Next Verse→

Paramahansa Upanishad: Verse 1

अथ योगिनं परमहंसं कोऽयं मार्गस्तेषां का स्थितिरिति नारदो भगवन्तमुपगत्योवाच । तं भगवानाह । योऽयं परमहंसमार्गो लोके दुर्लभतरो न तु बाहुल्यो; यद्येको भवति स एव नित्यपूतस्थः, स एव वेदपुरुष इति विदुषो मन्यन्ते । महापुरुषो यच्चित्तं तत्सर्वदा मय्येवावतिष्ठते; तस्मादहं च तस्मिन्नेवावस्थीयते । असौ स्वपुत्रमित्रकलत्रबन्ध्वादीन् शिखायज्ञोपवीते स्वाध्यायं च सर्वकर्माणि संन्यस्य, अयं ब्रह्माण्डं च हित्वा, कौपीनं दण्डमाच्छादनं च स्वशरीरोपभोगार्थाय च लोकस्योपकारार्थाय च परिगृह्णीयात्; तच्च न मुख्योऽस्ति । कोऽयं मुख्य इति चेदयं मुख्यः ॥ १॥

अथ । योगिनम् । परमहंसम् । कः । अयम् । मार्गः । तेषाम् । का । स्थितिः । इति । नारदः । भगवन्तम् । उपगत्य । उवाच । तम् । भगवान् । आह । यः । अयम् । परमहंस-मार्गः । लोके । दुर्लभतरः । न । तु । बाहुल्यः । यदि । एकः । भवति । सः । एव । नित्य-पूत-स्थः । सः । एव । वेद-पुरुषः । इति । विदुषः । मन्यन्ते । महा-पुरुषः । यत् । चित्तम् । तत् । सर्वदा । मयि । एव । अवतिष्ठते । तस्मात् । अहम् । च । तस्मिन् । एव । अवस्थीयते । असौ । स्व-पुत्र-मित्र-कलत्र-बन्धु-आदीन् । शिखा-यज्ञोपवीते । स्वाध्यायम् । च । सर्व-कर्माणि । संन्यस्य । अयम् । ब्रह्माण्डम् । च । हित्वा । कौपीनम् । दण्डम् । आच्छादनम् । च । स्व-शरीर-उपभोग-अर्थाय । च । लोकस्य । उपकार-अर्थाय । च । परिगृह्णीयात् । तत् । च । न । मुख्यः । अस्ति । कः । अयम् । मुख्यः । इति । चेत् । अयम् । मुख्यः ॥ १॥

Recitation with translationParamahansa Upanishad 1

atha yoginaṃ paramahaṃsaṃ ko'yaṃ mārgaḥ teṣāṃ kā sthitir iti nārado bhagavantam upagatya uvāca | taṃ bhagavān āha | yo'yaṃ paramahaṃsa-mārgo loke durlabhataraḥ na tu bāhulyaḥ; yady eko bhavati sa eva nitya-pūta-sthaḥ, sa eva veda-puruṣa iti viduṣo manyante | mahāpuruṣo yac cittaṃ tat sarvadā mayy evāvatiṣṭhate; tasmād ahaṃ ca tasminn evāvasthīyate | asau sva-putra-mitra-kalatra-bandhv-ādīn śikhā-yajñopavīte svādhyāyaṃ ca sarva-karmāṇi saṃnyasya, ayaṃ brahmāṇḍaṃ ca hitvā, kaupīnaṃ daṇḍam ācchādanaṃ ca sva-śarīropabhogārthāya ca lokasyopakārārthāya ca parigṛhṇīyāt; tac ca na mukhyo'sti | ko'yaṃ mukhya iti ced ayaṃ mukhyaḥ || 1 ||

于是那罗陀前往世尊处启问:“何者名为游行者之‘帕拉摩汉萨’?其道为何?其住位为何?”世尊答曰:“帕拉摩汉萨之道,于世间极其稀有,绝非普遍。若有一人如是,唯彼恒住常净;智者称之为‘吠陀之人’(吠陀证悟之体现)。彼大丈夫,其心恒安住于我;故我亦唯住于彼。舍离子嗣、友伴、妻室、亲族等;舍离发髻与圣线;舍离诵习吠陀与一切仪轨;并弃此‘宇宙之卵’(世间境界),可取兜裆、杖与覆衣——仅为维持色身并利益世间;然此并非根本标志。若问‘何为根本?’——此即根本。”

Now Nārada approached the Blessed One and said: “Who is the yogin called a Paramahaṃsa? What is his path, and what is his state?” The Blessed One replied: “This path of the Paramahaṃsa is exceedingly rare in the world and not widespread. If there is even one such person, he alone abides as ever-purified; the knowers consider him to be the ‘Person of the Veda’ (the embodiment of Vedic realization). The great person—whose mind ever rests in Me—therefore I too abide in him alone. Having renounced son, friends, wife, relatives and the like; the topknot and sacred thread; Vedic recitation and all rites; and having abandoned this ‘cosmic egg’ (worldly sphere), he may take up a loincloth, a staff, and a covering—only for the maintenance of the body and for the welfare of the world; yet these are not the essential (mark). If it is asked, ‘What is the essential?’—this is the essential.”

Sannyāsa and the rarity of the Paramahaṃsa; inner purity and Brahman-abidance beyond external marksMahavakya: Implicitly supports Atharva-veda mahāvākya ‘Ayam Ātmā Brahma’ by emphasizing the realized sage as embodiment of Vedic truth and divine indwelling; not a direct quotationAtharvaChandas: Prose

Ask anything about this verse

Answers come straight from the texts, with the shlokas they draw on. Ask in your own words.

Not sure where to start?

A free sign-in with Google or Apple keeps your chat saved across web and the app.

Read Upanishads in the Vedapath app

Scan the QR code to open this directly in the app, with word-by-word meanings, Sanskrit recitation where available, and more.

Download on the App StoreGet it on Google Play

Continue reading in the Vedapath app

Open in App
Download on the App StoreGet it on Google Play