Adhyaya 135
Varaha PuranaAdhyaya 13559 Shlokas

Adhyaya 135: Prescriptions for Expiation of Offences: Red/Black Garments, Improper Touch in Darkness, Impure Leftovers, Eating Boar-Meat, and Consuming Jālapāda

Aparādha-prāyaścitta-nirdeśaḥ (raktavastra–kṛṣṇavastra–andhakāra–ucchiṣṭa–varāhamāṃsa–jālapāda)

Ritual-Manual (Prāyaścitta) with Ethical-Discourse framed as terrestrial (Pṛthivī) stewardship

伐罗诃(Varāha)教导大地女神普利提毗(Pṛthivī)一系列社会与祭仪过失及其赎罪法(prāyaścitta),以伦理自律减轻业负、安定人间行止。章首论及穿红衣(raktavastra)而趋近伐罗诃仪轨,认为与“罗阇斯”(rajas)相应,故制定分级斋戒:一日一食、仅以气息为食、仅饮水。继而谈在黑暗中无灯、无经典(śāstra)指引而触碰(saṃsparśa),称会“堕落”至缺陷之生,并设矫正誓行:遮眼、节制饮食,并于特定的十二日斋(dvādaśī)守持。后续又述穿黑衣(kṛṣṇavastra)、以未洗衣行仪、施与犬所触之残食、食伐罗诃之肉、以及食用/饮用jālapāda等罪过;各自列举转生次第与细密的饮食誓戒赎罪,终归复入为持戒的薄伽梵信行者(bhāgavata)。

Primary Speakers

VarāhaPṛthivī

Key Concepts

prāyaścitta (expiation through regulated vows and diet)rajas and ritual propriety (raktavastra and conduct regulation)andhakāra-ācāra (ethics of action in darkness; need for dīpa and śāstra)saṃsāra and karmic consequence (rebirth sequences as moral pedagogy)śauca (purity) and ucchiṣṭa (pollution through leftovers/unclean cloth)vrata-based self-restraint as social-ecological order on Pṛthivī

Shlokas in Adhyaya 135

Verse 1

अथ जालपादभक्षणापराधप्रायश्चित्तम् ॥ श्रीवराह उवाच ॥ रक्तवस्त्रेण संयुक्तो यो हि मामुपसर्पति ॥ तस्यापि शृणु सुश्रोणि कर्म संसारमोक्षणम् ॥

今说食‘阇罗足’(jālapāda)之罪的忏悔法。圣瓦拉哈言:“凡身着红衣而来亲近我者——听着,腰肢美善者啊——即便为此人,我亦将宣说能解脱世缚之仪轨。”

Verse 2

रजस्वलासु नारीषु रजो यत्तत्प्रवर्तते ॥ तेनासौ रजसा पुष्टो कर्मदोषेण जानतः ॥

在行经之女中,凡其所起之经血(rajas)——他因彼“罗阇”而受染,由于行为之过失,且是明知而为。

Verse 3

वर्षाणि दश पञ्चैव वसते तत्र निश्चितात् ॥ रजो भूत्वा महाभागे रक्तवस्त्रपरायणः ॥

他确实在彼处居住十五年;仿佛化为“罗阇斯”(rajas),尊贵者啊——专心穿着红色衣服。

Verse 4

प्रायश्चित्तं प्रवक्ष्यामि तस्य कायविशोधनम् ॥ येन शुध्यन्ति ते भूमे पुरुषाः शास्त्रनिश्चिताः ॥

