Amritnada
एकमात्रस्तथाकाशो ह्यर्धमात्रं तु चिन्तयेत् । सिद्धिं कृत्वा तु मनसा चिन्तयेदात्मनात्मनि ॥३२॥
एक-मात्रः । तथा । आकाशः । हि । अर्ध-मात्रम् । तु । चिन्तयेत् । सिद्धिम् । कृत्वा । तु । मनसा । चिन्तयेत् । आत्मना । आत्मनि ॥
ekamātras tathākāśo hy ardhāmātraṃ tu cintayet | siddhiṃ kṛtvā tu manasā cintayed ātmanātmani ||32||
同样,虚空(ākāśa)具一摩怛罗;并当观想半摩怛罗。以心成就悉地之后,当以自我观照真我,于真我之中。
Likewise, space (ākāśa) is of one mātrā; and one should contemplate the half-mātrā. Having effected accomplishment (siddhi) with the mind, one should contemplate the Self by the self, in the Self.