
Badarikāśrama-māhātmya
Tīrtha-māhātmya (Sacred Geography & Ritual Merit)
在与大地女神Pṛthivī的对话中,野猪化身Varāha赞述喜马拉雅山麓Badarikāśrama(巴德里那特一带)的殊胜清净,称其为稀有而难得抵达的圣境。本章标举多处具名的圣地tīrtha与圣池kuṇḍa,并说明它们与瀑流(dhārā)、誓愿及不同期限的斋戒(eka、tri、catur、pañcarātra等一至五夜upavāsa)相应。Varāha阐明沐浴(snāna)与持戒修行的层级果报:从等同于Aśvamedha、Agniṣṭoma等大祭的功德,到得生诸界(loka),最终趋入Varāha自身之境。叙事亦追述Varāha在此隐秘苦行(tapas),因瑜伽幻力(yogamāyā)而不易被觉察;诸天向梵天Brahmā陈情,并由承认毗湿奴/Varāha之作用而恢复宇宙安稳,显示喜马拉雅圣地网络乃教导克制、真实与以大地为中心之神圣地理的法门。
Verse 1
अथ बदरिकाश्रममाहात्म्यम् ॥ श्रीवराह उवाच ॥ तस्मिन् हिमवतः पृष्ठे परं गुह्यमतः शृणु ॥ बदरीति च विख्याता देवानामपि दुर्लभा ॥
今当宣说婆陀梨迦修罗摩(Badarikāśrama)之功德。圣瓦罗诃曰:在喜马伐特(Himavat)之北脊,当听此至上而秘奥之事。其名著称为“婆陀梨(Badarī)”,即诸天亦难得至。
Verse 2
न तत्प्राप्नोति मनुजः कृत्वा कर्म सुदुष्करम् ॥ प्राप्नुवन्ति च भक्ताः ये बदरीं विश्वतारिणीम् ॥
人纵使修行极其艰难之业,亦未必得彼果;然诸信奉者若至婆陀梨——“度世之救者”——则能得之。
Verse 3
दुर्लभं तन्मम क्षेत्रं हिमकूटशिलातले ॥ यस्तत्प्राप्नोति हि क्षेत्रं कृतकृत्यो भवेन नरः ॥
我之圣域,位于雪峰希摩库塔(Himakūṭa)之岩坡,实难得至。凡能抵达此圣地者,诚为已尽所当尽之人。
Verse 4
ब्रह्मकुण्डमिति ख्यातमास्ते तत्र शिलोच्चये ॥ हिमसंस्थं तथात्मानं कृत्वा तिष्ठामि माधवि ॥
彼处岩上高地,有一池名闻为“梵池”(Brahmakuṇḍa)。我亦安住于雪中,噢摩达维(Mādhavī),常居其间。
Verse 5
मुञ्चेत्प्राणांस्तत्र यदि व्रतनिष्ठो जितेन्द्रियः ॥ सत्यलोकमतिक्रंम्य मम लोकं च गच्छति ॥
若有人在彼处持戒坚固、制御诸根而舍弃生命之气,则超越真界天(Satyaloka),并往至我的国土。
Verse 6
अग्निसत्यपदं नाम तस्मिन्क्षेत्रे परं मम ॥ शृङ्गत्रयात्पतन्त्यत्र धारा मुसलसन्निभाः ॥
在我那神圣之地,有一处至上之所,名为“火真足处”(Agnisatyapada)。彼处自三峰倾落诸流,其势其形如杵。
Verse 7
यस्तत्र कुरुते स्नानं त्रिरात्रोपोषितो नरः ॥ सत्यवादी भवेद्दक्षो मम कर्मपरायणः ॥
凡人若于彼处三夜斋戒后沐浴,则言语真实,才干具足,并专心奉行我所规定的仪轨与职责。
Verse 8
स्नानं करोति यस्तत्र त्रिरात्रोपोषितो नरः ॥ अग्निष्टोमस्य यज्ञस्य फलं प्राप्नोति मानवः ॥
凡人若于彼处三夜斋戒后沐浴,便得阿耆尼什托摩(Agniṣṭoma)祭之果报。
Verse 9
यस्तत्र मुञ्चते प्राणान्यदि कृत्वा जलाशयम् ॥ सत्यलोकमतिक्रंम्य मम लोके स मोदते ॥
若有人在彼处依止水池(圣池)而舍命,则超越真界天(Satyaloka),并在我的国土中欢喜安乐。
Verse 10
तत्र चैव तु शृङ्गेभ्यः स्थूलधारा पतॆत्पुनः ॥ स्थूले शिलातले तत्र मम धर्मो व्यवस्थितः ॥
就在此处,又有宽广的水流自山巅倾泻而下。在那宽阔的岩石平台上,据说我的达摩稳固安立。
Verse 11
