Amritnada
शास्त्राण्यधीत्य मेधावी अभ्यस्य च पुनः पुनः ।
परं ब्रह्म विज्ञाय उल्कावत्तान्यथोत्सृजेत् ॥१॥
शास्त्राणि । अधीत्य । मेधावी । अभ्यस्य । च । पुनः । पुनः ।
परम् । ब्रह्म । विज्ञाय । उल्का-वत् । तानि । अथ । उत्सृजेत् ॥१॥
śāstrāṇy adhītya medhāvī abhyasya ca punaḥ punaḥ |
paraṃ brahma vijñāya ulkāvat tāny athotsṛjet ||1||
既研习诸论典,又反复修习;智者既证知至上梵(Brahman),便应将诸论典放下,如弃火炭之炬。
Having studied the treatises and practiced them again and again, the intelligent one—having realized the Supreme Brahman—should then cast those (treatises) aside, like a firebrand.