Katharudra
ब्रह्मचर्येण सन्तिष्ठेदप्रमादेन मस्करी ।
दर्शनं स्पर्शनं केलिः कीर्तनं गुह्यभाषणम् ॥
संकल्पोऽध्यवसायश्च क्रियान्निर्वृत्तिरेव च ।
एतन्मैथुनमष्टाङ्गं प्रवदन्ति मनीषिणः ॥
विपरीतं ब्रह्मचर्यमनुष्ठेयं मुमुक्षुभिः ।
यज्जगद्भासकं भानं नित्यं भाति स्वतः स्फुरत् ॥
ब्रह्मचर्येण । सन्तिष्ठेत् । अप्रमादेन । मस्करी ।
दर्शनम् । स्पर्शनम् । केलिः । कीर्तनम् । गुह्य-भाषणम् ।
संकल्पः । अध्यवसायः । च । क्रिया । अन्निर्वृत्तिः । एव । च ।
एतत् । मैथुनम् । अष्ट-अङ्गम् । प्रवदन्ति । मनीषिणः ।
विपरीतम् । ब्रह्मचर्यम् । अनुष्ठेयम् । मुमुक्षुभिः ।
यत् । जगत्-भासकम् । भानम् । नित्यम् । भाति । स्वतः । स्फुरत् ।
brahmacaryeṇa santiṣṭhed apramādena maskarī |
darśanaṃ sparśanaṃ keliḥ kīrtanaṃ guhya-bhāṣaṇam ||
saṅkalpo 'dhyavasāyaś ca kriyānnirvṛttir eva ca |
etan maithunam aṣṭāṅgaṃ pravadanti manīṣiṇaḥ ||
viparītaṃ brahmacaryam anuṣṭheyaṃ mumukṣubhiḥ |
yaj jagad-bhāsakaṃ bhānaṃ nityaṃ bhāti svataḥ sphurat ||
以梵行(brahmacarya)当坚住不退,并以不放逸而自持,噢行脚者。见、触、戏狎、赞咏歌唱与密语;以及意向与决断,并那导向行为圆满完成的实行——智者称此为八支之淫合。求解脱者当修其相反者——梵行——以安住于那自性光明:照耀世界之光,恒常照耀,自然闪现。
By brahmacarya one should remain firm, with heedfulness, O mendicant. Seeing, touching, dalliance, praising/singing, and secret talk; intention and resolve, and also the performance culminating in completion of the act—this is declared by the wise to be eightfold sexual union. The opposite of that—brahmacarya—should be practiced by seekers of liberation, (so that one abides in) that self-luminous radiance which illumines the world and ever shines, flashing forth of itself.