Previous Verse
Next Verse

Verse 4

Vajrasuchika

तर्हि देहो ब्राह्मण इति चेत् तन्न। आचाण्डालादिपर्यन्तानां मनुष्याणां पञ्चभौतिकत्वेन देहस्यैकरूपत्वात् जरामरणधर्माधर्मादिसाम्यदर्शनात् ब्राह्मणः श्वेतवर्णः क्षत्रियो रक्तवर्णो वैश्यः पीतवर्णः शूद्रः कृष्णवर्णः इति नियमाभावात्। पित्रादिशरीरदहने पुत्रादीनां ब्रह्महत्यादिदोषसंभवाच्च। तस्मात् न देहो ब्राह्मण इति॥४॥

तर्हि । देहः । ब्राह्मणः । इति । चेत् । तत् । न । आ-चाण्डाल-आदि-पर्यन्तानाम् । मनुष्याणाम् । पञ्च-भौतिकत्वेन । देहस्य । एक-रूपत्वात् । जरा-मरण-धर्म-अधर्म-आदि-साम्य-दर्शनात् । ब्राह्मणः । श्वेत-वर्णः । क्षत्रियः । रक्त-वर्णः । वैश्यः । पीत-वर्णः । शूद्रः । कृष्ण-वर्णः । इति । नियम-अभावात् । पितृ-आदि-शरीर-दहने । पुत्र-आदीनाम् । ब्रह्म-हत्या-आदि-दोष-संभवात् । च । तस्मात् । न । देहः । ब्राह्मणः । इति ॥४॥

tarhi deho brāhmaṇa iti cet tan na | ācaṇḍālādiparyantānāṃ manuṣyāṇāṃ pañcabhautikatvena dehasyaikarūpatvāt jarāmaraṇadharmādharmādisāmyadarśanāt brāhmaṇaḥ śvetavarṇaḥ kṣatriyo raktavarṇo vaiśyaḥ pītavarṇaḥ śūdraḥ kṛṣṇavarṇa iti niyamābhāvāt | pitrādiśarīradahane putrādīnāṃ brahmahatyādidoṣasaṃbhavācca | tasmāt na deho brāhmaṇa iti ||4||

若说:“那么此身就是婆罗门”,则不然。因为从旃陀罗乃至一切人类,其身同一形相,皆由五大所成;而老、死、福德与罪业等亦见为众生所共。又并无定则说:“婆罗门必白色,刹帝利必红色,吠舍必黄色,首陀罗必黑色。”复次,若身即婆罗门,则焚化父亲等之遗体时,子等将招致“杀婆罗门罪”(brahma-hatyā)等过失。是故,身体并非婆罗门。(4)

If it be said, “then the body is the Brāhmaṇa,”—that is not so. For, from the Caṇḍāla onward, among human beings the body is of one and the same form, being constituted of the five elements; and because old age, death, merit and demerit, and the like are seen to be common (to all). Moreover, there is no fixed rule such as “the Brāhmaṇa is of white color, the Kṣatriya of red, the Vaiśya of yellow, the Śūdra of black.” And further, in the cremation of the bodies of one’s father and others, there would arise for sons and the rest the fault of brahma-hatyā and the like. Therefore, the body is not the Brāhmaṇa.

Ātman distinct from body (dehātma-buddhi-nivṛtti)Mahavakya: Supports the purport of ‘ahaṃ brahmāsmi’/‘tat tvam asi’ by negating identification with the body (neti-neti approach).AtharvaChandas: Prose