Varaha Purana - Adhyaya 14
Varaha PuranaAdhyaya 1453 Shlokas

Adhyaya 14: Ritual Procedure for Śrāddha: Sequence, Eligibility, and Offerings to Ancestors

Śrāddha-vidhiḥ (Paitṛkakriyā-kramāḥ)

Ritual-Manual

在伐罗诃(Varāha)与大地女神(Pṛthivī)的教诲框架中,本章以圣贤相传的方式,呈示祭祖“施罗达”(śrāddha)的仪轨手册。经文列出应邀者——通晓吠陀者、持戒苦行者与德行端正的婆罗门——并说明因道德或仪式不合格而应排除的类别。随后按次第叙述:迎请宾众、净身安座、为天神与祖灵(deva、pitṛ)陈设供品,并以阿瓦哈那(āvāhana)配合阿尔伽(arghya)、香(dhūpa)、灯(dīpa)及特定的水与芝麻组合而行。强调对不期而至的客人(atithi)亦须恭敬款待,以保仪式灵验。并详述火供(homa)献于阿耆尼(Agni)、苏摩(Soma)与毗婆斯瓦塔(Vaivasvata),进食规矩、护持诵念、团食供(piṇḍa)安置与洒水奠献、布施酬谢(dakṣiṇā)、祝福与有序送神(visarjana),以此维系家族延续与人间社会秩序。

Speakers

VarāhaPṛthivī

Key Concepts

śrāddha (paitṛkakriyā) procedural sequencebrāhmaṇa eligibility and exclusion criteriaatithi-pūjā as a safeguard of ritual efficacyhoma triad: Agni (kavyavāhana), Soma (pitṛmān), Vaivasvatapiṇḍa-nirvapana and pitṛtīrtha water-libationsdakṣiṇā, āśīrvāda, and visarjana order (pitṛs before devas)yogin presence amplifying collective salvific efficacyritual purity controls: anger, haste, and travel-fatigue as impediments
Recitation with translationVaraha Purana Adhyaya 14

Shlokas in Adhyaya 14

Verse 1

मार्कण्डेय उवाच । एतन्मे कथितं पूर्वं ब्रह्मपुत्रेण धीमता । सनकानुजेन विप्रर्षे ब्राह्मणान् शृणु साम्प्रतम् ॥ १४.१ ॥

马尔坎德耶说道:“此事先前已由梵天睿智之子、萨那迦之弟向我叙述。如今,噢诸婆罗门中最胜者,请聆听有关婆罗门之事。”

Verse 2

त्रिणाचिकेतस्त्रिमधुस्त्रिसुपर्णः षडङ्गवित् । वेदवित् श्रोत्रियो योगी तथा वै ज्योष्ठसामगः ॥ १४.२ ॥

他精通三重那奇克塔仪轨、‘三摩度’之教与‘三苏帕尔那’诵读;通晓吠陀六支学,了知吠陀,为受正统传承的闻吠者(śrotriya),亦为瑜伽行者,并且确为《娑摩》圣歌的杰出吟诵者。

Verse 3

ऋत्विजं भागिनेयं च दौहित्रं श्वशुरं तथा । जामातरं मातुलं च तपोनिष्ठं च ब्राह्मणम् ॥ १४.३ ॥

“(应当礼敬并接待)主祭之祭官、姊妹之子、女儿之子、岳父、女婿、母舅,以及亦当礼敬安住苦行戒律的婆罗门。”

Verse 4

पञ्चाग्न्यभिरतं चैव शिष्यं संबन्धिनं तथा । मातापितॄरतं चैव एताञ्छ्राद्धे नियोजयेत् ॥ १४.४ ॥

在施行施罗达(śrāddha)时,也应当选任:乐于奉持五圣火者、弟子、亲族,以及同样孝事父母者。

Verse 5

मित्रध्रुक् कुनखी चैव श्यावदन्तस्तथा द्विजः । कन्यादूषयिता वह्निवेदोज्झः सोमविक्रयी ॥ १४.५ ॥

背叛友人者、指甲畸形者、牙色晦暗之二生者、玷污处女者、怠慢圣火与吠陀者、以及贩卖苏摩者——此处皆列为应受谴责之人。

Verse 6

अभिशप्तस्तथा स्तेनः पिशुनो ग्रामयाजकः । भृतकाध्यापकश्चैव भृतकाध्यापितश्च यः ॥ १४.६ ॥

