Akshamalika
यदस्याऽन्तरं सूत्रं तद्ब्रह्म । यद्दक्षपार्श्वे तच्छैवम् । यद्वामे तद्वैष्णवम् । यन्मुखं सा सरस्वती । यत्पुच्छं सा गायत्री । यत्सुषिरं सा विद्या । या ग्रन्थिः सा प्रकृतिः । ये स्वरास्ते धवलाः । ये स्पर्शास्ते पीताः । ये परास्ते रक्ताः ॥३॥
यत् । अस्याः । अन्तरम् । सूत्रम् । तत् । ब्रह्म । यत् । दक्ष-पार्श्वे । तत् । शैवम् । यत् । वामे । तत् । वैष्णवम् । यत् । मुखम् । सा । सरस्वती । यत् । पुच्छम् । सा । गायत्री । यत् । सुषिरम् । सा । विद्या । या । ग्रन्थिः । सा । प्रकृतिः । ये । स्वराः । ते । धवलाः । ये । स्पर्शाः । ते । पीताः । ये । पराः । ते । रक्ताः ॥३॥
yad asyāntaraṃ sūtraṃ tad brahma | yad dakṣapārśve tac chaivam | yad vāme tad vaiṣṇavam | yan mukhaṃ sā sarasvatī | yat pucchaṃ sā gāyatrī | yat suṣiraṃ sā vidyā | yā granthiḥ sā prakṛtiḥ | ye svarās te dhavalāḥ | ye sparśās te pītāḥ | ye parās te raktāḥ ||3||
其内在之线即是梵(Brahman)。右侧为湿婆相(Śaiva),左侧为毗湿奴相(Vaiṣṇava)。其“口”为辩才天女萨拉斯瓦蒂(Sarasvatī);其“尾”为伽雅特丽(Gāyatrī)。其孔窍为明知(Vidyā)。其结为原质(Prakṛti)。元音为白色;触音字母(sparśa)为黄色;其余字母为红色。
That inner thread of it is Brahman. That on the right side is Śaiva; that on the left is Vaiṣṇava. Its ‘mouth’ is Sarasvatī; its ‘tail’ is Gāyatrī. Its hole (aperture) is Vidyā. Its knot is Prakṛti. The vowels are white; the consonantal contacts (sparśa letters) are yellow; the remaining (letters) are red.