Brahmavidya
गृहस्थो ब्रह्मचारी च वानप्रस्थश्च भिक्षुकः । यत्र तत्र स्थितो ज्ञानी परमाक्षरवित्सदा ॥ विषयी विषयासक्तो याति देहान्तरे शुभम् । ज्ञानादेवास्य शास्त्रस्य सर्वावस्थोऽपि मानवः ॥४९-५०॥
गृहस्थः । ब्रह्मचारी । च । वानप्रस्थः । च । भिक्षुकः । यत्र । तत्र । स्थितः । ज्ञानी । परम-अक्षर-वित् । सदा ॥ विषयी । विषय-आसक्तः । याति । देह-अन्तरे । शुभम् । ज्ञानात् । एव । अस्य । शास्त्रस्य । सर्व-अवस्थः । अपि । मानवः ॥
gṛhastho brahmacārī ca vānaprasthaś ca bhikṣukaḥ | yatra tatra sthito jñānī paramākṣaravit sadā || viṣayī viṣayāsakto yāti dehāntare śubham | jñānād evāsya śāstrasya sarvāvastho 'pi mānavaḥ ||49–50||
无论为居家者、梵行学子、林栖者或行乞沙门——不论身在何处——恒常了知至上不坏者(Akṣara)之智者,皆如是。耽著诸境、随逐欲乐者,将入他身而流转;唯由此教法之知见,人即使处于任何人生阶段,亦能达至究竟。
Whether a householder, a celibate student, a forest-dweller, or a mendicant—wherever he may be situated—the knower, the constant knower of the supreme Imperishable, (is such). The sense-enjoyer, attached to objects, goes into another body; by the knowledge of this teaching alone, a human being—even in any condition of life—(attains the goal).