同样,被诅咒者、盗贼、诽谤者、为酬金行仪的村祭司,以及受雇取酬的教师与付酬受教者——皆在此列举。

Verse 7

परपूर्वापतिश्चैव मातापित्रोस्तथोज्झकः । वृषलीसूतिपोष्यश्च वृषलीपतिर एव च । तथा देवलकश्चापि श्राद्धे नार्हन्ति केतनम् ॥ १४.७ ॥

又同样:娶曾先嫁他人的女子之夫;弃置或怠慢父母者;由 vṛṣalī 之子嗣供养者;vṛṣalī 之夫;以及 devalaka(以事神为业者)——在 śrāddha 祭仪中皆不为合格受施者。

Verse 8

प्रथमेऽह्नि बुधः कुर्याद् विप्राग्र्याणां निमन्त्रणम् । आनिमन्त्र्य द्विजान् गेहमागतान् भोजयेद् यतीन् ॥ १४.८ ॥

于第一日,明智之人当邀请卓越的婆罗门;既已邀请并迎接到家的“二生者”,亦应供食于出家苦行者(yati)。

Verse 9

पादशौचादिना गृहमागतान् भोजयेद् द्विजान् । पवित्रपाणिराचान्तानासनेषूपवेशयेत् ॥ १४.९ ॥

先行洗足等常规礼节后,应供食于到家的二生宾客;以清净之手,在其行 ācamana(啜水净礼)之后,使其安坐于相称之座。

Verse 10

पितॄणामयुजो युग्मान् देवानामपि योजयेत् । देवानामेकमेकं वा पितॄणां च नियोजयेत् ॥ १४.१० ॥

应为 Pitṛ(祖灵)分配供分,或以奇偶成对而设,亦同样为诸天(Deva)而设;或另可对诸天与祖灵皆逐一分配。

Verse 11

तथा मातामहश्राद्धं वैश्वदेवसमन्वितम् । कुर्वीत भक्तिसम्पन्नः सक्तन्त्रं वा वैश्वदेविकम् ॥ १४.११ ॥

同样,应为外祖父举行śrāddha(祭祖供养)仪式,并配以Vaiśvadeva供献;或具足虔敬者,可依所规定的仪轨一并行Vaiśvadevika之礼。

Verse 12

प्राङ्मुखं भोजयेद्विप्रं देवानामुभयात्मकम् । पितृपैतामहानां च भोजयेच्चाप्युदङ्मुखान् ॥ १४.१२ ॥

应令一位婆罗门面向东方受食,视其为以双重方式体现诸天者;并且也应为诸祖灵(Pitṛ)与祖父辈(Pitāmaha)设食,使其面向北方。

Verse 13

पृथक् तयोः केचिदाहुः श्राद्धस्य करणं द्विज । एकत्रैकेन पाकेन वदन्त्यन्ये महर्षयः ॥ १४.१३ ॥

有人说,噢二次生者,śrāddha应当为两者分别举行;而另一些大圣仙则说,可用一次烹备而合并同作。

Verse 14

विष्टारार्थं कुशान् दत्त्वा सम्पूज्यार्घविधानतः । कुर्यादावाहनं प्राज्ञो देवानां तदनुज्ञया ॥ १४.१४ ॥

为铺陈仪坛而安置库沙草(kuśa),并依规定的arghya供献之法恭敬礼敬之后,智者应在诸神允可之下,行请召(āvāhana)诸天之仪。

Verse 15

यवाम्बुना च देवानां दद्यादर्घ्यं विधानवित् । सुगन्धधूपदीपांश्च दत्त्वा तेभ्यो यथाविधि । पितॄणामपसकव्येन सर्वमेवोपकल्पयेत् ॥ १४.१५ ॥

通晓仪轨者应以大麦水(yava-ambu)向诸天奉献arghya;并依规向其献上芬芳之香与明灯之后,也应以apasakavyā供献为祖灵(pitṛ)备办一切。

Verse 16

अनुज्ञां च ततः प्राप्य दत्त्वा दर्भान् द्विधाकृतान् । मन्त्रपूर्वं पितॄणां तु कुर्यादावाहनं बुधः । तिलाम्बुना चापसव्यं दद्यादर्घ्यादिकं बुधः ॥ १४.१६ ॥