स्नानं करोति यस्तत्र एकरात्रोषितो नरः ॥ सत्यवादी शुचिर्भूत्वा सत्यलोके महीयते ॥
若有人在彼处住一夜后沐浴——言语真实、身心清净——便在真谛界(Satya-loka)受尊崇。
Verse 12
अथात्र मुञ्चते प्राणान्कृत्वा चानाशकं व्रतम् ॥ सत्यलोकमतिग्रम्य मम लोकेषु तिष्ठति ॥ अस्ति पञ्चशिखं नाम बदर्याश्रमतीर्थकम् ॥ यत्र धाराः पतन्त्यत्र पञ्चशृङ्गसमाश्रिताः ॥
再者,若有人在此立下绝食之誓而后舍弃生命之气,则——超越真谛界(Satya-loka)——安住于我的诸世界。于Badaryāśrama有一处名为Pañcaśikhā的圣渡口,那里诸水流倾落,依托(或发源于)五座山峰。
Verse 13
यस्तत्र कुरुते स्नानं पञ्चस्रोतसि मानवः ॥ अश्वमेधफलं प्राप्य देवैश्च सह मोदते ॥
凡人在彼处五流汇合之地沐浴,便得阿湿婆美陀(Aśvamedha)之果报,并与诸天同欢。
Verse 14
यद्यत्र मुञ्चते प्राणान् कृत्वा कर्म सुदुष्करम् ॥ स्वर्गलोकमतिग्रम्य मम लोके महीयते ॥
若有人在此完成极其艰难之行而后舍弃生命之气,则——超越天界(Svarga-loka)——在我的境界中受尊崇。
Verse 15
चतुःस्रोत इति ख्यातं तस्मिन्क्षेत्रे परे मम ॥ चतुर्धाराः पतन्त्यत्र चतस्रो दिश आश्रिताः ॥
在我至上的圣域中,此处名为“Catuḥsrota(四流)”。这里有四道急流倾泻而下,分别趋向四方。
Verse 16
यस्तत्र कुरुते स्नानमेकऱात्रोषितो नरः ॥ मोदते नाकपृष्ठे तु मम भक्तश्च जायते ॥
凡人在彼处住一夜后沐浴者,便在Nāka天界之上欢喜,并成为我的虔信者。
Verse 17
अथ प्राणान्परित्यज्य कृत्वा कर्म सुदुष्करम् ॥ नाकपृष्ठमतिग्रम्य मम लोकं प्रपद्यते ॥
随后,在完成极其艰难之行后舍离生命之息,便超越Nāka天界之上层,归入我的世界。
Verse 18
तत्रैव हिमवत्पृष्ठे चतुःशृङ्गाद्बृहत्तराः ॥ चतुर्धाराः पतन्त्यत्र विषमाश्च शिलोच्चये ॥
就在那里的喜马伐特(Himavat)山背坡上,自四峰之山倾落四道洪流,更为浩大,参差不齐地落在岩石高处。
Verse 19
यस्तत्र कुरुते स्नानं चतूरात्रोषितो नरः ॥ चतुर्णामपि वेदानां ग्रहणे कारणं भवेत् ॥
凡人在彼处住四夜后沐浴者,便成为获得并领会四部吠陀之因。
Verse 20
अथात्र मुञ्चते प्राणान्मम कर्मपथे स्थितः । देवलोकमत्क्रम्य मम लोकं प्रतिष्ठते ॥
如今,若有人安住于我所示的祭仪之道,在此舍离生命之息——超越诸天神之界——便得安住于我的国土。
Verse 21
द्वादशादित्यकुण्डेति तस्मिन्क्षेत्रे परे मम । यत्र ते द्वादशादित्या देवि संस्थापिता मया ॥
在我至上的圣域中,有一处名为“十二阿底提亚圣池”(Dvādaśāditya-kuṇḍa),女神啊;在那里,我为你安置了十二位阿底提亚。
Verse 22
तत्र पर्वतशृङ्गे तु स्थूलमूले शिलातले । द्वादश पतन्ति धारा मम कर्मसुखावहाः ॥
在那里,于山峰之上——在根基宽厚的岩面上——有十二道水流倾泻而下,带来与我相系之功德祭行所生的安乐。
Verse 23
यस्तत्र कुरुते स्नानं यां काञ्चिद्द्वादशीं यदि । यत्र ते द्वादशादित्या स्तत्र गच्छेन्न संशयः ॥
凡在彼处于任一“十二日”(Dvādaśī,月相第十二日)沐浴者,必无疑往生至那十二位阿底提亚所在之境。
Verse 24
अथात्र मुञ्चते प्राणान्मम कर्मणि संस्थितः । समतिक्रम्य चादित्यान्मम लोके महीयते ॥
