Kshurika
तपोविजितचित्तस्तु निःशब्दं देशमास्थितः । निःसङ्गतत्त्वयोगज्ञो निरपेक्षः शनैः शनैः ॥२१॥
तपः-विजित-चित्तः । तु । निःशब्दम् । देशम् । आस्थितः । निःसङ्ग-तत्त्व-योग-ज्ञः । निरपेक्षः । शनैः । शनैः ।
tapovijitacittas tu niḥśabdaṃ deśam āsthitaḥ | niḥsaṅgatattvayogajño nirapekṣaḥ śanaiḥ śanaiḥ ||21||
然而,若有人以苦行(tapas)降伏其心,安住于无声之处,了知无执之真实瑜伽,且无所依待,便能渐次而行,步步推进。
But one whose mind has been conquered by austerity, having resorted to a soundless place, knowing the yoga of the reality of non-attachment, and being without dependence, [proceeds] gradually, step by step.