随后得其许可,安置分作两段的库沙草(darbha);智者当依规定之真言行“阿瓦哈那”(āvāhana),迎请祖灵 Pitṛ。以掺芝麻之水,并以圣线作“阿帕萨维亚”(apasavya)之佩法,献上阿尔伽(arghya)及其余常规供品。

Verse 17

काले तत्रातिथिं प्राप्तमन्नकामं द्विजाध्वगम् । ब्राह्मणैरभ्यनुज्ञातः कामं तमपि पूजयेत् ॥ १४.१७ ॥

若在适当之时,有宾客来到彼处——一位求食的“二生者”(dvija) 行旅——则在诸婆罗门许可之后,也应甘心恭敬供养他。

Verse 18

योगिनो विविधैरूपैर्नराणामुपकारिणः । भ्रमन्ति पृथिवीमेतामविज्ञातस्वरूपिणः ॥ १४.१८ ॥

瑜伽行者乃人类之益友,常以种种形相游行此大地,而其真实本性却不为人所识。

Verse 19

तस्मादभ्यर्चयेत् प्राप्तं श्राद्धकालेऽतिथिं बुधः । श्राद्धक्रियाफलं हन्ति द्विजेन्द्रापूजितोऽतिथिः ॥ १४.१९ ॥

因此,智者当于施行 śrāddha 之时,恭敬礼遇来客。若宾客未受敬奉——尤其被视为二生者中最尊者——则能毁损 śrāddha 仪轨之功德。

Verse 20

जुहुयाद् व्यञ्जनं क्षारैर्वर्ज्यमन्नं ततोऽनले । अनुज्ञातो द्विजैस्तैस्तु त्रिः कृत्वा पुरुषर्षभ ॥ १४.२० ॥

当以火供(homa)将所备诸食投入火中,但须避开含碱之食。随后,得彼诸婆罗门许可后,应行三次,噫,人中雄者。

Verse 21

अग्नये काव्यवाहनाय स्वाहेति प्रथमा हुतिः । सोमाय वै पितृमते दातव्या तदनन्तरम् ॥ १४.२१ ॥

第一份供献应以“svāhā(娑嚩诃)”之辞奉献于阿耆尼(Agni),即承载祭供之神。其后,当供献于苏摩(Soma),与祖灵皮特里(Pitṛ,祖先)相应者。

Verse 22

वैवस्वताय चैवान्या तृतीया दीयताहुतिः । हुतावशिष्टमल्पाल्पं विप्रपात्रेषु निर्वपेत् ॥ १४.२२ ॥

第三份供献亦当奉献于毗婆斯伐多(Vaivasvata)。随后,将供献所余之物少量少量地分置于婆罗门之器皿中。

Verse 23

ततोऽन्नं मृष्टमत्यर्थमभीष्टमभिसंस्कृतम् । दत्त्वा जुषध्वमिच्छातो वाच्यमेतदनिष्ठुरम् ॥ १४.२३ ॥

随后,献上烹制精良、极为上选且细致净治之食物;并可随己意温言说道:“请受用。”言辞当柔和,不可粗厉。

Verse 24

भोक्तव्यं तैश्च तच्चित्तैर्मौनिभिः सुमुखैः सुखम् । अक्रुध्यता अत्वरता देयं तेनापि भक्तितः ॥ १४.२४ ॥

应由诸心意澄静、仪容和悦之牟尼安乐受食。施与者亦当以虔敬而施——不嗔怒,不仓促。

Verse 25

रक्षोघ्नमन्त्रपठनं भूमेरास्तरणं तिलैः । कृत्वाऽध्येयाश्च पितरस्त एव द्विजसत्तमाः ॥ १४.२५ ॥

诵读能摧伏罗刹等有害之众的护咒,并以芝麻遍撒于地之后,那些祖灵皮特里(Pitṛ)当由最胜之二生者(婆罗门)恭敬地启请/诵念。

Verse 26

पिता पितामहश्चैव तथैव प्रपितामहः । मम तृप्तिं प्रयान्त्वद्य होमाप्यायितमूर्त्तयः ॥ १४.२६ ॥

