Katharudra
स स्वर्ग्यो भवति ब्रह्मचारी वेदमधीत्य वेदोक्ताचरितब्रह्मचर्यो दारानाहृत्य पुत्रानुत्पाद्य ताननुपादिभिर्वितत्येष्ट्वा च शक्तितो यज्ञैः । तस्य संन्यासो गुरुभिरनुज्ञातस्य बान्धवैश्च । सोऽरण्यं परेत्य द्वादशरात्रं पयसाग्निहोत्रं जुहुयात् । द्वादशरात्रं पयोभक्षा स्यात् । द्वादशरात्रस्यान्ते अग्नये वैश्वानराय प्रजापतये च प्राजापत्यं चरुं वैष्णवं त्रिकपालम् अग्निं संस्थितानि पूर्वाणि दारुपात्राण्यग्नौ जुहुयात् । मृण्मयान्यप्सु जुहुयात् । तैजसानि गुरवे दद्यात् । मा त्वं मामपहाय परागाः । नाहं त्वामपहाय परागामिति । गार्हपत्यदक्षिणाग्न्याहवनीयेष्वरणिदेशाद्भस्ममुष्टिं पिबेदित्येके । सशिखान्केशान्निष्कृत्य विसृज्य यज्ञोपवीतं भूः स्वाहेत्यप्सु जुहुयात् । अत ऊर्ध्वमनशनमपां प्रवेशमग्निप्रवेशं वीराध्वानं महाप्रस्थानं वृद्धाश्रमं वा गच्छेत् । पयसा यं प्राश्नीयात् सोऽस्य सायंहोमः । यत्प्रातः सोऽयं प्रातः । यद्दर्शे तद्दर्शनम् । यत्पौर्णमास्ये तत्पौर्णमास्यम् । यद्वसन्ते केशश्मश्रुलोमनखानि वापयेत् सोऽस्याग्निष्टोमः ॥३॥
सः । स्वर्ग्यः । भवति । ब्रह्मचारी । वेदम्-अधीत्य । वेद-उक्त-आचरित-ब्रह्मचर्यः । दारान्-आहृत्य । पुत्रान्-उत्पाद्य । तान् । अनुपादिभिः । वितत्य । इष्ट्वा । च । शक्तितः । यज्ञैः । तस्य । संन्यासः । गुरुभिः । अनुज्ञातस्य । बान्धवैः । च । सः । अरण्यम् । परेत्य । द्वादश-रात्रम् । पयसा । अग्निहोत्रम् । जुहुयात् । द्वादश-रात्रम् । पयः-भक्षा । स्यात् । द्वादश-रात्रस्य । अन्ते । अग्नये । वैश्वानराय । प्रजापतये । च । प्राजापत्यम् । चरुम् । वैष्णवम् । त्रि-कपालम् । अग्निम् । संस्थितानि । पूर्वाणि । दारु-पात्राणि । अग्नौ । जुहुयात् । मृण्मयानि । अप्सु । जुहुयात् । तैजसानि । गुरवे । दद्यात् । मा । त्वम् । माम् । अपहाय । परागाः । न । अहम् । त्वाम् । अपहाय । परागाम् । इति । गार्हपत्य-दक्षिण-अग्नि-आहवनीयेषु । अरणि-देशात् । भस्म-मुष्टिम् । पिबेत् । इति । एके । स-शिखान् । केशान् । निष्कृत्य । विसृज्य । यज्ञोपवीतम् । भूः । स्वाहा । इति । अप्सु । जुहुयात् । अतः । ऊर्ध्वम् । अनशनम् । अपाम् । प्रवेशम् । अग्नि-प्रवेशम् । वीर-अध्वानम् । महा-प्रस्थानम् । वृद्ध-आश्रमम् । वा । गच्छेत् । पयसा । यम् । प्राश्नीयात् । सः । अस्य । सायम्-होमः । यत् । प्रातः । सः । अयम् । प्रातः । यत् । दर्शे । तत् । दर्शनम् । यत् । पौर्णमास्ये । तत् । पौर्णमास्यम् । यत् । वसन्ते । केश-श्मश्रु-लोम-नखानि । वापयेत् । सः । अस्य । अग्निष्टोमः ॥३॥
sa svargyo bhavati brahmacārī vedam adhītya vedoktācarita-brahmacaryo dārān āhṛtya putrān utpādya tān anupādibhir vitatyeṣṭvā ca śaktito yajñaiḥ | tasya saṃnyāso gurubhir anujñātasya bāndhavaīś ca | so’raṇyaṃ paretya dvādaśarātraṃ payasāgnihotraṃ juhuyāt | dvādaśarātraṃ payobhakṣā syāt | dvādaśarātrasyānte agnaye vaiśvānarāya prajāpataye ca prājāpatyaṃ caruṃ vaiṣṇavaṃ trikapālam agniṃ saṃsthitāni pūrvāṇi dārupātrāṇy agnau juhuyāt | mṛṇmayāny apsu juhuyāt | taijasāni gurave