我将宣说他的赎罪法——身之净化——凭此,哦大地,那些人得以清净,正如权威经典所裁定。

Verse 5

एकाहारं ततः कृत्वा दिनानि दश सप्त च ॥ वायुभक्षस्त्रीण्यहानि दिनमेकं जलाशनः ॥

随后,实行每日一食,历十七日;再三日以“食风”而住(即禁食),并一日唯以水为食。

Verse 6

एवं स मुच्यते भूमे मम विप्रियकारकः ॥ प्रायश्चित्तं ततः कृत्वा ममासौ रोचते सह ॥

如此,哦大地,那曾令我不悦者便得解脱;既已行此赎罪,他又重新为我所悦纳。

Verse 7

एतत्ते कथितं भूमे रक्तवस्त्रविभूषिते ॥ प्रायश्चित्तं महाभागे सर्वसंसारमोक्षणम् ॥

这已对你宣说了,哦以红衣为饰的大地:此赎罪法,尊贵者啊,能令众生从一切世间系缚中解脱。

Verse 8

यस्तु मामन्धकारेषु विना दीपेन सुन्दरि ॥ स्पृशते च विना शास्त्रं त्वरमाणो विमोहितः ॥

然而,佳丽啊,凡在黑暗中不持灯而触及我者,并且迷惘仓促、不依诸论典(śāstra)而行者,

Verse 9

पतनाṃ तस्य वक्ष्यामि शृणुष्व त्वं वसुन्धरे ॥ तेन क्लेशं समासाद्य क्लिश्यते च नराधमः ॥

我将述说他的堕落;听着,哦大地女神瓦孙达罗(Vasundharā)。因彼行而招致苦恼,卑劣之人遂受折磨。

Verse 10

अनन्यमानसो भूत्वा भूमे ह्येतत्प्रसाधयेत् ॥ प्रायश्चित्तं प्रवक्ष्यामि अन्धकारे तु यः पुरा ॥

心念专一吧,哦大地,应当如法成办此事。我将宣说那先前在黑暗中(犯此事)之人的赎罪法——

Verse 11

संस्पृशेत्सोऽपि धर्मात्मा येन लोकं मम व्रजेत् ॥ अक्ष्णोराच्छादनं कृत्वा दिनानि दश पञ्च च ॥

即便是具德之人,也应以此方式行触礼,以得往生于我之世界;先遮覆双眼十日又五日(共十五日),

Verse 12

एकाहारं ततः कृत्वा दिनविंशं समाहितः ॥ यस्य कस्यापि मासस्य एकामेव च द्वादशीम् ॥

其后,心神安定,每日仅食一餐,行持二十日;并于任一月份择取一日“十二日斋”(Dvādaśī)——

Verse 13

एकाहारस्ततो भूत्वा निषीदेत्च जलाशनः ॥ ततो यवान्नं भुञ्जीत गोमूत्रेण तु पाचितम् ॥

随后,守持一日一食之戒,当端坐而唯饮清水;继而应食大麦之食,以牛尿煮熟而成。

Verse 14

प्रायश्चित्तेन चैतेन मुच्यते पातकात्ततः ॥ यः पुनः कृष्णवस्त्रेण मम कर्मपरायणः ॥

由此忏悔之法,彼即得从罪垢中解脱。然而若有人再度,身着黑衣而专志于我之仪轨——

Verse 15

देवि कर्माणि कुर्वीत तस्य वै पातनं शृणु ॥ घुणो वै पञ्चवर्षाणि लाजवास्तुसमाश्रयः ॥

女神啊,若有人以此不正之法行诸仪式,当听其堕落:彼将为“ghuṇa”木蠹五年,以糠秕与谷壳为其居处。

Verse 16

पञ्च वर्षाणि नकुलो दश वर्षाणि कच्छपः ॥ एवं भ्रमति संसारे मम कर्मपरायणः ॥

五年为獴(nakula),十年为龟(kacchapa);如是虽专志于我之仪轨,仍在轮回(saṁsāra)中漂转。

Verse 17

पारावतेषु जायेत नव वर्षाणि पञ्च च ॥ जातो ममापराधेन स्थितः पारावतो भुवि ॥

彼生于鸽群之中九年又五年(即十四年)。因冒犯于我而生,遂在大地上以鸽之身存住。

Verse 18

मम तिष्ठति पार्श्वेषु यत्रैवाहं प्रतिष्ठितः ॥ प्रायश्चित्तं प्रवक्ष्यामि तस्य संसारमोक्षणे

