अयने द्वे च विषुवे सदा पश्यति मार्गवित् । कृत्वायामं पुरा वत्स रेचपूरककुम्भकान् ॥ पूर्वं चोभयमुच्चार्य अर्चयेत्तु यथाक्रमम् । नमस्कारेण योगेन मुद्रयारभ्य चार्चयेत् ॥ सूर्यस्य ग्रहणं वत्स प्रत्यक्षयजनं स्मृतम् । ज्ञानात्सायुज्यमेवोक्तं तोये तोयं यथा तथा ॥५५–५७॥
अयने इति द्वे च विषुवे सदा पश्यति मार्ग-वित् । कृत्वा आयामम् पुरा वत्स रेच-पूरक-कुम्भकान् । पूर्वम् च उभयम् उच्चार्य अर्चयेत् तु यथा-क्रमम् । नमस्कारेण योगेन मुद्रया आरभ्य च अर्चयेत् । सूर्यस्य ग्रहणम् वत्स प्रत्यक्ष-यजनम् स्मृतम् । ज्ञानात् सायुज्यम् एव उक्तम् तोये तोयम् यथा तथा ।
ayane dve ca viṣuve sadā paśyati mārgavit | kṛtvāyāmaṃ purā vatsa reca-pūraka-kumbhakān || pūrvaṃ cobhayam uccārya arcayettu yathākramam | namaskāreṇa yogena mudrayārabhya cārcayet || sūryasya grahaṇaṃ vatsa pratyakṣa-yajanaṃ smṛtam | jñānāt sāyujyam evoktaṃ toye toyaṃ yathā tathā ||55–57||
知晓正道者恒常观照二至与春秋分。先行调息,亲爱的——出息、入息与住息;继而诵出两种召请,依次而礼敬供养。以瑜伽礼拜为始,并结印(mudrā)而修供。亲爱的,日食被忆念为现前之祭(yajña);由智慧唯宣说与至上梵的合一——如水与水相融而无二。
The knower of the path always observes the two solstices and the equinox. Having first performed regulated breathing, O dear one—exhalation, inhalation, and retention—he should then, having uttered both (invocations), worship in due order. Beginning with a yogic salutation and with a mudrā, he should worship. The eclipse of the sun, O dear one, is remembered as a direct sacrifice; through knowledge, union (with the Absolute) alone is declared—like water (becoming one) with water.