Akshamalika
अथ तां पञ्चभिर्गन्धैरमृतैः पञ्चभिर्गव्यैस्तनुभिः शोधयित्वा, पञ्चभिर्गव्यैर्गन्धोदकेन संस्राप्य, तस्मात् सोङ्कारेण पत्रकूर्चेन स्नपयित्वा, अष्टभिर्गन्धैरालिप्य, सुमनःस्थले निवेश्य, अक्षतपुष्पैराराध्य, प्रत्यक्षम् आदिक्षान्तैर्वर्णैर्भावयेत् ॥४॥
अथ । ताम् । पञ्चभिः । गन्धैः । अमृतैः । पञ्चभिः । गव्यैः । तनुभिः । शोधयित्वा । पञ्चभिः । गव्यैः । गन्ध-उदकेन । संस्राप्य । तस्मात् । स-ओङ्कारेण । पत्र-कूर्चेन । स्नपयित्वा । अष्टभिः । गन्धैः । आलिप्य । सुमनः-स्थले । निवेश्य । अक्षत-पुष्पैः । आराध्य । प्रत्यक्षम् । आदि-क्षान्तैः । वर्णैः । भावयेत् ॥४॥
atha tāṃ pañcabhir gandhair amṛtaiḥ pañcabhir gavyais tanubhiḥ śodhayitvā, pañcabhir gavyair gandhodakena saṃsrāpya, tasmāt soṅkāreṇa patrakūrcena snapayitvā, aṣṭabhir gandhair ālipya, sumanaḥsthale niveśya, akṣatapuṣpair ārādhya, pratyakṣam ādikṣāntair varṇair bhāvayet ||4||
随后,以五种如甘露之香与五牛产(pañcagavya)作细致涂净;再以含五牛产之香水洒净。继而诵“sa-oṃkāra”,以叶刷为之沐浴;复以八香涂抹,安置于清净悦意之处;以不碎米(akṣata)与花供养礼敬——并以从‘a’至‘kṣa’之字母,令其显现于观想之中。
Then, having purified it with five nectarean fragrances and with the five products of the cow in subtle (applications), and having sprinkled it with scented water together with the five cow-products, then bathing it with a leaf-brush while (uttering) ‘sa-oṃkāra’, anointing it with eight fragrances, placing it in a pleasing spot, worshipping it with unbroken rice and flowers—one should contemplate (it) manifestly with the letters beginning with ‘a’ and ending with ‘kṣa’ (i.e., the alphabet).