凡我自身安住确立之处,他便在我身旁安住。我将宣说能使其脱离轮回(saṃsāra)的忏悔净罪法(prāyaścitta)。

Verse 19

त्रीणि पिण्डांस्त्रिरात्रं तु एवं मुच्येत किल्बिषात् ॥ य एतेन विधानेन देवि कर्माणि कारयेत्

供献三份祭团(piṇḍa),并守持三夜之仪,便能由罪垢(kilbiṣa)得解脱。凡依此法度令诸业仪得以施行者,噢女神(Devī)。

Verse 20

शुचिर्भागवतो भूत्वा मम मार्गानुसारतः ॥ न स गच्छति संसारं मम लोकं स गच्छति

既已清净并成虔敬的奉主者(bhāgavata),随顺我之道,他不再趋入轮回(saṃsāra);他将往至我的世界。

Verse 21

वाससा चाप्यधौतेन यो मे कर्माणि कारयेत् ॥ शुचिर्भागवतो भूत्वा मम मार्गानुसारकः

凡穿着未洗之衣而令我之仪轨得以施行者——即便如此,所应遵守的准则仍是:当清净、虔敬(bhāgavata),并随顺我之道。

Verse 22

तस्य दोषं प्रवक्ष्यामि अपराधं वसुन्धरे ॥ पतन्ति येन संसारं वाससोच्छिष्टकारिणः

我将阐明那过失——确为罪犯,噢大地女神瓦孙达罗(Vasundharā)——因之而行衣垢不净(vāsas-ucchiṣṭa)者堕入轮回(saṃsāra)。

Verse 23

देवि भूत्वा गजो मत्तस्तिष्ठत्येकं नरो भुवि ॥ उष्ट्रश्चैकं भवेञ्जन्म जन्म चैकं वृकस्तथा

女神啊,他化为发情的象,在世间仅经历一生;又有一生化为骆驼,亦有一生化为狼。

Verse 24

गोमायुरेकं जन्मापि जन्म चैकं हयस्तथा ॥ सारङ्गस्त्वेकजन्मा वै मृगो भवति वै ततः

他有一生为豺(胡狼),亦有一生为马。随后确实仅一生化为娑罗伽 sāraṅga(羚羊/鹿类);其后又化为鹿。

Verse 25

सप्तजन्मान्तरं पश्चात्ततो भवति मानुषः ॥ मद्भक्तश्च गुणज्ञश्च मम कर्मपरायणः

经历七次间隔的转生之后,他便成为人。他是我的奉献者,能辨识诸德(品质),并专心于我所规定的仪轨与行持。

Verse 26

दक्षो निरपराधश्च अहङ्कारविवर्जितः ॥ धरण्युवाच ॥ श्रुतमेतन्मया देव यत्त्वया समुदाहृतम्

他能干而无过失,且远离我慢。大地女神(Dharaṇī)说:“噢,天神啊,我已听闻你所宣说的这一切。”

Verse 27

संसारं वाससोच्छिष्टा येन गच्छन्ति मानुषाः ॥ प्रायश्चित्तं च मे ब्रूहि सर्वकर्मसुखावहम्

关于人们因衣物之不净(vāsas-ucchiṣṭa)而趋入的轮回(saṃsāra),也请你告诉我赎罪法(prāyaścitta),它能使一切仪式与行持获得安乐与善果。

Verse 28

प्रायश्चित्तं प्रवक्ष्यामि मम कर्मपरायणः ॥ यावकेन त्रीण्यहानि पिण्याकेन दिनत्रयम् ॥

