यथा मूढो यथा मूर्खो यथा बधिर एव वा ।
तथा वर्तेत लोकस्य स्वसामर्थ्यस्य गुप्तये ॥
यथा । मूढः । यथा । मूर्खः । यथा । बधिरः । एव । वा ।
तथा । वर्तेत । लोकस्य । स्व-सामर्थ्यस्य । गुप्तये ।
yathā mūḍho yathā mūrkho yathā badhira eva vā |
tathā varteta lokasya svasāmarthyasya guptaye ||
如同愚钝者,如同痴愚者,或如同确实耳聋者一般——应当如此对待世间,以隐蔽自身之能力。
As one who is dull, as one who is foolish, or as one who is indeed deaf—so should one behave toward the world, for the concealment of one’s own powers.