愿我的父亲、祖父以及曾祖父于今日得享满足,其形体因火供(homa)之供献而得滋养增盛。

Verse 27

पितापितामहश्चैव तथैव प्रपितामहः । मम तृप्तिं प्रयान्त्वद्य विप्रदेहेषु संस्थिताः ॥ १४.२७ ॥

愿我的父亲、祖父以及曾祖父——今日安住于婆罗门之身者——因我而得满足。

Verse 28

पिता पितामहश्चैव तथैव प्रपितामहः । तृप्तिं प्रयान्तु पिण्डेषु मया दत्तेषु भूतले ॥ १४.२८ ॥

愿我的父亲、祖父以及曾祖父,因我在大地上所献之食团供(piṇḍa)而得满足。

Verse 29

पिता पितामहश्चैव तथैव प्रपितामहः । तृप्तिं प्रयान्तु मे भक्त्या यन्मयैतदुदाहृतम् ॥ १४.२९ ॥

愿我的父亲、祖父以及曾祖父,因我之虔敬而得满足,因为此言由我宣诵而出。

Verse 30

मातामहस्तृप्तिमुपैतु तस्य तथा पिता तस्य पिता ततोऽन्यः । विश्वेऽथ देवाः परमां प्रयान्तु तृप्तिं प्रणश्यन्तु च यातुधानाः ॥ १४.३० ॥

愿其外祖父得享满足;亦愿其父、其父之父以及其余诸祖先皆得满足。又愿毗湿维诸天(Viśve-devas)趋至至上圆满;愿夜图陀那(yātudhāna,害人之灵)失其所乐而被驱散。

Verse 31

यज्ञेश्वरो हव्यसमस्तकाव्यभोक्ता । अव्ययात्मा हरिरीश्वरॊऽत्र । तत्सन्निधानादपयान्तु सद्यो रक्षांस्यशेषाण्यसुराश्च सर्वे ॥ १४.३१ ॥

哈利(Hari)乃祭祀之主,享受一切供献(havya)与诸般仪式供品者;祂在此安住,为不坏之自性。愿凭祂的临在,使一切罗刹无余、以及诸阿修罗,皆即刻退散。

Verse 32

तृप्तेष्वेतेषु विप्रेषु किरेदन्नं महीतले । दद्यादाचमनार्थाय तेभ्यो वारि सकृत्सकृत् ॥ १४.३२ ॥

当这些婆罗门宾客已得满足时,应将食物撒布于地;并为作阿遮摩那(ācamana,净口之礼),当一次又一次地供给他们清水。

Verse 33

सुतृप्तैस्तैरणुज्ञातः सर्वेणान्नेन भूतले । सलिलेन ततः पिण्डान् समागृह्य समाहितः ॥ १४.३३ ॥

既已使他们充分满足,并由他们准许,且已将一切食物供献于地之后,他便心神专注,以水收拢诸皮ṇḍa(piṇḍa,团食供品)。

Verse 34

पितृतीर्थेन सलिलं तथैव सलिलाञ्जलिम् । मातामहेभ्यस्तेनैव पिण्डांस्तीर्थेन निर्वपेत् । दक्षिणाग्रेषु दर्भेषु पुष्पधूपादिपूजिताम् ॥ १४.३४ ॥

以“祖灵手位”(pitṛ-tīrtha,供祖先之手势)当献清水,并以合掌作水奠。亦以同法,为母系外祖诸祖设置皮ṇḍa(piṇḍa)供团,安放于尖端朝南之库沙草上,并以花、香与诸供品恭敬供养。

Verse 35

स्वपित्रे प्रथमं पिण्डं दद्यादुच्छिष्टसन्निधौ । पितामहाय चैवान्यं तत्पित्रे च तथापरम् ॥ १४.३५ ॥

当先以第一团食供(piṇḍa)奉献于己父,于残余供食(或仪式余物)之前。再以一团奉献于祖父,复以另一团奉献于其父(曾祖父)。

Verse 36

दर्भमूले लेपभुजः प्रीणयेल्लेपघर्षणात् । पिण्डे मातामहे तद्वद्गन्धमाल्यादिसंयुतैः ॥ १४.३६ ॥