如今,若有人在此安住于我之祭仪而舍离生命之息——并且超越诸阿底提亚——便在我的国土中受尊崇而显耀。
Verse 25
लोकपालमिति ख्यातं तस्मिन्क्षेत्रे परे मम । तत्र ते लोकपाला स्तु मया संस्थापिताः पुरा ॥
在我至上的神圣境域中,有一处名为“Lokapāla(护世者)”之地;我昔日曾为你们在此安置诸护世者。
Verse 26
तत्र पर्वतमध्ये तु स्थल कुण्डं बृहन्मम । भित्वा पर्वतमुद्गीर्णं यत्र सोमसमुद्भवः ॥
在那里,于山体之中有我广阔的“Sthala-kuṇḍa(地池)”;它冲破山岩而涌出——于彼处生起源自苏摩(月神)的泉流。
Verse 27
अथात्र मुञ्चते प्राणान्मम कर्मसु तत्परः । लोकपालानतिक्रम्य मम लोकं प्रपद्यते ॥
如今,若有人在此舍弃生命之息,专注奉行我的仪轨——越过诸护世者(Lokapāla)之后——便得入我之世界。
Verse 28
अस्ति मेरोरवरं नाम तस्मिन्गुह्यं परं मम । तत्र स्थितेन वै भूमे मेरुः संस्थापितः स्वयम् ॥
有一处名为“Meror-vara”的地方;其中藏有我至上的秘密,哦大地。由安住其处者,须弥山(Meru)仿佛自然而然得以确立。
Verse 29
धारास्तिस्रः पतन्त्यत्र सुवर्णसदृशप्रभाः । पतत्तु तज्जलं भूमौ व्यक्तिं नैवोपलभ्यते ॥
此处有三道水流倾泻而下,光辉如金;然而当那水落于地面时,却不见其任何显现之相。
Verse 30
यस्तत्र कुरुते स्नानं त्रिरात्रोपोषितो नरः ॥ मोदते मेरुशृङ्गेषु मम भक्तश्च जायते ॥
凡人在彼处沐浴,并守三夜斋戒者,得在须弥山诸峰欢喜,并成为我的虔信者。
Verse 31
अथ तत्र मृतो देवि तस्मिन्गुह्ये परे मम ॥ मेरुपृष्ठमत्क्रम्य मम लोकं तु गच्छति ॥
女神啊,若有人死于彼处——我那至上而隐秘之地——越过须弥之脊,便确实前往我的世界。
Verse 32
मानसोद्भेदमिति च तत्रान्यत्तीर्थमुत्तमम् ॥ पृथ्वीमुद्भिद्य मध्ये तु जलं गच्छति सत्वरम् ॥
彼处另有一处殊胜圣渡,名为“摩那苏德贝达”(Mānasodbheda):穿透大地,水流迅速趋入其内。
Verse 33
देवा अपि न जानन्ति तं देशं तत्र संस्थितम् ॥ मानुषा हि विजानन्ति भूम्यां पतति तज्जलम् ॥
连诸天也不知彼处所在;而人类却知晓——其水落于大地之上。
Verse 34
यस्तत्र कुरुते स्नानमहोऱात्रोषितो नरः ॥ मोदते मानसे दिव्ये मम भक्तश्च जायते ॥
凡人在彼处沐浴,并守一昼一夜斋戒者,得于神圣的摩那萨(Mānasa)中欢喜,并成为我的虔信者。
Verse 35
अस्ति पञ्चशिरं नाम तस्मिन्गुह्यं परं मम ॥ ब्रह्मणा छिद्यते यत्र शिरश्चैव महाद्युति ॥
在那里有一处属于我的至高秘境,名为“Pañcaśira(五首)”,在此梵天(Brahmā)斩落一颗大放光明的头颅。
Verse 36
यत्र तन्मध्यमं कुण्डं छिन्नमेव स्वयम्भुवा ॥ तत्र रक्तजला भूमिर्दृश्यते धारसंकुला ॥
在那中央水池确被自生者(Svayambhū,即梵天)劈开之处,可见地面泛着红色水流,溪涧纵横。
Verse 37
यस्तत्र कुरुते स्नानं पञ्चरात्रोषितो नरः ॥ मोदते ब्रह्मलोकस्थो मम भक्तश्च जायते ॥
凡在彼处沐浴者,先行五夜斋戒,便在梵天界(Brahmaloka)安住而欢喜,并成为我的虔信者。
Verse 38
तथात्र मुञ्चते प्राणान् गुह्ये पञ्चशिरे मम ॥ जलचन्द्रायणं कृत्वा मम कर्मसु निष्ठितः ॥
