Katharudra
संन्यस्याग्निं न पुनरावर्तयेत् मृत्युञ्जयमावहमित्यध्यात्ममन्त्रान् पठेत् । स्वस्ति सर्वजीवेभ्य इत्युक्त्वात्मानमनन्यं ध्यायन् तदूर्ध्वबाहुर्विमुक्तमार्गो भवेत् । अनिकेतश्चरेत् । भिक्षाशी यत्किञ्चिन्नाद्यात् । लवैकं न धावयेज्जन्तुसंरक्षणार्थं वर्षवर्जमिति । तदपि श्लोका भवन्ति ॥४॥
संन्यस्य । अग्निम् । न । पुनरावर्तयेत् । मृत्युञ्जयम्-आवहम् । इति । अध्यात्म-मन्त्रान् । पठेत् । स्वस्ति । सर्व-जीवेभ्यः । इति । उक्त्वा । आत्मानम् । अनन्यम् । ध्यायन् । तत् । ऊर्ध्व-बाहुः । विमुक्त-मार्गः । भवेत् । अनिकेतः । चरेत् । भिक्षाशी । यत्किञ्चित् । न । आद्यात् । लव-एकम् । न । धावयेत् । जन्तु-संरक्षण-अर्थम् । वर्ष-वर्जम् । इति । तत् । अपि । श्लोकाः । भवन्ति ।
saṃnyasyāgniṃ na punarāvartayet mṛtyuñjayam āvaham ity adhyātma-mantrān paṭhet | svasti sarvajīvebhya ity uktvātmānam ananyaṃ dhyāyan tad ūrdhvabāhur vimukta-mārgo bhavet | aniketaś caret | bhikṣāśī yatkiñcin nādyāt | lavaikaṃ na dhāvayej jantu-saṃrakṣaṇārthaṃ varṣa-varjam iti | tad api ślokā bhavanti ||4||
既已舍弃圣火之祭,便不应再回返旧日生活。应诵持内在之咒(adhyātma),作意曰:“带来胜越死亡。”又说:“愿一切众生安泰。”观自我为不二、无他;双臂上举向上,则成为行于解脱之道者。应无家而游行。以乞食为生,不可随意受取。为护诸有情,不应为哪怕一粒(食物)而奔走——唯雨季例外。关于此亦有偈颂。
Having renounced the sacred fires, one should not return (to the former life). One should recite the adhyātma-mantras, (saying) “bringing the conquest of death.” Having said, “Well-being to all living beings,” meditating on the Self as non-other (non-dual), with arms raised upward, one becomes one whose path is liberation. One should wander without a home. Living on alms, one should not accept just anything. One should not run even for a single particle (of food), for the protection of creatures—except in the rainy season. On this there are also verses.