dadyāt | mā tvaṃ mām apahāya parāgāḥ | nāhaṃ tvām apahāya parāgām iti | gārhapatya-dakṣiṇāgny-āhavanīyeṣv araṇideśād bhasmamuṣṭiṃ pibed ity eke | saśikhān keśān niṣkṛtya visṛjya yajñopavītaṃ bhūḥ svāhety apsu juhuyāt | ata ūrdhvam anaśanam apāṃ praveśam agnipraveśaṃ vīrādhvānaṃ mahāprasthānaṃ vṛddhāśramaṃ vā gacchet | payasā yaṃ prāśnīyāt so’sya sāyaṃhomaḥ | yat prātaḥ so’yaṃ prātaḥ | yad darśe tad darśanam | yat paurṇamāsye tat paurṇamāsyam | yad vasante keśa-śmaśru-loma-nakhāni vāpayet so’syāgniṣṭomaḥ ||3||
他便成为堪受天界之人:曾为梵行学子(brahmacārin),研习吠陀,并依吠陀所说修持梵行;继而娶妻、生子,以孙辈延展家系,并随力行诸祭祀——其出离(saṃnyāsa)当得师长与亲族许可。入于林野后,应以乳行火供(agnihotra)十二夜;十二夜间唯以乳为食。十二夜终了,为毗舍瓦那罗之火神(Agni Vaiśvānara)与生主(Prajāpati)献上生主祭供(prājāpatya):以三器所盛之毗湿奴式caru供品;先前置放的木器应投于火中;陶器投于水中;金属器奉与师长,并说:‘愿师莫弃我而去。’师答:‘我不弃你而去。’亦有人说:于家火(gārhapatya)、南火(dakṣiṇa)与供火(āhavanīya)之处,当从钻木取火之地取一把灰而饮。剪去并弃置顶髻之发,又以“bhūḥ svāhā”将圣线投于水中;此后可行绝食之道、入水之道、入火之道、勇士之道、伟大出发(mahāprasthāna)之道,或安住老年之期。凡以乳所食者,即为其夕供;晨间所食者,即为其朝供;新月日所行者,即为新月仪;满月日所行者,即为满月仪;而春时剃发、剃须、去体毛并剪甲者,即为其火祭总供(agniṣṭoma)。
He becomes fit for heaven: having been a celibate student, having studied the Veda, having practiced the celibacy enjoined by the Veda; having taken a wife, having produced sons, having extended the lineage through grandsons, and having performed sacrifices according to ability—his renunciation is (to be undertaken) with the permission of the teachers and also of the relatives. Having gone to the forest, he should offer the agnihotra with milk for twelve nights; for twelve nights he should subsist on milk. At the end of twelve nights, for Agni Vaiśvānara and for Prajāpati he should offer a prājāpatya oblation— a Vaiṣṇava caru in a three-pot offering; he should cast into the fire the former wooden vessels that have been set aside; the earthen ones he should cast into water; the metal ones he should give to the teacher, (saying) ‘Do not, abandoning me, go away.’ ‘I will not, abandoning you, go away,’ (he replies). Some say: in the gārhapatya, dakṣiṇa, and āhavanīya fires, he should drink a handful of ash from the place of the fire-drill. Having removed and cast away the hair with the topknot, and having cast the sacred thread into water with ‘bhūḥ svāhā,’ thereafter he may proceed to fasting, entering water, entering fire, the hero’s path, the great departure, or the stage of old age. What he eats with milk is his evening offering; what (he eats) in the morning is his morning offering; what (he does) on the new-moon day is the new-moon rite; what on the full-moon day is the full-moon rite; and when in spring he shaves hair, beard, body-hair, and nails, that is his agniṣṭoma.