同样地,他在我隐秘的Pañcaśira处舍弃生命之息——先行以水为本的月行斋(Cāndrāyaṇa)之戒,并坚定奉行我所规定的仪轨。
Verse 39
बुद्धिमान्मतिमांश्चैव रागमोहविवर्जितः ॥ ब्रह्मलोकमत्क्रम्य मम लोकं स गच्छति ॥
他具智慧与明辨,远离贪著与迷妄;超越梵天界(Brahmaloka),而趋入我的世界。
Verse 40
अस्ति सोमाभिषेकेति तीर्थमन्यत्परं मम। राजत्वे ब्राह्मणानां तु मया सोमोऽभिषेचितः॥
我另有一处至上的圣地渡口,名为“苏摩灌顶(Somābhiṣeka)”。当婆罗门执掌王权之时,苏摩由我亲自为其灌顶加冕。
Verse 41
तत्राहं तोषितस्तेन अत्रिपुत्रेण माधवि। नवपञ्चककोट्यस्तु कृत्वा कर्म सुदुष्करम्॥
在那里,阿特里之子使我欢喜,噢 Mādhavī;他完成了一项极其艰难的功业——其功德(或量值)为九与五俱的俱胝(koṭi)。
Verse 42
प्राप्तश्च परमां सिद्धिं मत्प्रसादाद्वसुन्धरे। तदायत्तं जगत्सर्वं व्रीहयः परमौषधीः॥
并且他凭借我的恩赐获得了至高的成就(siddhi),噢 Vasundharā。整个世界都依赖于此——稻谷之作与最上等的药用灵草。
Verse 43
जायतेऽस्मिन्प्रलीयन्ते स्कन्देन्द्राः समरुद्गणाः। भूमे सोममयं सर्वं मम संस्थं भविष्यति॥
在此境域中,斯坎达与因陀罗——连同马鲁特诸众——生起而复归寂灭。噢大地,一切都将充满苏摩之性,并安立于我之中。
Verse 44
तत्र सोमगिरिर्नाम यत्र धारा पतेद्भुवि। कुण्डेऽरण्ये विशालें तु एतत्ते कथितं मया॥
那里有一处名为“苏摩山(Somagiri)”之地,水流(dhārā)倾泻而落于大地。在那宽广的森林、那水池(kuṇḍa)之处——此皆我已向你宣说。
Verse 45
अथात्र म्रियते देवि कृत्वा कर्म सुदुष्करम्। सोमलोकमतिगम्य मम लोकं प्रपद्यते॥
如今,女神啊,若有人在此处完成极其艰难之业而身终,便超越苏摩之界,归入我的世界。
Verse 46
अस्ति चोर्वशिकुण्डेति गुह्यं क्षेत्रे परं मम। यत्र चैवोर्वशी भित्त्वा दक्षिणोरुमजायत॥
有一处名为“科尔瓦希昆达”(Corvaśikuṇḍa)的所在,是我隐秘而至上的圣地;正是在那里,乌尔瓦希(Urvāśī)劈开其处,从右大腿而生。
Verse 47
तत्र तप्याम्यहं देवि देवानामपि कारणात्। न मां कश्चिद्विजानाति स्वात्मानो हि विजानते॥
女神啊,我在那里修行苦行(tapas),甚至为诸神之事而行。无人识我;唯有真正了知自身我(Ātman)者,方能识我。
Verse 48
ततो मे तप्यमानस्य बहुवर्षव्यतिक्रमात्। देवा अपि न जानन्ति वज्रिब्रह्ममहेश्वराः॥
随后,当我持续苦修、岁月流逝多年之时,连诸神——执金刚的因陀罗、梵天与大自在天(摩醯首罗)——也不知我是谁。
Verse 49
एकैकॆन फलेनात्र बदर्यां तु सुनिश्चितम्। बहुवर्षसहस्रं तु तपश्चीर्णं मया भुवि॥
在此地,于巴达梨(Badarī,枣树)林中,我以每次仅取一枚果实为食——此事确凿——我在大地上修行苦行已历经千千年。
Verse 50
तत्राहं दश कोट्यस्तु दशवर्षं दशार्बुदम् ॥ दश भूमे तथान्यानि पद्मानि तपसि स्थितः
我在那里停留——以十个“俱胝”(koṭi)、十年、十个“阿部陀”(arbuda)等时量计;又以十倍此类的量,哦大地,并且还有其他称为“钵摩”(padma)的量——安住于苦行(tapas)之中。
Verse 51
ततस्ते मां न पश्यन्ति देवा गुह्यपथे स्थितम् ॥ विस्मयं परमं जग्मुर्देवा दुःखपरायणाः