我将为奉行我所规定之行持者宣说赎罪之法:三日以yāvaka粥为食,复三日以piṇyāka(油饼、榨油残渣)为食。

Verse 29

पर्णभक्षस्त्रीण्यहानि पयोभक्षो दिनत्रयम् ॥ पायसेन त्रिरात्रं तु वायुभक्षो दिनत्रयम् ॥

三日食叶;三日饮乳;继而三夜食pāyasa(乳粥、米乳);又三日唯以气为食,即行断食。

Verse 30

एवं कृत्वा महाभागे वाससोच्छिष्टकारिणः ॥ अपराधं न विन्देरन्संसारं न प्रयान्ति च ॥

如是行持,吉祥者啊,那些犯了触用被残余所污之衣的过失者,不再招致(更重)罪咎,亦不复趋入saṁsāra(轮回流转)。

Verse 31

श्वानोच्छिष्टं तु यो दद्यान्मम कर्मपरायणः ॥ पापं तस्य प्रवक्ष्यामि संसारे च महद्भयम् ॥

然而,若有人将被狗所遗留或所污之物施与他人,虽自称奉行我所规定之行持,我将宣说其罪过,以及在saṁsāra(轮回)中随之而来的大怖畏。

Verse 32

श्वानो वै सप्त जन्मानि गोमायुः सप्त वै तथा ॥ उलूकः सप्तवर्षाणि पश्चाज्जायेत मानुषः ॥

确实,(此人)将七生为犬,亦七生为gomāyu(豺/胡狼);继而七年为鸮(猫头鹰);其后方得再生为人。

Verse 33

विशुद्धात्मा श्रुतिज्ञश्च मद्भक्तश्चैव जायते ॥ गृहे भागवतोत्कृष्टे अपराधविवर्जितः ॥

于是他将出生为自性清净、通晓圣典、并敬奉于我者;生于殊胜的薄伽梵信众之家,远离一切过失。

Verse 34

शृणु तत्त्वेन वसुधे प्रायश्चित्तं महौजसम् ॥ तरन्ति मानुषा येन त्यक्त्वा संसारसागरम् ॥

大地女神啊,请如实聆听这大威力的忏悔法;凭此,人类得以渡越,舍离轮回之海(saṁsāra)。

Verse 35

मूलभक्षो दिनत्रय्यां फलाहारो दिनत्रयम् ॥ शाकभक्षो दिनत्रय्यां पयोभक्षो दिनत्रयम् ॥

三日以根茎为食;三日以果实为食;三日以蔬菜青叶为食;又三日以乳为食。

Verse 36

दध्याहारो दिनत्रय्यां पायसेन दिनत्रयम् ॥ वाय्वाहारो दिनत्रय्यां स्नानं कृत्वा दृढव्रतः ॥

三日以酸乳为食;三日以pāyasa(乳粥甜食)为食;三日行“以风为食”(断食)。沐浴之后,当坚固持守此誓戒。

Verse 37

भुक्त्वा वराहमांसं तु यश्च मामिह सर्पति ॥ पातनं तस्य वक्ष्यामि यथा भवति सुन्दरी ॥

然而,凡在此吃了野猪之肉而来亲近我者,我将宣说他的堕落——它如何发生,汝美丽者。

Verse 38

वराहो दश वर्षाणि कृत्वानुचरते वने ॥ व्याधो भूत्वा महाभागे समाः पञ्च च सप्त च ॥

他以野猪之身度过十年,随后在森林中游行;而且,噢有福者,他又化为猎人,如此住世五年,并又七年。

Verse 39

ततश्च मूषको भूत्वा वर्षाणि च चतुर्दश ॥ ऊनविंशतिवर्षाणि यातुधानश्च जायते ॥

随后他化为鼠,存活十四年;又有十九年,他生为夜叉陀那(yātudhāna),即有害的魔类。

Verse 40

सल्लकी चाष्टवर्षाणि जायते भवने बहु ॥ व्याघ्रस्त्रिंशच्च वर्षाणि जायते पिशिताशनः ॥