在达尔婆草根处,应以轻柔摩擦所涂香膏之法,使享受香膏的众灵得以欢喜;同样,对外祖父所献之团食(piṇḍa),亦当配以香料、花鬘等供具。

Verse 37

पूजयित्वा द्विजाग्र्याणां दद्यादाचमनं बुधः । पैत्रेभ्यः प्रथमं भक्त्या तन्मनस्को द्विजेश्वर ॥ १४.३७ ॥

礼敬诸二生中最尊者之后,智者当奉上阿遮摩那之水以供啜饮净口。首先应以虔敬与专注之心,向祖灵(pitṛ)作供献——噢,二生之主。

Verse 38

सुस्वधेत्याशिषा युक्तां दद्याच्छक्त्या च दक्षिणाम् । दत्त्वा च दक्षिणां तेभ्यो वाचयेद्वैश्वदेविकान् । प्रीयन्तामिति ये विश्वे देवास्तेन इतीरयेत् ॥ १४.३८ ॥

并以“su-svadhā(善哉,斯瓦达)”之祝福相随,应随力奉献达克希那(dakṣiṇā,酬谢供施)。既已奉上达克希那,便令诵读毗湿瓦德瓦(Vaiśvadeva)诸式,并宣言:“愿诸毗湿维天(Viśve Devas)因此而欢喜。”

Verse 39

तथेति चोक्ते तैर्विप्रैः प्रार्थनीयास्तथाशिषः । पश्चाद्विसर्जयेद्देवान् पूर्वं पैत्रान्महामते ॥ १४.३९ ॥

当那些婆罗门说道“如是”之后,也应向他们祈请同样的祝福。随后,噢大智者,应行送神之仪(visarjana)——先送祖灵(pitṛ),后送诸天。

Verse 40

मातामहानामप्येवं सह देवैः क्रमः स्मृतः । भोजने च स्वशक्त्या च दाने तद्वद्विसर्जने । आपादशौचनात् पूर्वं कुर्यादेव द्विजन्मसु ॥ १४.४० ॥

同样,关于外祖诸祖与诸天同在之次第,亦被传记而当忆持。在供食与布施之事上,应随力而行;在终了送别之仪亦复如是。此一切当先为二生者行之,然后方可洗足。

Verse 41

जानन्तं प्रथमं पित्र्यं तथा मातामहेषु च । विसर्जयेत् प्रीतिवचः सम्मान्याभ्यर्थितांस्ततः । निवर्त्तेताभ्यनुज्ञात आद्वारान्तमनुव्रजेत् ॥ १४.४१ ॥

首先,应以悦意之言与应有之敬,辞送通达的父系长辈,亦及母方外祖系诸长辈。其后,既受请托并加以礼敬,得其许可后,当返身而归,并送行至门槛之前。

Verse 42

ततस्तु वैश्वदेवाख्यां कुर्यान्नित्यक्रियां ततः । भुञ्जीयाच्च समं पूज्य भृत्यबान्धुभिरात्मना ॥ १४.४२ ॥

随后,应行名为“毗湿婆提婆”(Vaiśvadeva)的日常仪轨。继而在恭敬礼奉之后,当与眷属、仆从等同席共食。

Verse 43

एवं श्राद्धं बुधः कुर्यात् पितृयं मातामहं तथा । श्राद्धैराप्यायिता दद्युः सर्वान् कामान् पितामहाः ॥ १४.४३ ॥

如是,智者当行“施罗陀”(śrāddha)之礼:既为父系祖灵(pitṛya)设供,亦为母方外祖诸祖(mātāmaha)设供。祖先因施罗陀供养而欣悦充盈,便将赐予一切所愿之成就。

Verse 44

त्रीणि श्राद्धे पवित्राणि दौहित्रः कुतपस्तिलाः । रजतस्य तथा दानं तथा संदर्शनादिकम् ॥ १४.४४ ॥

在施罗陀(śrāddha)仪礼中,有三者被称为净化之物:女儿之子(dauhitra)、名为库塔帕(kutapa)的羊毛布,以及芝麻(tilāḥ)。同样,布施白银,以及以恭敬瞻礼、拜见等为始的诸行(saṃdarśana-ādikam),亦被宣说为此处之功德。