于是诸天虽见我安住于隐秘之道,却并未看见我;诸天因忧苦所迫,陷入了极大的惊异。
Verse 52
अहं पश्यामि सर्वं वै तपःसंस्थो वसुन्धरे ॥ न मां सर्वे प्रपश्यन्ति योगमायासमावृताः
我确实能见一切,哦大地女神瓦孙达罗(Vasundharā),因为我安住于苦行(tapas);然而并非众生皆能见我,他们被瑜伽之幻力(māyā)所覆。
Verse 53
ततस्ता देवताः सर्वाः प्रत्य ऊचुश्च पितामहम् ॥ विष्णुना च विना लोके शान्तिं नैव लभामहे
于是诸神都回答毗多摩诃(Pitāmaha,梵天 Brahmā)说:“世间若无毗湿奴(Viṣṇu),我们决不能获得安宁。”
Verse 54
ततो देवाः सगन्धर्वाः सिद्धाश्च परमर्षयः ॥ तत्र जग्मुर्महाभागे तुष्यन्तः परमं मुदा
于是诸天与乾闼婆(Gandharva)、悉地者(Siddha)以及至上圣仙(ṛṣi)一同前往那里,哦大福者,欢喜于无上的喜悦。
Verse 55
विभावयन्ति मां तत्र देवा इन्द्रपुरोगमाः ॥ त्वया नाथ परित्यक्ता दुःखिताः श्रमवर्जिताः
在那里,诸天由因陀罗为首观想于我,并说道:“被你舍弃,主啊,我们受苦,失却精进与力量。”
Verse 56
त्रायस्व नो हृषीकेश परमाणुग्रहेण वै ॥ एतत्कृत्वा विशालाक्षि देवान् प्रणतिपूर्वकम्
“求你救护我们,赫利湿迦耶沙啊,确以至上慈悲。”如此行毕,广目者啊,他们先行礼敬而趋近诸天。
Verse 57
मया विलोकिताः सर्वे परां निर्वृतिमागताः ॥ एतस्मिन्नुर्वशी कुण्डे एकरात्रोषितो नरः
我一见他们,众皆得至上安息。在此乌尔瓦希圣池中,若有人住留一夜……
Verse 58
यः स्नाति सर्वपापेभ्यो मुच्यते नात्र संशयः ॥ उर्वशीलोकमासाद्य क्रीडते कालमक्षयम्
凡在此沐浴者,皆脱离一切罪垢——对此毫无疑惑。得至乌尔瓦希之界,便享受不坏之时。
Verse 59
यस्तत्रोत्सृजते प्राणान्मम कर्मपरायणः ॥ पुण्यपापविनिर्मुक्तो याति मल्लीनतां प्रिये
又若有人于彼舍离气息,专志于我之事业与仪轨,超脱福与罪,便往至“摩利那塔”,亲爱者啊。
Verse 60
श्रीबदर्याश्रमं पुण्यं यत्र यत्र स्थितः स्मरेत् ॥ स याति वैष्णवं स्थानं पुनरावृत्तिवर्जितः ॥
无论身在何处,凡忆念吉祥而具功德的圣地室利·巴达里阿湿罗摩者,必得往生毗湿奴之居处,永离再来(超越轮回)。
Verse 61
य इदं शृणुयान्नित्यं मद्भक्तः सततं पठेत् ॥ ब्रह्मचारी जितक्रोधः सत्यवादी जितेन्द्रियः ॥
恒常聆听此教、并以我为所依而常常诵读者,即被称为梵行者,已降伏嗔怒,说真实语,且能制御诸根。
Verse 62
ध्यानयोगरतो नित्यं स मुक्तिफलभाग्भवेत् ॥ यस्यैतद्विदितं सर्वं ध्यानयोगं वसुन्धरे ॥
恒常安住于禅观之瑜伽者,得受解脱之果。噢,瓦孙达拉啊,若有人于此整套禅观瑜伽之法皆已通达。
Verse 63
इन्द्रलोकमिति ख्यातो बदर्यां च ममाश्रमः ॥ तत्राहं देवि शक्रेण निष्कलं परितोषितः ॥
在巴达里,我的道场以“因陀罗界(Indraloka)”之名而著称。于彼处,女神啊,我为释迦罗(因陀罗)所令而得圆满欢喜。
Verse 64
वेदधारमिति ख्यातं तस्मिन्क्षेत्रे परे मम ॥ यत्र ब्रह्ममुखाद्भ्रष्टा वेदाश्चत्वार एव च ॥
在我那至上的圣域中,有一处名为“吠陀持流(Vedadhāra)”之地;相传四部吠陀皆从梵天(Brahmā)之口中迸出,如同坠落而出。
Verse 65
तत्र स्नानं तु कुर्वीत ज्येष्ठमासस्य द्वादशीम् ॥ मोदते लोकपालेषु मम भक्तश्च जायते ॥
