदते पूर्वपार्श्वे तु तस्मिन् मेरौ शिलोच्चये ॥
在那里应当行沐浴之仪;遵守一日一食之戒的人,在那高耸的石质梅鲁山之东侧欢喜安住。
Verse 24
अथात्र मुञ्चते प्राणान् मम चित्तव्यवस्थितः ॥ छित्वा वै सर्वसंसारं मम लोकं स गच्छति ॥
随后,若有人在此舍弃生命之气,心安住于我;确已斩断整个轮回(saṃsāra),便往生于我的世界。
Verse 25
मन्दारस्य तु पूर्वेण गुह्यं कोटरसंस्थितम् ॥ यत्र धारा पतत्येका मुसलाकृतिका शुभा ॥
在曼陀罗山之东,有一处隐秘之地,位于洞穴之中;其处有一道吉祥的水流独自垂落,形如杵。
Verse 26
तत्र स्नानं प्रकुर्वीत पञ्चभक्तोषितो नरः ॥ मोदते पूर्वपार्श्वे च मेरौ तस्मिन् शिलोच्चये ॥
在那里应当如法行沐浴之仪;遵守“五食”之戒(依此经之誓愿用语所指)的人,在那高耸的石质梅鲁山之东侧欢喜。
Verse 27
अथात्र मुञ्चते प्राणान् कृत्वा कर्म सुदुष्करम् ॥ मेरुशृङ्गं समुत्सृज्य मम लोकं च गच्छति ॥
随后,既已修成极其艰难的圣行,便在此舍离生命之气;离开须弥山之巅,前往我之神圣境界。
Verse 28
तत्र स्नानं प्रकुर्वीत अहोरात्रोषितो नरः ॥ मोदते दक्षिणे शृङ्गे महामेरौ शिलोच्चये ॥
在那里,男子应当沐浴行礼,住满一昼一夜;他在大须弥山南峰、那高耸的岩石之巅欢喜安乐。
Verse 29
अथात्र मुञ्चते प्राणान्कृत्वा कर्म सुदुष्करम् ॥ मेरुशृङ्गं परित्यज्य मम लोकं प्रपद्यते ॥
随后,既已修持极其艰难的圣行,便在此舍离诸生命之息;离开须弥山顶,便证得我之境界。
Verse 30
दक्षिणे पश्चिमे भागे मन्दारस्य यशस्विनि ॥ अत्र धारा पतत्येका आदित्यसमतेजसा ॥
在著名的曼陀罗山之西南方,此处有一股水流倾泻而下,其光辉可比太阳。
Verse 31
तत्र स्नानं प्रकुर्वीत अहोरात्रोषितो नरः ॥ मोदते पश्चिमे भागे ध्रुवो यत्र प्रवर्तते ॥
在那里,男子应当沐浴行礼,住满一昼一夜;他在西方之地欢喜安乐,据说德鲁瓦在那里安住于其运行之道。
Verse 32
अथात्र मुञ्चते प्राणान्मम कर्मव्यवस्थितः ॥ सर्वपापविनिर्मुक्तो मम लोके च मोदते ॥
于是,安住于我所规定的修持之中,他在此舍离生命之息;脱离一切罪业,便在我的境界中欢喜。
Verse 33
तस्य पश्चिमपार्श्वे तु गुह्यं देवसमन्वितम् ॥ चक्रावर्त्तमिति ख्यातमगाधश्च महाह्रदः ॥
在其西侧,有一处隐秘之地,为诸天所护持,名为“Cakrāvartta”;又有一大湖,深不可测。
Verse 34
स्नानं करोति यस्तत्र पञ्चभक्तोषितो नरः ॥ मोदते मेरुशृङ्गेषु स्वच्छन्दगमनालयः ॥
凡在彼处沐浴者——曾依“五食之制”而住——便在须弥诸峰间欢喜,得一住所(或境界),往来无碍,自在通行。
Verse 35
अथ वै मुञ्चते प्राणांश्चक्रवर्ती महायशाः ॥ शृङ्गान्सर्वान्परित्यज्य मोदते मम सन्निधौ ॥
于是确然,那位声名显赫的转轮王舍离生命之息;舍弃一切峰峦,便在我面前欢喜。
Verse 36
दिशं वायव्यमाश्रित्य तस्मिन्विन्ध्यशिलोच्चये ॥ तिस्रो धाराः पतन्त्यत्र मुसलाकृतयः शुभाः ॥
转向西北方,在那温陀耶山高耸的岩峰之上,有三道吉祥之流倾泻而下,形如杵(musala)。
Verse 37
अथात्र मुञ्चते प्राणान् तस्मिन्गुह्ये यशस्विनि ॥ सर्वसङ्गं परित्यज्य मम लोकं स गच्छति ॥
