Brahmavidya
नभस्थं निष्कलं ध्यात्वा मुच्यते भवबन्धनात् । अनाहतध्वनियुतं हंसं यो वेद हृद्गतम् ॥ स्वप्रकाशचिदानन्दं स हंस इति गीयते । रेचकं पूरकं मुक्त्वा कुम्भकेन स्थितः सुधीः ॥ नाभिकन्दे समौ कृत्वा प्राणापानौ समाहितः । मस्तकस्थामृतास्वादं पीत्वा ध्यानेन सादरम् ॥ दीपाकारं महादेवं ज्वलन्तं नाभिमध्यमे । अभिषिच्यामृतेनैव हंस हंसेति यो जपेत् ॥ जरामरणरोगादि न तस्य भुवि विद्यते । एवं दिने दिने कुर्याद् अणिमादिविभूतये ॥२०-२४॥
नभः-स्थम् । निष्कलम् । ध्यात्वा । मुच्यते । भव-बन्धनात् । अनाहत-ध्वनि-युतम् । हंसम् । यः । वेद । हृत्-गतम् ॥ स्व-प्रकाश-चित्-आनन्दम् । सः । हंसः । इति । गीयते । रेचकम् । पूरकम् । मुक्त्वा । कुम्भकेन । स्थितः । सुधीः ॥ नाभि-कन्दे । समौ । कृत्वा । प्राण-अपानौ । समाहितः । मस्तक-स्थ-अमृत-आस्वादम् । पीत्वा । ध्यानेन । स-आदरम् ॥ दीप-आकारम् । महा-देवम् । ज्वलन्तम् । नाभि-मध्यमे । अभिषिच्य । अमृतेन । एव । हंस । हंसेति । यः । जपेत् ॥ जरा-मरण-रोग-आदि । न । तस्य । भुवि । विद्यते । एवम् । दिने । दिने । कुर्यात् । अणिमा-आदि-विभूतये ॥
nabhasthaṃ niṣkalaṃ dhyātvā mucyate bhavabandhanāt | anāhatadhvaniyutaṃ haṃsaṃ yo veda hṛdgatam || svaprakāśacidānandaṃ sa haṃsa iti gīyate | recakaṃ pūrakaṃ muktvā kumbhakena sthitaḥ sudhīḥ || nābhikande samau kṛtvā prāṇāpānau samāhitaḥ | mastakasthāmṛtāsvādaṃ pītvā dhyānena sādaram || dīpākāraṃ mahādevaṃ jvalantaṃ nābhimadhyame | abhiṣicyāmṛtenaiva haṃsa haṃseti yo japet || jarāmaraṇarogādi na tasya bhuvi vidyate | evaṃ dine dine kuryād aṇimādivibhūtaye ||20–24||
观想住于虚空之“无分”本原,便从生有之缚得解脱。若人了知心中之haṃsa,具“不击之声”(anāhata),彼即被称为自明之觉知与安乐。舍出入息,智者安住于闭息(kumbhaka)。令prāṇa与apāna于脐根处平等,专注不散,以恭敬之禅饮顶上之甘露味。复观大天如灯焰之形,于脐中炽然;以甘露灌润之,诵“haṃsa、haṃsa”者,于世无老、无死、无病等苦。应日日修行,以得aṇimā等诸悉地。
Having meditated on the partless (principle) abiding in the sky (space), one is released from the bondage of becoming. Whoever knows the haṃsa situated in the heart, endowed with the unstruck sound—he is said to be self-luminous consciousness and bliss. Abandoning exhalation and inhalation, the wise one remains in retention (kumbhaka). Having made prāṇa and apāna equal at the navel-bulb, concentrated, he drinks—through meditation with reverence—the taste of nectar located in the head. (He meditates on) the great deity, flame-shaped, blazing in the middle of the navel; having anointed (it) with nectar, whoever repeats ‘haṃsa, haṃsa’—for him on earth there is no old age, death, disease, and the like. Thus one should do (this) day by day for the attainment of aṇimā and other powers.