HomeUpanishadsYogatattvaVerse 41
Previous Verse
Next Verse

Verse 41

Yogatattva

इडया वायुमारोप्य शनैः षोडशमात्रया । कुम्भयेत्पूरितं पश्चाच्चतुःषष्ट्या तु मात्रया ॥

रेचयेत्पिङ्गलानाड्या द्वात्रिंशन्मात्रया पुनः । पुनः पिङ्गलयापूर्य पूर्ववत्सुसमाहितः ॥

प्रातर्मध्यन्दिने सायमर्धरात्रे च कुम्भकान् । शनैरशीतिपर्यन्तं चतुर्वारं समभ्यसेत् ॥

एवं मासत्रयाभ्यासान्नाडीशुद्धिस्ततो भवेत् । यदा तु नाडीशुद्धिः स्यात्तदा चिह्नानि बाह्यतः ॥

इडया । वायुम् । आरोप्य । शनैः । षोडश-मात्रया । कुम्भयेत् । पूरितम् । पश्चात् । चतुः-षष्ट्या । तु । मात्रया ॥

रेचयेत् । पिङ्गला-नाड्या । द्वात्रिंशत्-मात्रया । पुनः । पुनः । पिङ्गलया । पूर्य । पूर्ववत् । सु-समाहितः ॥

प्रातर् । मध्यन्दिने । सायम् । अर्ध-रात्रे । च । कुम्भकान् । शनैः । अशीति-पर्यन्तम् । चतुḥ-वारम् । समभ्यसेत् ॥

एवम् । मास-त्रय-अभ्यासात् । नाडी-शुद्धिः । ततः । भवेत् । यदा । तु । नाडी-शुद्धिः । स्यात् । तदा । चिह्नानि । बाह्यतः ॥

iḍayā vāyum āropya śanaiḥ ṣoḍaśamātrayā | kumbhayet pūritaṃ paścāc catuḥṣaṣṭyā tu mātrayā ||

recayet piṅgalānāḍyā dvātriṃśanmātrayā punaḥ | punaḥ piṅgalayāpūrya pūrvavat susamāhitaḥ ||

prātar madhyandine sāyam ardharātre ca kumbhakān | śanair aśītiparyantaṃ caturvāraṃ samabhyaset ||

evaṃ māsatrayābhyāsān nāḍīśuddhis tato bhavet | yadā tu nāḍīśuddhiḥ syāt tadā cihnāni bāhyataḥ ||

由伊陀(iḍā)徐徐纳气,历十六摩怛罗(mātrā);继而将所充之息闭持六十四摩怛罗。再由平伽罗脉(piṅgalā-nāḍī)吐息三十二摩怛罗;复由平伽罗纳气,心神如前安住摄持。于清晨、正午、黄昏与半夜,修闭息(kumbhaka)各四次,渐次增至八十(轮)。如是修习三月,则诸脉(nāḍī)得以净化。及至脉净之时,外相亦现诸征兆。

Having drawn the breath in through iḍā slowly for sixteen mātrās, he should retain the filled (breath) thereafter for sixty-four mātrās. He should exhale through the piṅgalā-nāḍī for thirty-two mātrās; again, having inhaled through piṅgalā, remaining well-collected as before. In the morning, at midday, in the evening, and at midnight, he should practice kumbhakas four times, gradually up to eighty (rounds). By practice for three months in this way, purification of the nāḍīs arises. And when nāḍī-purification occurs, then there are outward signs.

Antaḥkaraṇa-śuddhi / nāḍī-śuddhi as preparatory means toward mokṣaMahavakya: Indirect: establishes fitness (adhikāritva) for mahāvākya-vicāra by stabilizing prāṇa and mindKrishna YajurvedaChandas: Prose / mixed anuṣṭubh-like pādas (late Upaniṣadic yoga style; not strictly Vedic meter)