如今,若有人在此、于那著名而隐秘的圣地(tīrtha)舍弃生命之气,断除一切执著,便往生于我的世界。
Verse 38
तस्य विक्रोशमात्रेण दक्षिणां दिशमाश्रितः ॥ गुह्यो गभीरको नाम अगाधश्च महाह्रदः ॥
离此一拘舍(krośa)之遥,向南方有一大湖,隐秘而名为伽毗罗迦(Gabhīraka),其深不可测。
Verse 39
तत्र स्नानं प्रकुर्वीत अष्टरात्रोषितो नरः ॥ मोदते सर्वद्वीपेषु स्वच्छन्दगमनालयः ॥
人在彼处沐浴,并居住八夜之后,便于一切洲(dvīpa)中欢喜自在,得随意往来之所居。
Verse 40
अथ वै मुञ्चते प्राणान्मम कर्मव्यवस्थितः ॥ सर्वद्वीपान् परित्यज्य मम लोकं प्रपद्यते ॥
于是,确然地,那安住于我所规定之行持者舍弃生命之气;舍离一切洲(dvīpa),便证得我的世界。
Verse 41
तस्य पश्चिमपार्श्वे तु गुह्यं वै परमं महत् ॥ सप्त धाराः पतन्त्यत्र अगाधश्च महाह्रदः ॥
在其西侧,另有一处至上而宏大的隐秘圣处;此地有七道水流倾泻而下,并有一座深不可测的大湖。
Verse 42
तत्र स्नानं प्रकुर्वीत अहोरात्रोषितो नरः ॥ मोदते शक्रलोके तु स्वच्छन्दगमनालयः ॥
凡人在彼处沐浴,并住满一昼一夜者,便在帝释天(Śakra)之界欢喜安乐,得一住所,行止往来皆随其意。
Verse 43
अथ वै मुञ्चते प्राणान्स्वकर्मपरिनिष्ठितः ॥ सर्वसङ्गं परित्यज्य मम लोकं प्रपद्यते ॥
于是,确然地,那安住于自身所规定之法(本分)者,舍离生命之气;弃尽一切执著,便归入我的世界。
Verse 44
क्षेत्रस्य मण्डलं तस्य कथ्यमानं मया शृणु ॥ स्यमन्तपञ्चकं चैव मन्दारस्य गिरौ मम ॥
请听我所说:我将叙述那圣地(kṣetra)之范围与周界;并且也说到我曼陀罗山上的“娑曼多五处”(Syamanta-pañcaka)。
Verse 45
तत्र तिष्ठामि सुश्रोणि विन्ध्यस्य गिरिमूर्द्धनि ॥ मन्दारे परमं गुह्यं तस्मिन्गुह्यशिलोच्चये ॥
我就住在那里,噢,腰胯端美者,在温陀耶山之巅——在曼陀罗山上,那至高的秘密之处,于那隐秘的岩峰之上。
Verse 46
लाङ्गले मुसलं चैव शङ्खस्तिष्ठति चाग्रतः ॥ तव चैव प्रियार्थाय मम भक्तसुखावहम् ॥
犁与杵,以及海螺,皆立于前方——确然是为你所爱之故,亦为赐我诸信众安乐吉祥。
Verse 47
एतन्न जानते केचिन्मम माया विमोहिताः ॥ मुच्य भाऽगवताञ्छुद्धान्ये च वाराहमाश्रिताः
有些人被我的幻力(māyā)所迷惑,因此不明白此义;然而清净的奉献者,以及归依野猪化身瓦拉哈(Varāha)之教法者,皆得解脱于系缚。
Verse 48
ततो ममाभवच्चिन्ता मन्दारे पर्वतस्थिते ॥ तत्रैकादशकुण्डानि निस्सृतानि गिरौ धरे
于是,大地啊,我心中对位于山上的曼达罗(Mandāra)生起忧思;在那座山上,涌现出十一处圣池(kuṇḍa)。
Verse 49
तत्राथ मुंचते प्राणान्मम कर्मपरायणः ॥ सर्वसङ्गं परित्यज्य मम लोकं स गच्छति
在那里,奉行我所规定之行持者舍离生命之气;弃绝一切执著,此人便前往我的世界(神域)。
Verse 50
तस्य दक्षिणपार्श्वे तु गुह्यं विन्ध्यविनिःसृतम् ॥ पञ्च धाराः पतन्त्यत्र मुसलाकृतयः शुभाः
在其南侧,有一处隐秘之地自温迪亚(Vindhya)涌出;此处有五道吉祥水流倾泻而下,形如杵(musala)。
Verse 51
तत्र स्नानं प्रकुर्वीत मम चित्तव्यवस्थितः ॥ मोदते सर्वशृङ्गेषु चैकीचित्तं समाश्रितः
在那里应当沐浴,令心安住于我;归依一境专注之念,便能在诸峰之上欢喜安乐。