Verse 45

वर्ज्यस्तु कुर्वता श्राद्धं क्रोधोऽध्वगमनं त्वरा । भोक्तुरप्यत्र विप्रेन्द्र त्रयमेतन्न संशयः ॥ १४.४५ ॥

行施罗陀(śrāddha)者,当避忿怒、出行远旅与仓促急躁。即便在此受食之人亦然,噫婆罗门中之最胜者——此三者当避,无有疑惑。

Verse 46

विश्वेदेवाः सपितरस्तथा मातामहाः द्विज । कुलं चाप्यायते पुंसां सर्वं श्राद्धं प्रकुर्वताम् ॥ १४.४६ ॥

噢,二生者啊,毗湿维天众与祖灵(Pitṛ)以及母系外祖诸祖皆得满足;凡如法圆满行诸施食祭(śrāddha)之人,其全族谱系皆蒙滋养而昌盛。

Verse 47

सोमाधारः पितृगणो योगाधारश्च चन्द्रमाः । श्राद्धं योगिनियुक्तं तु तस्मद्विप्रेन्द्र शस्यते ॥ १४.४७ ॥

祖灵众(Pitṛ)以苏摩(Soma)为所依;诸“瑜伽”(吉祥时会)以月为所依。故而,噢婆罗门中之最胜者,与相应吉时瑜伽相应而修的施食祭(śrāddha)最为称许。

Verse 48

सहस्रस्यापि विप्राणां योगी चेत् पुरतः स्थितः । सर्वान् भोक्तॄंस्तारयति यजमानं तथा द्विज ॥ १४.४८ ॥

纵在千位婆罗门之中,若有瑜伽行者居于前列,则据说他能令一切受食参与者以及祭主(yajamāna)同得“度脱”之灵益,噢二生者。

Verse 49

मह्यं सनत्कुमारेण पूर्वकल्पे द्विजोत्तम । कथितं वायुना चापि देवानां शम्भुना तथा ॥ १४.४९ ॥

噢二生者中之最胜者,此事在往昔一劫中由善那特库玛罗(Sanatkumāra)告知于我;风神伐由(Vāyu)亦曾述说,诸天之中湿婆(Śambhu)亦复如是宣说。

Verse 50

इयं सर्वपुराणेषु सामान्यापैत्रिकी क्रिया । एतत् क्रमात् कर्मकाण्डं ज्ञात्वा मुच्येत बन्धनात् ॥ १४.५१ ॥

此乃诸《往世书》中所共说之通行祖先仪轨(paitṛkī-kriyā)。若依次第了知此业部(karmakāṇḍa)之仪程,则可从系缚中得解脱。

Verse 51

एतदाश्रित्य निर्वाणं ऋषयः संशितव्रताः । प्राप्ता गौरमुखेदानीं त्वमप्येवं परो भव ॥ १४.५२ ॥

依此教法而行,持守严净誓戒的诸仙已证得解脱(涅槃)。如今,噢面容光辉者,你也应如是提升,成就更高的灵性境界。

Verse 52

इति ते कथितं भक्त्या पृच्छतो द्विजसत्तम । पितॄन्यष्ट्वा हरिं ध्यायेद्यस्तस्य किमतः परम् । न तस्मात् परतः पित्र्यं तन्त्रमस्तीति निश्चयः ॥ १४.५३ ॥

“二生中最胜者啊,你既发问,我便以虔敬为你宣说此法。凡如法祭祀诸祖灵(Pitṛ)之后复观想哈利(Hari)者,于彼还有何更高之事?此为定论:再无胜过此法的祖先仪轨体系(pitṛya-tantra)。”

Verse 53

धरण्युवाच ॥

大地女神(Dharaṇī)说道:

Inside Adhyaya 14

How it unfolds

  1. Where it opens

    Varāha instructs Pṛthivī within a guru–śiṣya Purāṇic frame, introducing śrāddha as a lineage-preserving dharma and presenting its authority through a transmission chain of sages and deity-linked teachers.