他又生为sallakī,历八年,居于多众之宅;并且生为虎——食肉者——历三十年。

Verse 41

एवं संसारितां गत्वा वराहामिषभक्षकः ॥ जायते विपुले सिद्धे कुले भागवते तथा ॥

如是经历轮回流转,作为食野猪肉者;随后他生于显赫而成就之族,亦复生于虔敬的薄伽梵信众(bhāgavata)之系。

Verse 42

हृषीकेशवचः श्रुत्वा सर्वं सम्पूर्णलक्षणम् ॥ शिरसा चाञ्जलिं कृत्वा वाक्यं चेदमुवाच ह ॥

他听闻赫利希凯沙(Hṛṣīkeśa)之言,圆满具足诸相;遂俯首合掌,而说出如下之语。

Verse 43

एतन मे परमं गुह्यं तव भक्तसुखावहम् ॥ वराहमांसभक्तस्तु येन मुच्येत किल्बिषात् ॥

这对我而言是至上的密义,能为你的奉献者带来安乐:以何种方法,食用野猪肉者得以从罪垢(kilbiṣa)中解脱?

Verse 44

तरन्ति मानुषा येन तिर्यक्संसारसागरात् ॥ गोमयेन दिनं पञ्च कणाहारेण सप्त वै ॥

人们以何法得以渡越通向畜生之境的轮回大海?——(应当)以牛粪为食五日,再以谷粒之食(kaṇa)七日,确然如此。

Verse 45

पानीयं तु ततो भुक्ता तिष्ठेत्सप्तदिनं ततः ॥ अक्षारलवणं सप्त सक्तुभिश्च तथा त्रयः ॥

其后唯饮清水,如是住持七日;再七日不食碱性与咸味之物;又同样三日食用 saktu(炒制之粉)。

Verse 46

क्षान्तं दान्तं तथा कृत्वा अहङ्कारविवर्जितः ॥ दिनान्येकोनपञ्चाशच्चरेत्कृतविनिश्चयः ॥

令自身具忍辱与自制,远离我慢;当以坚固决意修行此法四十九日。

Verse 47

विमुक्तः सर्वपापेभ्यः ससंज्ञो विगतज्वरः ॥ कृत्वा मम च कर्माणि मम लोकं स गच्छति ॥

既从一切罪过中解脱,神识清明而无热恼;并已奉行我所规定之业者,彼将往至我的世界。

Verse 48

जालपादं भक्षयित्वा यस्तु मामुपसर्पति ॥ जालपादस्ततो भूत्वा वर्षाणि दश पञ्च च ॥

凡食用阇罗波陀(jālapāda)而后前来亲近我者,由此因缘将转为阇罗波陀之身,并如是停留十与五年,即十五年。

Verse 49

कुम्भीरो दश वर्षाणि पञ्च वर्षाणि सूकरः ॥ तावद्भ्रमति संसारे मम चैवापराधतः ॥

十年之中(他)化为 kumbhīra,五年之中化为野猪;在此期间他于轮回(saṃsāra)中漂泊,确因对我之冒犯而然。

Verse 50

कृत्वा तु दुष्करं कर्म जायते विपुले कुले ॥ शुद्धो भागवतश्रेष्ठो ह्यपराधविवर्जितः ॥

然而,若行成艰难之业(以作补救),便得生于显赫之家:身心清净,为最胜奉主者(bhāgavata),确实远离过失。

Verse 51

सर्वकर्माण्यतिक्रम्य मम लोकं स गच्छति ॥ प्रायश्चित्तं प्रवक्ष्यामि जालपादस्य भक्षणे ॥

