HomeUpanishadsYogatattvaVerse 40
Previous Verse
Next Verse

Verse 40

Yogatattva

नात्युच्छ्रितं नातिनीचं चैलाजिनकुशोत्तरम् । तत्रोपविश्य मेधावी पद्मासनसमन्वितः ॥

ऋजुकायः प्राञ्जलिश्च प्रणमेदिष्टदेवताम् । ततो दक्षिणहस्तस्य अङ्गुष्ठेनैव पिङ्गलाम् ॥

निरुध्य पूरयेद्वायुमिडया तु शनैः शनैः । यथाशक्त्यविरोधेन ततः कुर्याच्च कुम्भकम् ॥

पुनस्त्यजेत्पिङ्गलया शनैरेव न वेगतः । पुनः पिङ्गलयापूर्य पूरयेदुदरं शनैः ॥

धारयित्वा यथाशक्ति रेचयेदिडया शनैः । यया त्यजेत्तयापूर्य धारयेदविरोधतः ॥

जानु प्रदक्षिणीकृत्य न द्रुतं न विलम्बितम् । अङ्गुलिस्फोटनं कुर्यात्सा मात्रा परिगीयते ॥

न । अति-उच्छ्रितम् । न । अति-नीचम् । चैल-अजिन-कुश-उत्तरम् । तत्र । उपविश्य । मेधावी । पद्मासन-समन्वितः ॥

ऋजु-कायः । प्राञ्जलिः । च । प्रणमेत् । इष्ट-देवताम् । ततः । दक्षिण-हस्तस्य । अङ्गुष्ठेन । एव । पिङ्गलाम् ॥

निरुध्य । पूरयेत् । वायुम् । इडया । तु । शनैः शनैः । यथा-शक्ति । अविरोधेन । ततः । कुर्यात् । च । कुम्भकम् ॥

पुनः । त्यजेत् । पिङ्गलया । शनैः । एव । न । वेगतः । पुनः । पिङ्गलया । पूर्य । पूरयेत् । उदरम् । शनैः ॥

धारयित्वा । यथा-शक्ति । रेचयेत् । इडया । शनैः । यया । त्यजेत् । तया । पूर्य । धारयेत् । अविरोधतः ॥

जानु । प्रदक्षिणी-कृत्य । न । द्रुतम् । न । विलम्बितम् । अङ्गुलि-स्फोटनम् । कुर्यात् । सा । मात्रा । परिगीयते ॥

nātyucchritaṃ nātinīcaṃ cailājinakuśottaram | tatropaviśya medhāvī padmāsanasamanvitaḥ ||

ṛjukāyaḥ prāñjaliś ca praṇamed iṣṭadevatām | tato dakṣiṇahastasya aṅguṣṭhenaiva piṅgalām ||

nirudhya pūrayed vāyum iḍayā tu śanaiḥ śanaiḥ | yathāśaktyavirodhena tataḥ kuryāc ca kumbhakam ||

punas tyajet piṅgalayā śanaireva na vegataḥ | punaḥ piṅgalayāpūrya pūrayed udaraṃ śanaiḥ ||

dhārayitvā yathāśakti recayed iḍayā śanaiḥ | yayā tyajet tayā pūrya dhārayed avirodhataḥ ||

jānu pradakṣiṇīkṛtya na drutaṃ na vilambitam | aṅgulisphoṭanaṃ kuryāt sā mātrā parigīyate ||

于不高不低之座,上铺布、羚羊皮与库沙草,智者当于其上端坐,安住莲华坐(padmāsana)。身正直,合掌恭敬,礼敬所择本尊(iṣṭa-devatā)。继以右手拇指闭制平伽罗(piṅgalā,鼻孔/脉道),由伊陀(iḍā)徐徐纳气。随后随力而行,不加勉强,修持闭息(kumbhaka)。复由平伽罗缓缓出息,不可急迫。再由平伽罗吸入,渐次充满腹部;随力持息,复由伊陀徐徐吐出。由何孔出息,即由何孔入息,并当无逼迫而持息。令膝作向右旋绕之势——不疾不徐——并弹指一下;此称一“摩怛罗”(mātrā,时间单位)。

On a seat that is neither too high nor too low, with cloth, antelope-skin, and kuśa-grass placed on top, the intelligent one should sit there, endowed with padmāsana. With body upright and hands joined, he should bow to the chosen deity. Then, with the thumb of the right hand, having restrained the piṅgalā (nostril/channel), he should slowly fill the breath through iḍā. Then, without strain and according to capacity, he should perform retention (kumbhaka). Again he should exhale through piṅgalā, slowly and not forcefully. Again, having filled through piṅgalā, he should slowly fill the abdomen; having retained according to capacity, he should slowly exhale through iḍā. By whichever (nostril) he exhales, by that he should inhale, and retain without strain. Having made the knee a (rightward) circumambulation—neither quickly nor slowly—he should snap the fingers; that is said to be one mātrā (unit of time).

Sādhana (upāya) toward citta-śuddhi and mokṣa; prāṇa-niyama as an aid to ātma-jñānaMahavakya: Indirect: preparatory discipline (sādhana-catuṣṭaya / antaḥkaraṇa-śuddhi) supporting realization of mahāvākya teaching (e.g., ‘tat tvam asi’)Krishna YajurvedaChandas: Prose / mixed anuṣṭubh-like pādas (late Upaniṣadic yoga style; not strictly Vedic meter)