在那里,应于耆耶什吒月(Jyeṣṭha)之第十二日(Dvādaśī)行沐浴仪轨;他在护世者(Lokapāla)之中欢喜,并成为我的虔信者。
Verse 66
तत्र वै पञ्च कुण्डानि स्थूलशीर्षशिलोच्चये ॥ पञ्चात्र शिरसः स्थाने बहुधारासमन्विताः ॥
在那里,确有五处沐浴池(kuṇḍa),位于名为“粗首”(Sthūlaśīrṣa)的岩石高处;此处在“头之处所”,并具多股水流。
Verse 67
यस्तत्र कुरुते स्नानं त्रिरात्रोपोषितो नरः ॥ मोदते सोमलोकेषु एवमेतन्न संशयः ॥
凡人在彼处沐浴,且先守三夜斋戒者,便在苏摩之诸界欢喜;确如是,无有疑惑。
Verse 68
देवानां तु वचः श्रुत्वा ब्रह्मा लोकापितामहः ॥ योगमायापटच्छन्नं कथयामास मां तदा ॥
听闻诸神之言后,梵天(Brahmā)——诸世界之祖父——当时宣说我乃为瑜伽幻力(Yogamāyā)之帷幕所遮蔽者。
Verse 69
योऽवगच्छति चात्मानं स गच्छेत्परमां गतिम् ॥
凡能了悟自我(Ātman)者,即得至于至上归趣。
The chapter frames tīrtha practice as inseparable from ethical discipline: truthfulness (satya-vāda), purity (śauca), sense-control (jitendriyatā), and vow-observance (vrata-niṣṭhā). Merit is presented as graded and conditional—ritual acts like snāna and fasting are repeatedly linked to moral qualifications and to a hierarchy of post-mortem destinations (lokas), culminating in Varāha’s realm.
The text specifies fasting durations (eka-, tri-, catur-, and pañcarātra) and includes tithi-based timing: bathing on a Dvādaśī in the Dvādaśādityakuṇḍa section, and explicitly mentions Jyeṣṭha-māsa Dvādaśī for the Lokapāla tīrtha bathing observance.
Through Pṛthivī as interlocutor and the detailed mapping of mountain-water features (dhārā, srotas, kuṇḍa), the narrative sacralizes Himalayan hydrology as a regulated moral-ritual landscape. The implied stewardship logic is that disciplined human conduct (restraint, truthful speech, controlled consumption via fasting) harmonizes with and preserves the sanctity of Earth’s waters and slopes, making geography itself a medium of ethical education.
The chapter references Brahmā (pitāmaha), Indra (Śakra/Vajrin), Maheśvara, various devas with gandharvas and siddhas, and Atri’s son (Atriputra) in the Somābhiṣeka narrative. Urvaśī is named in connection with Urvaśīkuṇḍa. No human royal lineage is foregrounded; the emphasis remains on divine figures and tīrtha topography.