超越一切(系缚之)业后,他将前往我的世界。今我将宣说食阇罗波陀(jālapāda)之赎罪法(prāyaścitta)。

Verse 52

तरन्ति मनुजा येन घोरसंसारसागरात् ॥ यावकान्नं दिनत्र्यां वायुभक्षो दिनत्रयम् ॥

凭此修持,人们得以渡越可怖的轮回大海(saṃsāra-sāgara):三日食 yāvaka 之食,复三日唯以气息为食(即禁食)。

Verse 53

फलभक्षो दिनत्र्यां तिलभक्षो दिनत्रयम् ॥ अक्षारलवणान्नाशी पुनस्तत्र दिनत्रयम् ॥

前三日唯食果实;再三日唯食芝麻;其后又三日,食不加碱与盐之食。

Verse 54

दशपञ्च दिनान्येवं प्रायश्चित्तं समाचरेत् ॥ जालपादापराधस्य एवं कुर्वीत शोधनम्॥ विनीतात्मा शुचिर्भूत्वा य इच्छेत्सुशुभां गतिम् ॥

如是当如法行赎罪法(prāyaścitta)十五日。以此方式,应为涉“jālapāda”之过失作净除。其人心志调伏,身心清净,乃为求得吉祥之行途与归趣者。

Verse 55

अन्धो भूत्वा महाभागे एकं जन्म तमोमयः ॥ सर्वाशी सर्वभक्षश्च मानवः सोऽभिजायते ॥

吉祥的夫人啊,他若成盲者,则一生陷于幽暗之境;他将转生为人,却饮食无择,成为“食一切者”。

Verse 56

येनासौ लभते सिद्धिं कृष्णवस्त्रापराधतः ॥ सप्ताहं यावकं भुक्त्वा त्रिरात्रं सक्तुपिण्डिकाम् ॥

由此他得以成就对“kṛṣṇa-vastra”(黑衣)之过的净除:一周食用yāvaka;并于三夜间取食一团saktu(炒熟之粉)。

Verse 57

किल्बिषाद्येन मुच्यन्ते तव कर्मपरायणाः ॥ श्रीवराह उवाच ॥ शृणु तत्त्वेन मे देवि कथ्यमानं मयाऽनघे ॥

“以何等修持,使那些勤于行事、归属于汝者,得脱罪垢等?”圣瓦拉哈曰:“无垢的女神啊,谛听我所如实宣说之理。”

Verse 58

एवं दिनान्येकविंशत्कृत्वा वै शुभलक्षणम् ॥ अपराधं न विन्देत मम लोकं स गच्छति

如此依吉祥之法修持二十一日者,不致招致过失;此人将往我之世界。

Verse 59

तिलभक्षो दिनान्सप्त पाषाणस्य च भक्षकः ॥ पयो भुक्त्वा दिनं सप्त कारयेद्बुद्धिमान्मनः

七日以芝麻为食;并以严苦之代食,食如石之粗硬之物;继而七日唯饮乳,智者当令其心安住而受持。

Frequently Asked Questions

The text frames ethical self-restraint (śauca, controlled diet, and rule-governed action) as a corrective technology for social harm: transgressions in ritual approach, impurity, and careless conduct are said to destabilize one’s karmic trajectory, while prāyaścitta restores disciplined participation in communal and terrestrial order (with Pṛthivī as the dialogic witness).

A specific lunar marker appears: observance on a dvādaśī (12th lunar day), described as choosing a dvādaśī within any month (yasya kasyāpi māsasya ekāmeva ca dvādaśīm). Most other prescriptions are counted by day-units (e.g., 3, 7, 15, 20, 21 days; saptāha; trirātra) rather than seasons.

Although the instructions are ritual-ethical, the dialogue’s framing with Pṛthivī positions human discipline as a component of terrestrial stability: purity rules, restraint, and regulated consumption function as norms that reduce harmful excess and disorder on Earth, presenting an early model of “ecology through conduct” rather than a geography-based environmental program.

No royal dynasties, named sages, or administrative lineages are referenced. The only explicit figures are Varāha (as instructor) and Pṛthivī (as questioner), with social categories implied through terms like bhāgavata and generic rebirth exempla (animals and humans) used for moral illustration.