Verse 52
दक्षिणे संस्थितं चक्रं वामे स्थाने च वै गदा ॥ य एतच्छृणुयान्नित्यं गुह्यं मन्दारसंस्थितम्
右侧安置着神轮(cakra),左侧确有神杵(gadā)。凡能日日聆听这段安住于曼陀罗(Mandāra)的秘密叙述者……
The chapter presents a discipline-centered ethic: merit and liberation-oriented outcomes are linked to regulated conduct (niyama) such as fasting patterns (ekabhakta/pañcabhakta), night-stays, and ritual bathing at specific water-sites. The narrative frames the landscape as morally pedagogical—human action in relation to groves and waters is ordered, timed, and consequential (karman → gati).
A clear lunar timing marker is given: the Mandāra mahādruma is said to blossom on dvādaśī and caturdaśī. Several rites are also structured by duration (e.g., ekarātra, ahorātra, aṣṭarātra) and by regulated eating (ekabhakta, pañcabhakta), functioning as practical temporal constraints for pilgrimage observance.
Through Pṛthivī’s inquiry and Varāha’s response, the text treats terrestrial features—springs (dhārā), ponds (kuṇḍa), lakes (hrada), peaks, and a flowering tree—as an integrated sacred ecology. The implied stewardship model is behavioral: the landscape is approached via restraint, cleanliness (śuddhātman), and non-excessive use, suggesting that human well-being and cosmic order are maintained through disciplined interaction with Earth’s waters and groves.
The chapter references Rāma (described as a future figure in Tretāyuga) who will establish (sthāpayati) Varāha/Nārāyaṇa at the site. The principal interlocutors are Varāha (identified with Janārdana/Nārāyaṇa) and Pṛthivī (Dharāṇī/Vasundharā); no extended dynastic genealogy is developed within this excerpt beyond the Rāma mention.
Answers come straight from the texts, with the shlokas they draw on. Ask in your own words.
A free sign-in with Google or Apple keeps your chat saved across web and the app.
Read Varaha Purana in the Vedapath app
Scan the QR code to open this directly in the app, with word-by-word meanings, Sanskrit recitation where available, and more.