  2. Central event

    A procedural śrāddha-manual is laid out: eligibility and disqualification of Brāhmaṇa invitees; the necessity of honoring an unexpected atithi; and the ordered sequence of invitation, purification, seating, āvāhana, offerings, homa, feeding, piṇḍa placement, water-libations, dakṣiṇā, blessings, and visarjana.

  3. Climax resolution

    Ritual efficacy is secured by strict krama (sequence) and śīla (conduct): controlled speech, absence of anger/haste, correct pitṛtīrtha libations with sesame-water, and the final orderly visarjana—explicitly prioritizing pitṛs before devas—thereby stabilizing household and ancestral reciprocity.

  4. Closing phalashruti

    No explicit standalone phalaśruti is indicated in the provided summary; benefits are embedded throughout as assurances of śrāddha-siddhi, continuity of lineage, and protection from disorder/inauspicious forces.

Geographical context

No explicit toponyms or river systems are named in this adhyāya. The setting is a generalized gṛha-based ritual environment (household space, bhojana area, bhūmi/ground for kīra and piṇḍa placement) rather than a localized tīrtha geography.

Ritual instructions

  • Primary RitualŚrāddha (paitṛkakriyā) with homa, brāhmaṇa-bhojana, piṇḍa-nirvapana, and pitṛtīrtha water-libations
  • BenefitEnsures śrāddha-siddhi through correct sequence and ethical restraint; sustains familial continuity and ancestral satisfaction; reinforces social order via proper hospitality, qualified recipients, and disciplined reciprocity between householders, ritual specialists, devas, and pitṛs.

The narrative frame

  • VarāhaPṛthivī · Didactic, procedural, and norm-setting (ritual-legal in flavor), with emphasis on krama, śuddhi, and social-ethical safeguards.

The emotional journey

  • Dominant RasaŚānta (ritual composure and ethical steadiness)
  • Emotional ProgressionFrom instructional seriousness about eligibility and purity → heightened attentiveness during invocation, homa, and feeding → solemn care in piṇḍa and libations → calm closure through dakṣiṇā, blessings, and orderly visarjana.

Planning a pilgrimage

  • Visit FeasibilityNot tīrtha-based; the chapter is designed for household performance rather than travel. Practical engagement is via consultation with a qualified purohita and adherence to local śrāddha customs aligned with the described krama.

Frequently Asked Questions

The text frames śrāddha as a disciplined social-ethical technology: it instructs careful selection of recipients, controlled speech and demeanor during feeding, and mandatory hospitality to an arriving atithi. The internal logic links moral conduct (non-anger, non-haste, respectful hosting) to ritual efficacy, presenting orderly reciprocity among household, community specialists, and ancestral memory as the stabilizing principle.

A relative timing marker is specified: on the prathama ahan (the first day), the officiant should invite eminent Brāhmaṇas. Beyond this, the chapter emphasizes kāla in the sense of the proper ritual moment (śrāddha-kāla) and sequence (krama), but it does not name specific tithis, pakṣas, months, or seasons.

Environmental stewardship appears implicitly through terrestrial handling of offerings: food is respectfully placed on the bhūmi at prescribed moments, and piṇḍas are deposited on darbha with controlled water-libations (pitṛtīrtha). Read as ecological ethics, the chapter models regulated interaction with land—minimizing disorder (rakṣas-expelling recitations, purity rules) and treating the ground as an active ritual surface whose integrity supports social continuity.

The chapter cites a didactic transmission chain rather than royal genealogy: Sanatkumāra is named as an earlier source, alongside Śambhu (Śiva) and Vāyu as transmitters of the teaching; later it references Śakti’s son (commonly identifiable as Parāśara in Purāṇic contexts) and Maitreya as part of the relay. These references situate the rite within a pan-Purāṇic scholastic lineage of sages and deity-linked authorities.

Ask anything about Adhyaya 14 of the Varaha Purana

Answers come straight from the texts, with the shlokas they draw on. Ask in your own words.

Not sure where to start?

A free sign-in with Google or Apple keeps your chat saved across web and the app.

Read Varaha Purana in the Vedapath app

Scan the QR code to open this directly in the app, with word-by-word meanings, Sanskrit recitation where available, and more.

Download on the App StoreGet it on Google Play

Continue reading in the Vedapath app

Open in App
Download on the App StoreGet it on Google Play